SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ 178 परिष्कृतानि कुसुमैः पञ्चवर्णैः, सुगन्धिभिः । काकतुण्डतुरुष्कादिधूपसौरभ्यवन्ति च ॥ १९७ ॥ जम्बूद्धीपोपमानानि, विष्कम्भायाममानतः । उत्कृष्टानि विदेहानुकारीणि मध्यमान्यपि ॥ १९८ ॥ अपि यान्यल्पमानानि, निरूपितानि तान्यपि । भरतक्षेत्रसदृशान्येतेषु च वसन्त्यमी ॥ १९९ ॥ अष्टधा व्यन्तरा देवा, महासमृद्धिशालिनः । पिशाचा भूतयक्षाख्या, राक्षसाः किन्नरा अपि ॥ २०० ॥ किंपुरुषा महोरगा, गन्धर्वाश्च तथा परे । सर्वेऽप्येते दाक्षिणात्योदिच्यभेदात् स्मृता द्विधा ॥ २०१ ॥ सर्वेऽप्येतेऽतिसुभगाः, सुरूपाः सौम्यदर्शनाः । हस्तग्रीवादिषु रत्नमयभूषणभूषिताः ॥ २०२ ॥ गान्धर्वगीतरतयः, कौतुकाक्षिप्तचेतसः । प्रियक्रीडाहास्यलास्या, अनवस्थितचेतसः ॥ २०३ ॥ विकुर्वितस्फारवनमालामुकुटकुण्डलाः । स्वैरोल्लापा: स्वैररूपधारिणः स्वैरचारिणः ॥ २०४ ॥ नानावर्णवस्त्रनानादेशनेपथ्यधारिणः । मुद्गरासिकुन्तशक्तिचापादिव्यग्रपाणयः ॥ २०५ ॥ तत्र यक्षाः पिशाचाश्च, गन्धर्वाश्च महोरगाः । किञ्चित् कृष्णाः किंपुरुषा, राक्षासाश्च सितत्विषः ॥ २०६ ॥ किन्नराः श्यामभासोऽपि, किञ्चिन्नीलत्विषो मता: । भूताः पुनः कालवर्णाः, कज्जलैर्घटिता इव ॥ २०७ ॥ कदम्बः सुलसश्चैव, वट: खट्वाङ्गमेव च । अशोकश्चम्पको नागस्तुम्बरुश्च यथाक्रमम् ॥ २०८ ॥ भवन्ति चिह्नान्यष्टानां, पिशाचादिसुधाभुजाम् । ध्वजेषु तत्र खट्वाङ् विना सर्वेऽपि पादपाः ॥ २०९ ॥ खट्वाङ्गं तूपकरणं, तापसानामुदीरितम् । प्राय: क्रीडाविनोदार्थ, नरलोके चरन्त्यमी ॥ २१० ॥ चैत्यवृक्षास्तथैवैषामष्टानां क्रमतो मता: । कदम्बाद्यास्तथा चोक्तं, तृतीयाङ्गे गणाधिपैः ॥ २११ ॥ एएसिणं अट्ठविहाणं वाणमंतरदेवाणं अठ्ठ चइत्तरुक्खा पण्णत्ता । तं जहा । कलंबो उ पिसायाणं, वडो जक्खाण चेति तं । तुलसी भूयाण भवे, रक्खसाणं च कंडओ ॥ असोओ किन्नराणं च, किंपुरिसाण य चंपओ । णागरुक्नो भुअंगाणं, गंधव्वाण य तेंदुओ ॥ चैत्यवृक्षा मणिपीठिकानामुपरिवर्तिनः सर्वरत्नमया, उपरि छत्रध्वजादिभिरलङ्कृताः सुधर्मादिसभानामग्रतो ये श्रूयन्ते, त एतैति संभाव्यन्ते । ये तुं 'चिंधाई कलंबझए' इत्यादि ते चिह्नभूता एतेभ्योऽन्य एवेति । स्थानाङ्ग ८ सूत्रवृत्त्योः ॥ प्राय: शैलकन्दरादौ, यच्चरन्ति वनान्तरे । ततः पृषोदरादित्वादेते स्युनिमन्तराः ॥ २१२ ॥ भृत्यवच्चक्रवाचाराधनादिकृतस्ततः । व्यन्तरा वाभिधीयन्ते, नरेभ्यो विगतान्तराः ॥ २१३ ॥ एकैकस्मिन्निकायेऽथ, द्वौ द्वाविन्द्राबुदाहृतौ । दक्षिणोत्तरभेदेन, कालाद्यास्ते च षोडश ॥ २१४ ॥ कालश्चैव महाकालः, पिशाचचक्रवर्तिनौ । सुरूपः प्रतिरूपश्च, भूतेन्द्रौ दक्षिणोत्तरौ ॥ २१५ ॥ पूर्णभद्रमाणिभद्रौ, यक्षाणामधिपावुभौ । भीमश्चैव महाभीमो, राक्षसानामधीश्वरौ ॥ २१६ ॥ किन्नरश्च किम्पुरुषः, किन्नराणां महीक्षितौ । इन्द्रौ किम्पुरुषाणां च, सन्महापुरुषौ स्मृतौ ॥ २१७ ॥
SR No.022273
Book TitleLokprakash
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2006
Total Pages738
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy