________________
183
योजनानि तिर्यगस्मात्तिगिञ्छिकूटपर्वतात् । अतिक्रम्य दक्षिणस्यां, मध्येऽरुणवरोदधेः ॥ २८ ॥ यो देशस्तदधोभागे, मध्ये रत्नप्रभाक्षितेः । चत्वारिंशद्योजनानां, सहस्राण्यवगाह्य च ॥ २९ ॥ राजधान्यस्ति चमरचञ्चा चञ्चन्मणिमयी । व्यासायामपरिक्षेपैर्जम्बूद्धीपसर्मिणी ॥ ३० ॥ वप्रश्वास्या योजनानामध्यर्धं शतमुन्नतः । पञ्चाशद्धिस्तृतो मूले, मौलौ द्वादश सार्द्धकाः ॥ ३१ ॥ आयतैोजनस्यार्धं, न्यूनार्धयोजनोच्छ्रितैः । क्रोशं विस्तीर्णैश्च रम्यो, रत्नजैः कपिशीर्षकैः ॥ ३२ ॥ एकैकस्यां स बाहायां, पञ्चद्धारशताञ्चितः । सार्धे द्वे योजनशते, द्वारं चेकैकमुच्छ्रितम् ॥ ३३ ॥ सपादशतविस्तीर्णतोरणाद्युपशोभितम् । मध्येऽथ वप्रस्यैतस्य, पीठबन्धो विराजते ॥ ३४ ॥ योजनानां षोडशेष, सहस्रान्विस्तृतायत: । पद्मवरवेदिकया, परीत: काननेन च ॥३५ ।। तस्य मध्ये रम्यभूमावस्ति प्रासादशेखरः । सार्धे द्वे योजनशते, तुङ्गस्तदर्द्धविस्तृतः ॥ ३६॥ चतुर्भिरेष प्रासादैश्चतुर्दिशमलङ्कृतः । शतं सपादमुत्तुङ्गः, सार्धद्विषष्टिविस्तृतैः ॥ ३७ ॥ प्रत्येकमेतेऽपि चतुर्दिशं चतुर्भिराश्रिताः । सार्धं द्विषष्टिमुत्तुङ्गैस्तदर्धविस्तृतैस्तथा ॥ ३८ ॥ सपादैकत्रिंशुदुच्चैस्तदर्धविस्तृतैर्वृताः । प्रासादास्तेऽपि प्रत्येकं, पुनस्तेऽपि चतुर्दिशम् ॥ ३९ ॥ ससार्द्धद्विक्रोशपञ्चदशयोजनतुङ्गकैः । तदर्धविस्तृतैरेवं चतुर्दिशामलङ्कृताः ॥ ४० ॥ एवं समूलप्रासादाः, प्रासादा: सर्वसंख्यया । चमरस्य भवन्त्येकचत्वारिंशं शतत्रयम् ॥ ४१ ॥ प्रासादास्ते रत्नमया, मरूच्चञ्चलकेतवः । मृदुस्पर्शाश्चारुगन्धा दृश्या: सुवर्णवालुका: ॥ ४२ ॥ अथ प्रासादेभ्य एभ्य, ऐशान्यां स्युर्यथाक्रमम् । सभा सुधर्मा सिद्धायतनं सभोपपातकृत् ॥ ४३ ॥ हृदोऽभिषेकालङ्काकारव्यवसायसभाः क्रमात् । सर्वेऽप्यमी सुधर्माद्या, षट्त्रिंशद्योजनोच्छ्रिताः ॥ ४४ ॥ दीर्घा पञ्चाशतं पञ्चविंशतिविस्तृता इह । वैमानिकसभादिभ्यो, मानतोऽर्धमिता इति ॥ ४५ ॥
इत्यर्थतो भगवती द्वितीयशतकाष्टमोद्देशके ॥ अत्रायं विशेषः ॥ “चमरस्स णं सभा सुहम्मा ___ एकावन्नखंभसयसन्निविट्ठापं । एवं बलीयस्सवि" । इति तुर्याङ्गे ॥ अर्थतस्यामुपपातसभायां सुकृती जनः । देवदूष्यच्छन्नशय्योत्सङ्ग उत्पद्यते क्षणात् ॥ ४६॥ चमरेन्द्रतयाथासावुत्थाय शयनीयतः । गत्वा हृदे कृतस्नानस्ततोऽभिषेकपर्षदि ॥ ४७ ॥ कृताभिषेक: सोत्साहैरसुरैः समहोत्सवम् । अलङ्कारसभायां च, गत्वालङ्कृतभूधन: ॥ ४८ ॥ व्यवसायसभां गत्वा, पुस्तकावसितस्थितिः । स्नात्वा नन्दापुष्करिण्यां, भक्त्या कृतजिनार्चनः ॥ ४९ ॥ समागत्य सुधर्मायां, सभायां सपरिच्छदः । दिव्यान् सिंहासनासीनो, भोगान् भुङ्क्ते यथारुचि ॥ ५० ॥ कामकेलिलालसस्तु, जिनस्याशातनाभयात् । गत्वा बहिः सुधर्माया, रमते रुचितास्पदे ॥५१॥ कदाचिच्चैष चमरचञ्चावासे मनोरमे । सकान्तः क्रीडितुं याति, क्रीडोद्याने नृपादिवत् ॥ ५२ ॥