________________
180
व्यन्तराणां व्यन्तरीणां, स्वस्वनिकायजन्मनाम् । स्वस्वदिग्वर्त्तिनां स्वैरं, साम्राज्यमुपभुञ्जते ॥ २४४ ॥ दिव्यस्त्रीसंप्रयुक्तेषु, नाट्येषु व्यापृतेन्द्रियाः । न जानते गतमपि, कालं पल्योपमायुषः ॥ २४५ ॥ तथोक्तम्, “तहिं देवा वंतरिया, वरतरुणीगीयवाइयरवेणम् । निच्चं सुहिया पमुइया, गयंपि कालं न याणंति” ॥
[बृहत्संग्रहणी गा. ३३] व्यन्तराणामभी अष्टौ, मूलभेदाः प्रकीर्तिताः । अष्टावान्तरभेदाः स्युर्ऋणपर्णीमुखाः परे ॥ २४६ ॥ तथाहि, अणपन्नी पणपन्नी, इसिवाई भूयवाईए चेव । कंदी च महाकंदी, कोहंडे चेव पयए ॥
[बृहत्संग्रह गा. ४०] प्राग्वत् प्रतिनिकायेऽत्र, द्वौ द्वाविन्द्रावुदीरितौ । क्षेत्रयोः रूचकाद्याम्यौत्तराहयोरधीश्वरौ ॥ २४७ ॥ इन्दौ सन्निहित: सामानिकश्चाद्यनिकाययोः । धाता विधातेत्यधिपौ, निकाये च द्वितीयके ॥ २४८ ॥ तार्तीयिकनिकायेन्द्रौ, ऋषिश्च ऋषिपालितः । चतुर्थस्य निकायस्य, तावीश्वरमहेश्वरौ ॥ २४९ ॥ सुवत्सश्च विशालश्च, निकाये पञ्चमेऽधिपौ । षष्टे निकाये नेतारौ, हास्यहास्यरती इति ॥ २५० ॥ श्रेयोमहाश्रेयांसौ च, निकाये सप्तमेऽधिपौ । पदग: पदगपतिर्निकायस्याष्टमस्य तौ ॥ २५१ ॥ तथाहुः स्थानाङ्गे – 'दो अणपन्निंदा पन्नत्ता' इत्यादि ॥ एतेऽपि रत्नकाण्डस्य, शतं शतमुपर्यधः ॥ परित्यज्य वसन्त्यष्टशतयोजनमध्यत: ॥ २५२ ॥ तथाहुः प्रज्ञापनायाम् -
“कहिणं भंते ! वाणमंतराणं देवाणं भोमेज्जा नगरा पण्णत्ता ? कहिणं भंते ! वाणमंतरा देवा परिवसन्ति ? गोयमा ! से रयणप्पभाए पुढवीए रयणामयस्स कंडस्स जोअणसहस्स बाहलस्स उवरिं एगं जोअणसयं ओगाहेत्ता हेट्ठावि एगं जोअणसयं वज्जेता मज्झे अठ्ठसु जोअणसएसु एत्थणं वाणमंतराणं तिरियमसंखेज्जा भोमेज्जा नगरावाससयसहस्सा भवंतीति मक्खाया, तेणं” इत्यादि । “तत्थणं बहवे वाणमंतरा देवा परिवसन्ति, तं जहा – पिसाया भूया
जक्खा यावत् अणपन्निय पणपन्निय इत्यादि” ॥ संग्रहण्यां तु-"इय पढमजोअणसए रयणाए अट्ठवंतरा अवरे । तेसिं इह सोलसिंदा रुअगहो दाहिणुत्तरओ” ॥
[गा. ४१] ___ योगशास्त्रचतुर्थप्रकाशवृत्तौ त्वेवम् – “रत्नप्रभायामेव प्रथमस्य शतस्याध उपरि च दशदश
योजनानि मुक्त्वा मध्येऽशीतियोजनेषु अणपन्नियपणपन्नियप्रभृतय” इति ॥ एषां वक्तव्यता सर्वा, विज्ञेया प्राक्तनेन्द्रवत् । जाता द्वात्रिंशदित्येवं, व्यन्तरामरनायकाः ॥२५३ ॥ भौमेयनगरेष्वेषु, व्यन्तराः प्रायशः खलु । उत्पद्यन्ते प्राच्यभवानुष्ठिताज्ञानकष्टतः ॥ २५४ ॥ मृताः पाशविषाहारजलाग्निक्षुत्तृडादिभिः । भृगुपातादिभिश्च स्युर्व्यन्तराः शुभभावतः ॥२५५ ॥ स्थितिरूत्कर्षतोऽमीषां, पल्यमर्धं च योषिताम् । सहस्राणि दशाब्दानामुभयेषां जघन्यतः ॥ २५६ ॥ स्वाभाविकं ,सप्तहस्तमानमुत्कर्षतो वपुः । अङ्गलासंख्यांशमानं, जघन्यं प्रथमक्षणे ॥ २५७ ॥ लक्षयोजनमानं चोत्कृष्टमुत्तरवैक्रियम् । प्रक्रमेऽङ्गलसंख्येयभागमानं जघन्यतः ॥ २५८ ॥