________________
185
नमस्कृत्य जिनं युष्मन्निश्रया याम्यहं युधे । यूयं मे त्राणमित्युक्त्वा, भूयोऽप्युत्तरवैक्रियम् ॥ ७९ ॥ वपुर्णीष्मं माषराशिकुहूरात्रिसहोदरम् । कृत्वा योजनलक्षोच्चमुत्पपात नभस्तलम् ॥ ८० ॥ कुर्वन्क्वचित् सिंहनादं, क्वचिच्च गजगर्जितम् । हयहेषारवं क्वापि, क्वचित्कलकलध्वनिम् ॥ ८१ ॥ क्षोभयन्निव पातालं, कम्पयन्निव मेदिनीम् । तिर्यग्लोकं व्याकुलयन्, स्फोटयिष्यन्निवाम्बरम् ॥ ८२ ॥ विद्युद्वृष्टिगर्जितानि, रजस्तमांसि चोत्किरन् । वायसन् व्यन्तरान् देवान्, कुर्वन् ज्योतिषिकान् द्विधा ॥ ८३ ॥ विमानस्याथ सौधर्मावतंसकस्य वेदिकाम् । आक्रम्यैकेनापरेण, सुधर्मासंसदं पदा ॥ ८४ ॥ जधान परिधेणेन्द्रकीलकं त्रिस्ततोऽवदत् । क्व रे शक्रः क्व रे सामानिका: क्व रे सुरा: परे ॥ ८५ ॥ पातयामि घातयामि, शातयाम्यधुनाखिलान् । करोम्यप्सरसः सर्वाः, स्वायत्ता: सह वैभवैः ॥८६॥ फलं मदाशातनायाः, शक्रोऽनुभवतादिति । गिर: श्रुत्वाश्रुतपूर्वाः, भृकुटीभीषणो हरिः ॥ ८७ ॥ सक्रोधहासमित्याह, किं रे चमर दुर्दश । नवोत्पन्नोऽसि रे मूढ, मुमूर्षस्यधुनैव किम् ॥८८ ॥ यद्धा तवयानुत्साहोऽनर्थायैव न संशयः । पक्षौ पिपीलिकानां हि, जायेते मृत्युहेतवे ॥ ८९ ॥ इमां गृहाणातिथेयीं, मदवज्ञाफलं मनाक् । मुमोच वज्रमित्युक्त्वा, ज्वलज्ज्वालाकरालितम् ॥ ९० ॥ तद् दष्ट्वा चकितोऽत्यन्तं, नश्यन् संकोच्य भूधनम् । प्रविष्टो रक्ष रक्षेति, वदन वीरक्रमान्तरे ॥ ९१ ॥ ततः शक्रोऽपि विज्ञाय, वीरं तच्छरणीकृतम् । चतुरङ्गुलमप्राप्तमादाय पविमित्यवक् ॥ ९२ ॥ कम्पसे किमिदानी भोः, पशुः सिंहेक्षणादिव । वीरप्रसादात् मुक्तोऽसि, न ते मत्तोऽधुना भयम् ॥ ९३ ॥ इत्युक्त्वा वामपादेन, त्रिः प्रहत्य वसुन्धराम् । क्षमयित्वा जिनेन्द्रं च, सुरेन्द्रः स्वास्पदं ययौ ॥ ९४ ॥ ततो वज्रभयात् मुक्तश्चमरेन्द्रो निजाश्रयम् । गत्वा सामानिकादीनामुवाचोदन्तमादितः ॥ ९५ ॥ भद्रं स्तात् त्रैशलेयाय, तस्मै त्रैलोक्यबन्धवे । येन त्रातोऽस्मि मरणात्, हंत वज्राग्निदुस्सहात् ॥ ९६ ॥ उपकारमिति प्राज्ञस्तं स्मरन् सपरिच्छदः । गत्वा पुनर्महावीरमभ्यर्च्य ताण्डवादिभिः ॥ ९७ ॥ आगत्य स्वास्पदं प्रीतो, विस्मृतेन्द्रपराभव: । धर्मकर्मस्थितिं सर्वामाराध्य सुखभागभूत् ॥ ९८ ॥ अयं च चमरोऽयासीद्यत्सौधर्मावतंसकम् । आश्चर्यमेतद्धिज्ञेयमनन्तकालसम्भवि ॥ ९९ ॥ चतुःषष्टिसहस्राणि, सामानिकसुधाभुजः । अस्य त्रायस्त्रिंशकाच, त्रयस्त्रिंशत्सुधाशिनः ॥ १०० ॥ एते च जम्बुद्धीपेऽत्र, क्षेत्रे भारतनामनि । काकन्यां पुर्यवर्त्तन्त, त्रयस्त्रिंशत् महर्द्धिकाः ॥ १०१ ॥ श्रद्धालवो ज्ञाततत्त्वाः, सहायाश्च परस्परम् । पूर्वं ते भावितात्मानोऽभूवन्नुग्रक्रियाश्रयाः ॥ १०२ ॥ पश्चाच्च कर्मवशतो, जाता धर्मे श्लथाशयाः । पार्श्वस्था अवसन्नाश्च, कुशीला: स्वैरचारिणः ॥ १०३ ॥ एवं च भूरिवर्षाणि, श्रमणोपासकक्रियाम् । आराध्यार्द्धमासिकी ते, कृत्वा संलेखनामपि ॥ १०४ ॥ अनालोच्याप्रतिक्रम्यातिचारांस्तान् पुराकृतान् । मृत्वा त्रयस्त्रिंशकत्वं, लेभिरे चमरेशितुः ॥ १०५ ॥