SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ 177 खरकाण्डे च काण्डानि, षोडशोक्तानि तात्त्विकैः । प्रत्येकमेषां बाहल्यं, योजनानां सहस्रकम् ॥ १७० ॥ तत्रादिमं रत्नकाण्डं, वज्रकाण्डं द्वितीयकम् । वैडूर्यं लोहिताख्यं च, मसारगल्लसंज्ञकम् ॥ १७१ ॥ हंसगर्भं च पुलकं, सौगन्धिकाभिधं परम् । ज्योतीरसमञ्जनं चाञ्जनपुलकसंज्ञकम् ॥ १७२ ॥ रजतं जातरूपं च अङ्गं स्फटिकसंज्ञकम् । रिष्टकाण्डं चेत्यमूनि, यथार्थाख्यान्यनुक्रमात् ॥ १७३ ॥ एतेषु तत्तज्जातियरत्नबाहुल्ययोगतः । रत्नप्रभेति गोत्रेण, पृथ्वीयं परिकीर्त्यते ॥ १७४ ॥ तिर्यग्लोके भवन्त्यस्या, योजनानां शता नव । ऊर्ध्वगा: शेषपिण्डस्तु, स्यादधोलोकसंस्थितः ॥ १७५ ॥ चतुर्भिश्च किलाधारैभूमिरेषा प्रतिष्ठिता । घनोदधिघनवाततनुवातमरुत्पथैः ॥ १७६ ॥ त्रिभिश्च वलयैरेषा, परितः परिवेष्टिता । घनोदधिधनवाततनुवातात्मकैः क्रमात् ॥ १७७ ॥ तत्र प्रतिष्ठिता भूमिराधारेण घनोदधेः । महाकटाहविन्यस्तस्त्यानाज्यघनपिण्डवत् ॥ १७८ ॥ योजनानां सहस्राणि, विंशतिः परिकीर्तितम् । घनोदधेर्मध्यभागे, बाहल्यं क्रमतस्ततः ॥ १७९ ॥ प्रदेशहान्यासौ हियमानोऽत्यन्ततनूभवन् । पृथ्वी वलयाकारेण, स्वयमावृत्य तिष्ठति ॥ १८० ॥ वलयस्यास्य विष्कम्भः, प्रज्ञप्तो योजनानि षट् । उच्चत्वं तु वसुमतीबाहल्यस्यानुसारतः ॥ १८१ ॥ असौ घनोदधिरपि, घनवाते प्रतिष्ठितः । असंख्यानि योजनानि, मध्ये तस्यापि पुष्टता ॥ १८२ ॥ प्रदेशहान्या तनुतां, भजमानो घनोदधेः । आवृत्य वलयं तस्थौ, वलयाकृतिनात्मना ॥ १८३ ॥ अस्यापि वलयस्यैवं, मानमाद्यैरुदीरितम् । चतुष्टयी योजनानां, सार्धाच्चत्वं तु पूर्ववत् ॥ १८४ ॥ घनवातोऽपि सततं, तनुवाते प्रतिष्ठितः । अस्यापि मध्ये बाहल्यमसंख्यजं घनानिलात् ॥ १८५ ॥ ततस्तनूभवन्नेष, घनवातस्य सर्वतः । आवृत्य वलयं तस्थौ, वलयाकृतिनात्मना ॥ १८६ ॥ तनुवातस्य वलये, विष्कम्भः परिकीर्तितः । एकं योजनमध्यर्द्धमुच्चत्वं पुनरुक्तवत् ॥ १८७ ॥ तनुवातोऽप्यसौ तस्थावाधारेण विहायसः । तच्च प्रतिष्ठितं स्वस्मिन्नसंख्ययोजनोन्मितम् ॥ १८८ ॥ सप्तस्वपि महीष्वेवं, घनोदध्यादयो मता: । वलयानां तु विष्कम्भो, यथास्थानं प्रवक्ष्यते ॥ १८९ ॥ भाति भूः स्वसमश्रेणिस्थायिभिर्वलयस्त्रिभिः । पूर्णेन्दुवत्परिधिभिः, सुधाकुण्डमिवोरगैः ॥ १९० ॥ भवत्येवमलोकश्च, धर्मापर्यन्तभागतः । योजनैर्दशभिर्द्धाभ्यामतिरिक्तैः समन्ततः ॥ १९१ ।। अर्थतस्यां रनकाण्डस्याधस्तनं तथोर्ध्वगम् । विमुच्य शतमेकैकं, मध्येऽष्टशतयोजने ॥ १९२ ॥ असंख्येयानि भौमेयनगराण्यासते सदा । बहिविभागे वृत्तानि, चतुरस्राणि चान्तरे ॥ १९३ ॥ अधोभागेऽनुकुर्वन्ति, चारुपुष्करकर्णिकाम् । गम्भीरखातपरिखाप्राकारालङ्कतानि च ॥ १९४ ॥ शतज्यादिमहायन्त्रजटिलानि समन्तत: । दुःप्रवेश्यान्ययोध्यानि, गुप्तानि श्रीभृतानि च ॥ १९५ ॥ उल्लासिपूर्णकलशतोरणद्धारवन्ति च । अनारतं रक्षितानि, दण्डिभिः किंङ्करामरैः ॥ १९६ ॥
SR No.022273
Book TitleLokprakash
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2006
Total Pages738
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy