________________
181
एषां लेश्याश्चतस्रः स्युः, पद्मां शुक्लां विना पराः । उच्छ्वसन्ति सप्तभिस्ते, स्तोकैर्जघन्यजीविनः ॥ २५९ ॥ बुभुक्षवश्चैकदिनान्तरेऽथोत्कृष्टजीविनः । समुच्छ्वसन्त्याहरन्ति, मुहूर्ताहःपृथक्त्वकैः ॥ २६० ॥ आहारे चित्तसंकल्पोपस्थिता: सारपुद्गलाः । सर्वाङ्गेषु परिणमन्त्येषां कावलिकस्तु न ॥ २६१ ॥ ये तु हिंसाः सुरा वीरचण्डिकाकालिकादयः । मद्यमांसाद्याहुतिभिस्तुष्यन्ति तर्पिता इव ॥ २६२ ॥ तेऽपि पूर्वभवाभ्यासात्, पापा मिथ्यात्वमोहिताः । मद्यमांसादि वीक्ष्यैव, तुष्यन्ति न तु भुजते ॥ २६३ ॥ संमूच्छिमा गर्भजाश्च, तिर्यञ्चो गर्भजा नराः । उत्पद्यन्ते षड्भिरपि, युताः संहननैरिह ॥ २६४ ॥ च्युत्वोत्पद्यन्त एते नृतिरश्चोर्गर्भजन्मनोः । पर्याप्तबादरक्ष्माम्भःप्रत्येकभूरुहेषु च ॥ २६५ ॥ एकेन समयेनैकादयोऽसंख्यावसानका: । उत्पद्यन्ते च्यवन्तेऽमी, उत्कृष्टमेषु चान्तरम् ॥ २६६ ॥ ज्ञेयं मुहूर्तानि चतुर्विंशतिस्तज्जघन्यतः । एकसामयिकं नूनं, च्यवनोत्पत्तिगोचरम् ॥ २६७ ॥ पश्यन्त्यवधिना पञ्चविंशतियोजनान्यमी । जघन्यजीविनोऽन्ये च, संख्येययोजनावधिः ॥ २६८ ॥ तिर्यग्लोकवासिनोऽपि, व्यन्तरा यदिहोदिताः । तदै रत्नप्रभापृथ्वीवक्तव्यताप्रसंगतः ॥ २६९ ॥
इति व्यन्तराणां सुराणां पुराणाम् पुराणोपदिष्टा व्यवस्था न्यरूपि ।
तृतीयाच्चतुर्थादुपाङ्गाच्च शेषं विशेष विदन्तु प्रबुद्धाः समेधाः ॥ २७० ॥ विश्वाश्चर्यदकीर्तिकीर्तिविजयश्रीवाचकेन्द्रान्तिष-द्राजश्रीतनयोऽतनिष्ट विनयः श्रीतेजपालात्मजः । काव्यं यत्किल तत्र निश्चितजगत्तत्वप्रदीपोपमे सो निर्गलितार्थसार्थसुभग: पूर्णः सुखं द्वादशः ॥ २७१ ॥
इति श्री लोकप्रकाशे द्वादशः सर्ग: समाप्त: ।
अथ त्रयोदशः सर्गः
योजनानां सहस्रं च, मुक्त्वैकैकमुपर्यधः । मध्येऽष्टसप्ततिसहस्राढ्ये लक्षे क्षिताविह ॥ १ ॥ वसन्ति भवनाधीशनिकाया असुरादयः । दशैतेऽपि द्विधा प्राग्वद्दक्षिणोत्तरभेदतः ॥ २ ॥ तेषु प्रत्येकमिन्द्रौ दौ, भवतो दक्षिणोत्तरौ । भवनेन्द्रा विंशतिः स्युरित्येवं चमरादयः ॥३॥ तथोक्तम् - [बृहत्संग्रहणी गाथा-१९] "असुरा नागसुवण्णा, विज्जु अग्गी य दीव उदही य । दिसिपवणथणिय दसविह, भवणवइ तेसु दु दु इंदा” ।
अन्ये त्वाहुः । 'नवतियोजनसहस्त्राणामधस्तात् भवनानि' ॥ अन्यत्र चोपरितनमधस्तनं च योजनसहस्त्रमुक्त्वा सर्वत्रापि यथासंभवमावासा' इति ॥ 'आवासा नाम कायमानसन्निभा