________________
182
महामंडपा' इति लघुसंग्रहणीवृत्तौ तत्त्वार्थभाष्येऽपि, “ तत्र भवनानि रत्नप्रभायां बाहल्यार्धमवगाह्य मध्ये भवन्ति इत्युक्तम्” । इति ज्ञेयम् ॥ [ सर्ग. ४ सूत्र. ११]
चतुस्त्रिंशत्क्रमात्रिंशल्लक्षा: स्युर्दक्षिणोत्तराः । भवना असुराणां ते, चतुःषष्टिश्च मीलिता ॥ ४ ॥ लक्षाश्चतुश्चत्वारिंशच्चत्वारिंशद्वयोर्दिशोः । नागालयानां चतुरशीतिर्लक्षाश्च मीलिताः ॥ ५ ॥ अष्टात्रिंशच्चतुस्त्रिशल्लक्षाः क्रमात् द्वयोर्दिशोः । सर्वाग्रेण सुपर्णानां गृहलक्षा द्विसप्ततिः ॥ ६ ॥ चत्वारिंशच्च षट्त्रिंशद्दक्षिणोत्तरयोः क्रमात् । वैद्युतावासलक्षाः स्युः, षट्सप्ततिश्च मीलिताः ॥ ७ ॥ एवमग्निकुमाराणां द्वीपवार्धिदिशां तथा । विद्युत्कुमारवत् संख्या, भवनानां प्रकीर्त्तिता ॥ ८ ॥ पञ्चाशदथ षट्चत्वारिंशद्दिशोर्द्वयोः क्रमात् । लक्षा वायुसुरावासाः सर्वे षण्णवतिश्च ते ॥ ९ ॥ चत्वारिंशत्तथा षट्त्रिंशदुक्ता दिग्दये क्रमात् । स्तनितानां गृहाः सर्वे, लक्षाः षट्सप्ततिः किल ॥ १० ॥ चतस्रः कोटयो, लक्षाः, षट् गृहा दक्षिणाश्रिताः । उत्तराहास्तु षट्षष्टिः, लक्षास्तिस्रश्च कोटयः ॥ ११ ॥ द्वयोर्दिशोश्च सर्वाग्रं, भवनानामुदाहृतम् । कोटयः सप्त लक्षाणां द्वासप्तत्या समन्विताः ॥ १२ ॥ आकारेण सुषमया, प्राकारपरिखादिभिः । व्यन्तराणां नगरवत्, प्रायो ज्ञेयान्यमून्यपि ॥ १३ ॥ गुरूणि तान्यसंख्येयैर्मितानि खलु योजनैः । मध्यानि संख्येयैर्जम्बूद्धीपाभानि लघून्यपि ॥ १४ ॥ तत्रासुरनिकायस्य, दक्षिणस्यां दिशि प्रभुः । चमरेन्द्रः शरच्चन्द्रचन्द्रिकाविलसद्यशाः ॥ १५ ॥ तथाहि - विद्यते दक्षिणदिशि, तिर्यग्मेरोः सुदर्शनात् । असंख्यद्वीपाब्धिपरो, द्वीपोऽरुणवराभिधः ॥ १६ ॥ तस्य बाह्यवेदिकान्तात्, मध्येऽरुणवराम्बुधेः । योजनानां द्विचत्वारिंशत्सहस्राण्यतीत्य वै ।। १७ ।। चमरस्यासुरेन्द्रस्य महानुत्पातपर्वतः । तिगिञ्छिकूटनामास्ति, प्रशस्त श्रीभरोद्धुरः ॥ १८ ॥ योजनानां सप्तदश, शतान्यथैकविंशतिः । उच्छ्रितस्तस्य तुर्यौशो, निमग्नो वसुधान्तरे ॥ १९॥ मूले सहस्रं द्वाविंशं योजनानां स विस्तृतः । मध्ये शतानि चत्वारि, चतुर्विंशानि विस्तृतः ॥ २० ॥ शतानि सप्त विस्तीर्णस्त्रयोविंशानि चोपरि । ऊर्ध्वाधो विस्तृतो मध्ये, क्षामो महामुकुन्दवत् ॥ २१ ॥ मुकुन्दो वाद्यविशेष इति ॥
सर्वरत्नमयस्यास्य, वेदिकावनशालिनः शिरस्तले मध्यदेशे, स्यात्प्रासादावतंसकः ॥ २२ ॥ सार्द्धे द्वे योजनशते, तुङ्गः सपञ्चविंशतिः । ततः शतं योजनानि, रम्योल्लोकमहीतलः ॥ २३ ॥ अष्टयोजनमानाथ, तत्रास्ति मणिपीठिका । चमरेन्द्रस्यात्र सिंहासनं सहपरिच्छदम् ॥ २४ ॥ तिर्यग्लोकं जिगमिषुर्जिनजन्मोत्सवादिषु । प्रथमं चमरेन्द्रोऽस्मिन्नुपैति स्वाश्रयात् गिरौ ॥ २५ ॥ ततो यथेप्सितं स्थानमुत्पतत्यविलम्बतः । तेनायं चमरेन्द्रस्य ख्यात उत्पातपर्वतः ।। २६ ।। षट् शतान्यथ कोटीनां, पञ्चपञ्चाशदेव च । कोट्यो लक्षाण्यथ पञ्चत्रिंशल्लक्षार्धमेव च ॥ २७ ॥