________________
175
गृहीत्वोत्तरदिग्भागे, वसनाड्याः प्रकल्प्यते । विरचय्याधस्तनांशमुपर्युपरिगं त्वधः ॥ ११८ ॥ ततोऽधस्तनलोका), किञ्चिदूनचतुष्टयम् । रज्जूनामाततं सातिरेकं सप्तकमुच्छ्रितम् ॥ ११९ ॥ क्वचित्किञ्चिदूनसप्तरज्जुबाहल्यमप्यधः । अपरत्र त्वनियतं, बाहल्यमिदमास्थितम् ॥ १२० ॥ किंच-ऊर्ध्वलोके त्रसनाड्या, दक्षिण भागवर्तिनी । दे खण्डे ये कटीन्यस्तहस्तकूर्परसंस्थिते ॥ १२१ ॥ ब्रह्मलोकमध्यदेशादधस्तनं तथोर्ध्वगम् । ते प्रत्येकं ब्रह्मलोके, मध्ये द्विरज्जुविस्तृते ॥ १२२ ॥ किञ्चिदूनार्धार्धरज्जुत्रयोच्छ्रिते च ते उभे । त्रसनाड्या वामपाचे, वैपरीत्येन कल्पयेत् ॥ १२३ ॥ ततश्च रज्ज्वाततया, त्रसनाड्या समन्वितम् । यादृक्षमूर्ध्वलोकार्ध, जातं तदभिधीयते ॥ १२४ ॥ अङ्गुलसहस्रांशाभ्यां, दाभ्यां रज्जुत्रयं युतम् । विष्कम्भतः किञ्चिदूना, रज्जव: सप्त चोच्छ्रयात् ॥ १२५ ॥ बाहल्यतो ब्रह्मलोकमध्ये तत् पञ्चरज्जुकम् । अन्यस्थले त्वनियतबाहल्यमिदमास्थितम् ॥ १२६ ॥ तदेतदुपरितनं, गृहीत्वार्धं निवेशयेत् । अधस्तनं संवर्तितलोकार्धस्योत्तरान्तिके ॥ १२७ ॥ एवं संयोजने चाधोलोकखण्डोच्छ्रयेऽस्ति यत् । अतिरिक्तमुपरितनात्वण्डित्वाभिगृह्य च ॥ १२८ ॥ अर्ध्वलोकार्धबाहल्यपूत्यै चोर्ध्वायतं न्यसेत् । एवमस्य सातिरेका, बाहल्यं पञ्च रज्जव: ॥ १२९ ॥ तथास्त्यधोलोकखण्डं, देशोनसप्तरज्जुकम् । बाहल्येनोपरितनं, त्वधिकपञ्चरज्जुकम् ॥ १३० ॥ ततश्चाधस्तने खण्डे, न्यून रज्जुद्धयं किल । अतिरिक्तमतोऽस्याधे, द्वितीयस्मिन्निवेशयेत् ॥ १३१ ॥ सर्वस्यास्य चतुरस्रीकृतस्य भवति क्वचित् । रज्ज्वसंख्येयभागाढ्या, बाहल्यं रज्जवो हि षट् ॥ १३२ ॥ तथापि व्यवहारेण, बाहल्यं सप्त रज्जव: । मन्यते व्यवहारो हि, वस्तुन्यूनेऽपि पूर्णताम् ॥ १३३ ॥ विष्कम्भायामतोऽप्येवं, देशोना: सप्त रज्जव: । व्यवहारेण विज्ञेया:, संपूर्णाः सप्त रज्जवः ॥ १३४ ॥ एवमेष सप्तरज्जुमानो लोको घनीकृत: । यत्र क्वाप्यागमेऽभ्रांशश्रेणिरुक्तास्य सा ध्रुवम् ॥ १३५ ॥ अस्मिन् घनीकृते लोके प्रज्ञप्ता घनरज्जव: । त्रिचत्वारिंशताढ्यानि, शतानि त्रीणि तात्त्विकैः ॥ १३६ ॥ तच्चैवम् । आयामरज्जव: सप्त, सप्तभिर्व्यासज्जुभिः । हता एकोनपञ्चाशत्, भवन्ति घनरज्जव: ॥ १३७ ॥ सप्तभिर्गुणिता एता, बाहल्यसप्तरज्जुभिः । यथोक्तमाना: पूर्वोक्ता, भवन्ति धनरज्जव: ॥ १३८ ॥ चतुर्गुणत्वे चासां स्युः, सर्वाः प्रतररज्जव: । अधिकानि द्विसप्तत्या, शतान्येव त्रयोदश ॥ १३९ ॥ आसामपि चतुर्जत्वे, भवन्ति सूचिरज्जव: । चतुःपञ्चाशच्छतानि, ह्यष्टाशीत्यधिकानि च ॥ १४० ॥ चतुर्भिगुणने त्वासां, खण्डुकान्येकविंशतिः । सहस्राणि नवशती, द्विपञ्चाशत्समन्विता ॥ १४१ ॥ इति घनीकृतलोकमानम् ॥ असंख्याभिर्योजनानां, कोटाकोटीभिरून्मितः । नायं लोको गणनया, वक्तुं केनापि शक्यते ॥ १४२ ॥ ततो दृष्टान्ततः स्पष्टं, निर्दिष्टो ज्ञानदृष्टिभिः । सं चायमुदितः पञ्चमाङ्गस्यैकादशे शते ॥ १४३ ॥