________________
176
तथाहि, जम्बूद्धीपाभिधे दीपे, परितो मेरुचूलिकाम् । षट् निर्जराः स्थिता: किंच, चतस्रो दिक्कुमारिका: ॥ १४४ ॥ बलिपिण्डान् समादाय, बाह्याभिमुखत: स्थिताः । जम्बूदीपस्य पर्यन्तदेशे दिक्षु चतसृषु ॥ १४५ ॥ क्षिपन्ति बलिपिण्डास्ता:, स्वस्वदिक्षु बहिर्मुखान् । तेषामथैककः कश्चित्, षण्णां मध्यात् सुधाभुजाम् ॥ १४६ ॥ पृथ्वीपीठमसंप्राप्तान्, सर्वानप्याददीत तान् । जम्बूद्धीपस्य परितो, भ्राम्यन् गत्या यया द्रुतम् ॥ १४७ ॥ तया गत्याथ ते देवा, लोकान्तस्य दिदृक्षया । आशासु षट्सु युगपत्, प्रस्थिताः पथिका इव ॥ १४८ ॥ इतश्च तस्मिन् समये, कस्यचिद्व्यवहारिणः । पुत्रो वर्षसहस्रायुर्जातोऽसौ वर्धते क्रमात् ॥ १४९ ॥ क्रमादथास्य पितरौ, विपन्नावायुषः क्षयात् । वायुः समापयामास, तत एषोऽप्यनुक्रमात् ॥ १५० ॥ कालेन कियता चास्यास्थिमज्जा: क्षयं गताः । लोकान्तं न च ते देवाः, प्रापुः श्रान्ता इवाश्रयम् ॥ १५१ ॥ अस्य वंशः सप्तमोऽपि, क्रमेणैवं क्षयं गतः । कालेन तस्य नामादि, समस्तमस्तमीयिवत् ॥ १५२ ॥ अथास्मिन् समये कश्चित्, सर्वज्ञं यदि पृच्छति । क्षेत्रं तेषां किमगतं, गतं वा बहुलं प्रभो ॥ १५३ ॥ तदादिशेज्जिनस्तेषां, गतं बह्वगतं मितम् । गतादन्यदसङ्ख्यांश, संख्यजमगताच्च तत् ॥ १५४ ॥ संवर्तितचतुरस्त्रीकृतस्य लोकस्य मानमेतदिति । सम्भवति यथावस्थितलोके तु तस्य वैषम्यात् ॥ १५५ ॥ इति भगवतीशतक ११ उद्देशे १० ॥ वसन्ति तत्राधोलोके, भवनाधिपनारका: । तिर्यक् च व्यन्तरनराब्धिद्धीपज्योतिषादयः ॥ १५६ ॥ वैमानिका: सुरा: सिद्धा, ऊर्ध्वलोके वसन्ति च । इति सामान्यतो लोकस्वरुपमिह वर्णितम् ॥ १५७ ॥ अथ त्रयाणां लोकानां, प्रत्येकं तन्निरुप्यते । तत्रादौ कथ्यते किञ्चिदधोलोको विशेषतः ॥ १५८ ॥ पृथिव्यस्तत्र निर्दिष्टा, सप्त सप्तभयापहैः । गोत्रतो नामतश्चैवं, गोत्रभित्प्रणतक्रमैः ॥ १५९ ॥ आद्या रत्नप्रभा पृथ्वी, द्वितीया शर्कराप्रभा । ततः परा च पृथिवी, तृतीया बालुकाप्रभा ॥ १६० ॥ पङ्कप्रभा चतुर्थी स्यात्, धूमप्रभा च पञ्चमी । षष्ठी तम:प्रभा सप्तमी स्यात्तमस्तम:प्रभा ॥ १६१ ॥ अन्वर्थजानि सप्तानां, गोत्राण्याहुरमूनि वै । रत्नादीनां प्रभायोगात्प्रथितानि तथा तथा ॥ १६२ ॥ धर्मा वंशा तथा शैलांजना रिष्टा मघा तथा । माघवतीति नामानि, निरन्वर्थान्यमूनि यत् ॥ १६३ ॥ अधो महत्तमं छत्रं, तस्योपरि ततो लघु । छत्राणामिति सप्तानां, स्थापितानां समा इमा: ॥ १६४ ॥ स्यातामायामविष्कम्भौ, सप्तम्याः सप्त रज्जव: । षष्ट्या: षट् पञ्च पञ्चम्यास्ताश्चतस्त्रोञ्जनाभुवः ॥ १६५ ॥ रज्जुत्रयं तृतीयाया, द्वितीयायास्तु तद् द्वयम् । स्यातामायामविष्कम्भौ, रज्जुरेकादिमक्षितेः ॥ १६६ ॥ रत्नप्रभाया बाहल्यं, योजनानां प्रकीर्तितम् । एकं लक्षं सहस्राणामशीत्या साधिकं किल ॥ १६७ ॥ तच्चैवम् । सहस्राणि षोडशाचं, खरकाण्डं द्वितीयकम् । सहस्रा: पडूबहुलं, चतुरशीतिरीरितम् ॥ १६८ ॥ तृतीयं जलबहुलं, स्यादशीतिसहस्रकम् । ततोऽशीतिसहस्राढ्यं, लक्षं पिण्डोऽग्रिमक्षितेः ॥ १६९ ॥