SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ 174 शकटोद्धास्थिताः प्रज्ञापकोपान्तेऽतिसङ्कटाः । विस्तीर्णा बहिरुर्वाधोयुक्ताश्चाष्टादश स्मृताः ॥ ९६ ॥ अथ प्रकृतम् । पृथिव्योस्तुर्यपञ्चम्योर्मध्ये यद्रियदन्तरम् । तदर्धेऽधस्तने न्यूनेऽधोलोकमध्यमीरितम् ॥ ९७ ॥ अधस्तात् ब्रह्मलोकस्य, रिष्टाख्यप्रस्तटे स्फुटम् । मध्यं तत्रो लोकस्य, लोकनाथैर्विलोकितम् ॥ ९८ ॥ तथा - पूणेकरज्जुपृथुलात्, क्षुल्लकप्रतरादितः । ऊर्ध्वं गतेऽगुलासंख्यभागे तिर्यग्विवर्द्धते ॥ ९९ ॥ अङ्गुलस्यासंख्यभागः, परमत्रेति भाव्यताम् । ऊर्ध्वगादगुलस्यांशादंशस्तिर्यग्गतो लघुः ॥ १०० ॥ एवमधोऽपि ॥ एवं चोर्ध्वलोकमध्यं, पृथुलं पञ्चरज्जव: । हीयतेऽतस्तथैवोर्ध्वं, रज्जुरेकावशिष्यते ॥ १०१ ॥ किंच, रज्जुमानात् द्वितीयस्मात्, शुल्लकाताराञ्चिति: । अधोमुखी च तिर्यक् चाडगुलासंख्यांशभागिका ॥ १०२ ॥ एवं चाधोलोकमूले, पृथुत्वं सप्तरज्जव: । अथात्र सूचीरज्जवादिमानं किञ्चिन्निगद्यते ॥ १०३ ॥ इदं च संग्रहणीवृत्त्यनुसारेण ॥ लोकनाडीस्तवे तु प्रदेशवृद्धिहानी दृश्येते लोकतिर्यग्वृद्धौ ॥ चतुर्भिः खण्डुकैः सूचीरज्जुः श्रेण्या व्यवस्थितैः । ताभिश्चतुर्भिः प्रतररज्जुः षोडशखण्डुका ॥ १०४ ॥ चतसृभिश्च प्रतररज्जुभिर्जायते किल । घनरज्जुश्चतुःषष्टिः खण्डुकाः सर्वतः समाः ॥ १०५ ॥ अष्टाविंशं शतमध, ऊर्ध्वं षट्सप्ततिर्मता । सर्वाश्चतुभिरधिके, द्वे शते सूचिरज्जव: ॥ १०६ ॥ दन्तैर्मिता अधोलोके, ऊर्ध्वमेकोनविंशतिः । एकपञ्चाशदाख्याताः, सर्वाः प्रतररज्जव: ॥ १०७ ॥ अधोऽष्टावूर्व्वलोके च, निर्दिष्टा घनरज्जव: । पादोना: पञ्च सर्वाग्रे, स्युः पादोनास्त्रयोदश ॥ १०८ ॥ इदं दृष्टलोकमानम् ॥ वर्गितस्य च लोकस्याधोलोके घनरज्जव: । सार्धया पञ्चसप्तत्याधिकमेकं शतं मतम् ॥ १०९॥ ऊर्ध्वलोके भवेत्सार्धा, त्रिषष्टिः सर्वसंख्यया । ध्रुवमेकोनया चत्वारिंशताढ्यं शतद्वयम् ॥ ११० ॥ आसां चतुर्गुणत्वे च, सर्वाः प्रतररज्जव: ॥ शतानि नव षट्पञ्चाशता युक्तानि तत्र च ॥ १११ ॥ शतानि सप्त दयधिकान्यधोलोके प्रकीर्तिताः । ऊर्ध्वलोके द्वे शते च, चतुःपञ्चाशताधिके ॥ ११२ ॥ चतुर्गुणत्वे चैतासां, भवन्ति सूचिरज्जव: । चतुर्विंशत्युपेतानि, त्वष्टात्रिंशच्छतानि वै ॥ ११३ ॥ तत्रापि, अधोलोके शतान्यष्टाविंशतिः स्फुटमष्ट च । उद्धलोके पुनस्तासां, सहस्रं षोडशाधिकम् ॥ ११४ ॥ इति वर्गितलोकमानम् ॥ घनीकृतो भवेल्लोकः, सप्तरज्जुमितोऽभितः । विष्कम्भायामबाहल्यैः, सबुद्ध्यैवं विधीयते ॥ ११५ ॥ एकरज्जुविस्तृतायास्त्रसनाड्यास्तु दक्षिणम् । अधोलोकवतिखण्डमूनरज्जुत्रयाततम् ॥ ११६ ॥ सर्वाधस्तात् हीयमानविस्तारत्वादुपर्यथ । रज्ज्वसंख्येयभागोरुसप्तरज्जूच्छ्रयं च तत् ॥ ११७ ॥
SR No.022273
Book TitleLokprakash
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2006
Total Pages738
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy