________________
186
त्रायस्त्रिंशकरूढिस्तु, नैतेभ्य एव किन्तु ते । उत्पद्यन्ते च्यवन्ते च, स्वस्वस्थित्या परापराः ॥ १०६ ॥ तितोऽस्य पर्षदस्तत्राभ्यन्तरा समिताभिधा । मध्या चण्डाभिधा ज्ञेया, बाह्या जाताह्वया पुनः ॥ १०७ ॥ स्युश्चतुर्विंशतिदेवसहस्राण्याद्यपर्षदि । सार्धपल्योपमद्वन्दस्थितीन्यथात्र पर्षदि ॥ १०८ ॥ शतान्यर्द्धतृतीयानि, सार्द्धपल्योपमायुषाम् । देवीनां मध्यमायां चाष्टाविंशतिः सहस्रकाः ॥ १०९ ॥ द्विपल्यायुर्निर्जराणां, देवीनां विहपर्षदि । शतानि त्रीण्येकपल्यायुषामथान्त्यपर्षदि ॥ ११० ॥ स्यु त्रिंशत्सहस्राणि, सार्द्धपल्यायुषः सुराः । शतान्यर्द्धचतुर्थानि, देव्योर्द्धपल्यजीविताः ॥ १११ ॥ यथैव पर्षदस्तिस्रो, वर्णिताश्चमरेशितुः । एवं सामानिकत्रायस्त्रिंशकानां तदाह्वयाः ॥ ११२ ॥ पर्षदो लोकपालानां, पुनस्तिस्रो भवन्ति ताः । तपाथ त्रुटिता पर्वा, इत्येतैर्नामभिर्युताः ॥ ११३ ॥ इदमर्थत: स्थानाङ्गसूत्रे ॥ काली राजी च रन्ती, च विद्युन्मेघाभिधा परा । पञ्चास्याग्रमहिष्य: स्यू, रूपलावण्यबन्धुराः ॥ ११४ ॥ कालीयं प्राग्भवे जम्बूद्वीपे दक्षिणभारते । पुर्यामामलकल्पायां, कालाख्यस्य गृहेशितुः ॥ ११५ ॥ कालश्रीतनुसंभूता, कालीनामाभवत् सुता । बृहत्कुमारी श्रीपार्श्वपुष्पचूलार्पितव्रता ॥ ११६ ॥ यथाछन्दीभूय दोषानप्रतिक्रम्य पाक्षिकीम् । कृत्वा संलेखनां मृत्वा, चमरेन्द्रप्रियाभवत् ॥ ११७ ॥ कालावतंसं भवनं, कालं सिंहासनं भवेत् । काल्या देव्याः परासामप्येवं स्वाख्यानुरूपतः ॥ ११८ ॥ स्वस्वनामसदृक्नामजननीजनका इति । ज्ञेयाः शेषाश्चतस्राऽपि तथैव मलिनव्रताः ॥ ११९ ॥ स्वाख्यावतंसे भवने, स्वाख्ये सिंहासनेऽभवन् । चमरेन्द्रप्रिया एताः, सार्द्धपल्यद्धयायुषः ॥ १२० ॥ बलीन्द्रदयितानामप्यैतिह्यमनया दिशा । श्रावस्त्यासां पुरी सार्द्धमायुः पल्यत्रयं पुनः ॥ १२१ ॥ एकैकाग्रमहिष्यष्टसहस्रपरिवारयुक् । सहस्राण्यष्ट देवीनां, नव्यानां रचितुं क्षमा ॥ १२२ ॥ चत्वारिंशत् सहस्राणि, स्युर्देव्यः सर्वसंख्यया । भुङ्क्तेऽसुरेन्द्रश्चैताभिः, कृतैतावत्तनुः सुखम् ॥ १२३ ॥ सोमो यमश्च वरुणस्तथा वैश्रमणाभिधः । चत्वारोऽस्य लोकपालाश्चतुर्दिगधिकारिणः ॥ १२४ ॥ चतुर्णामप्यथैतेषां, चतस्रः प्राणवल्लभाः । कनका कनकलता, चित्रगुप्ता वसुन्धरा ॥ १२५ ॥ एकैकेयं च साहस्रपरिवारविराजिता । देवी सहस्रमेकैकं, नव्यं विकृवितुं क्षमा ॥ १२६ ॥ स्वस्वनामराजधान्यां, स्वस्वसिंहासने स्थिताः । चत्वारोऽमी लोकपाला भुञ्जते दिव्यसम्पदम् ॥ १२७ ॥ तथास्य चमरेन्द्रस्य, सप्त सैन्यानि तत्र च । पादात्याश्वेभमहिषरथसंज्ञानि पञ्च वै ॥ १२८ ॥ एते सुरा अपि स्वामिशासनात् कार्यहेतवे । तादूप्यं प्रतिपद्यन्ते, नायकोक्तेर्नटा इव ॥ १२९ ॥ एतानि पञ्च सैन्यानि, युद्धसज्जान्यहर्निशम् । गन्धर्वनटसैन्ये ये, ते भोगायेति सप्तकम् ॥ १३० ॥ सप्त सेनान्योऽप्यमीषां, सर्वदा वशवर्तिनः । सेवन्तेऽसुरनेतारं, चमरं विनयानताः ॥ १३१ ॥