________________
184
स चैवम्,
•
अस्याश्चमरचञ्चाया, नैऋत्यां ककुभि ध्रुवम् । षट्कोटीनां शतान् पञ्चपञ्चाशत्कोटीसंयुतान् ॥ ५३ ॥ पञ्चत्रिंशच्च लक्षाणि पञ्चाशच्च सहस्रकान् । योजनानामतिक्रम्य, तस्मिन्नेवारुणोदधौ ॥ ५४ ॥ आवासो भाति चमरचञ्चञ्चञ्चच्छ्रियां निधिः । क्रमः क्रीडारतिस्थानं चमरस्यासुरेशितुः ॥ ५५ ॥ सहस्राण्येष चतुरशीतिमायतविस्तृतः । समन्ततः परिक्षिप्तः, प्राकारेण महीयसा ।। ५६ । सर्वं चमरचञ्चावत्, प्रासादादि भवेदिह । न विद्यन्ते परं पञ्च, सुधर्माद्याः सभाः शुभाः ॥ ५७ ॥ स एष साम्प्रतीनस्तु, जम्बूद्वीपेऽत्र भारते । बेभेलाख्ये सन्निवेशे, विन्ध्याचलसमीपगे ॥ ५८ ॥ आसीत् गृहपतिश्रेष्ठः, पूरणाख्यो महर्द्धिकः । जाग्रत्कुटुम्बजागर्यां निशि संवेगमाप सः ॥ ५९ ॥ प्रातर्निमन्त्र्य स्वजनान्, भोज्यवस्त्रादिभिर्भृशम् । सन्तोष्य ज्येष्ठपुत्राय, कुटुम्बभारमार्पयत् ॥ ६० ॥ पतद्ग्रहं दारुमयं, कारयित्वा चतुःपुटं । दीक्षां लात्वा दानमयीं, चक्रे सातापनं तपः ॥ ६१ ॥ षष्टस्यैव पारणायामुत्तीर्यातापनास्थलात् । भिक्षार्थमाटीत् बेभेले, करे धृत्वा पतत्ग्रहम् ॥ ६२ ॥ भिक्षां ददानः पान्थेभ्यः पतितां प्रथमे पुटे । काकशालावृकादीनां द्वितीयपुटसंगताम् ॥ ६३ ॥ तां मत्स्यकच्छपादीनां, तृतीयपुटगां ददत् । पतितां च पुटे तुर्ये, भिक्षामादत्स्वयं मिताम् ॥ ६४ ॥ एवं द्वादशवर्षाणि तपः कृत्वातिदुष्करम् । स पादपोपगमनमङ्गीकृत्यैकमासिकम् ॥ ६५ ॥ मृत्वामुष्यां राजधान्यां चमरेन्द्रतयाभवत् । सर्वपर्याप्तिपर्याप्तस्तत्कालोत्पन्न एव सः ॥ ६६ ॥ ऊर्ध्वमालोकयामास, स्वभावात् ज्ञानचक्षुषा । आसौधर्मदेवलोकं, तत्र दृष्ट्वा सुरेश्वरम् ॥ ६७ ॥ शक्रसिंहासनासीनं, पीनतेजः सुखश्रियम् । अचिन्तयन् मुमुर्षुः कः क्रीडत्येष ममोपरि ॥ ६८ ॥ ततः सामानिकान् देवान्, स आहूयेति पृष्टवान् । भो भो क एष योऽस्माकमपि मूर्द्धनि तिष्ठति ।। ६९ ।। तेऽपि व्यजिज्ञपन् नत्वा, स्वामिन्नेष सुधर्मराट् । नित्या स्थानव्यवस्थेयं, सौधर्मेन्द्रासुरेन्द्रयोः ॥ ७० ॥ हन्त तेऽन्ये येऽसुरेन्द्रा, एनमित्थं शिरः स्थितम् । सेहिरे न सहेऽहं तु, पातयिष्याम्यधः क्षणात् ॥ ७१ ॥ निश्चित्येति पुनश्चित्ते, व्यमृशत् सोऽपि वज्रभृत् । यद्यनेनाभिहन्येऽहं शरणं मम कस्तदा ॥ ७२ ॥ विचिन्त्येत्यवधिज्ञानोपयोगाच्चमराधिपः सुसुमारपुरोद्यानेऽपश्यत् वीरजिनेश्वरम् ॥ ७३ ॥ दध्यौ चायं जिनो वीरः, प्रतिमामेकरात्रिकीम् । प्रतिपद्याष्टमतपा, एकपुद्गलदत्तदृक् ॥ ७४ ॥ निर्निमेषो निष्प्रकम्पः, कायोत्सर्गेऽस्त्यवस्थितः । एकादशाब्दपर्याये, शरण्योऽस्तु स एव मे ।। ७५ ।। इति ध्यात्वावश्यकार्यं त्यक्त्वार्हदर्चनादिकम् । उत्थायोत्पादशय्यायास्तद्देवदूष्यसंवृतः ॥ ७६ ॥ उपादाय प्रहरणरत्नं परिधमुद्धतः । तिगिञ्छिकूटमुत्पातगिरिमागत्य सत्वरम् ।। ७७ ।। नव्यं वपुर्विधायैत्य, सुसुमारपुरात् बहिः । अशोककाननेऽशोकतरोर्मूले शिलोपरि ॥ ७८ ॥