SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ 173 तदुक्तं भगवतीवृत्तौ । त्रिभिरादित एव कृतयुग्माद्बोपरिवर्तिभिरोजो विषमराशिविशेषस्त्र्योज इति । द्वाभ्यामादित एव कृतयुग्माद्बोपरिवर्तिभ्यां यदपरं युग्मादन्यन्नामनिपातनविधि परयुग्मम् । कल्येनेकेनादित एव कृतयुग्मादोपरिवर्तिनौज: विषमराशिविशेष: कल्योज इति ॥ कर्मप्रकृतिवृत्तौ त्वेतेषां निरुक्तिरेवं दृश्यते ॥ इह कश्चिद्विवक्षितो राशिः स्थाप्यते । तस्य कलिदापरत्रेताकृतयुगसंज्ञैश्चतुर्भिर्भाग: हियते । भागे च हते सति योकः शेषो भवति तर्हि स राशि: कल्योजः उच्यते यथा त्रयोदश । अथ द्रौ शेषौ तर्हि द्वापरयुग्मः, यथा चतुर्दश । अथ त्रय: शेषास्ततस्त्रेतौजः, यथा पञ्चदश । यदा तु न किञ्चिदवतिष्ठते किन्तु सर्वात्मना निलेप एव भवति तदा स कृतयुगः, यथा षोडशेत्यादि ॥ लोकमाश्रित्य साद्यन्ता, एताः सर्वा अपि स्फुटम् । साद्यनन्ता विनिर्दिष्टा, अलोकापेक्षया पुनः ॥ ७६ ॥ दिशामन्येऽपि भेदाः स्युनर्नामदिक् स्थापनाव्यदिक् । द्रव्यक्षेत्रतापभावप्रज्ञापकाभिधा दिशः ॥ ७७ ॥ यद् द्रव्यस्य सचित्तादेर्दिगित्येवं कृताभिधा । सा नामदिग् विनिर्दिष्टा, शिष्टैर्दृष्टजगत्त्रयैः ॥ ७८ ॥ पट्टादौ चित्रितस्याथ, जम्बूदीपादिकस्य यत् । दिग्विदिक्स्थापनं सोक्ता, स्थापनाशा विशारदैः॥ ७९ ॥ स्यात् द्रव्यदिगागमतो, नोआगमत इत्यपि । दिक्पदार्थबुधस्तत्रानुपयुक्तः किलादिमा ॥८॥ त्रिधा च नोआगमतः, प्रज्ञप्ता द्रव्यतो दिश: । तत्राद्या दिक्पदार्थज्ञशरीरं जीववर्जितम् ॥ ८१ ॥ द्वितीया च दिक्पदार्थ, ज्ञास्यन् बालादिरुच्यते । ज्ञशरीरभव्यदेहव्यतिरिक्ताप्यथोच्यते ॥ ८२ ॥ या प्रवृत्ता समाश्रित्य, द्रव्यं त्रयोदशाणुकम् । तावद्ध्योमांशावगाढं द्रव्यदिक् सा निवेदिता ॥ ८३ ॥ इतो न्यूनाणुजाते तु, दिग्विदिक्परिकल्पनम् । न स्यात् द्रव्ये ततश्चैतज्जघन्यं दिगपेक्षया ॥ ८४ ॥ त्रिबाहुकं नवप्रादेशिकं समभिलिख्य च । कार्यैकैकगृहवृद्धिः, ध्रुवं दिक्षु चतसृषु ॥८५ ॥ क्षेत्राशास्त्वधुनैवोक्तास्तापाशाः पुनराहिताः । सूर्योदयापेक्षयैव, पूर्वाद्या: ता यथाक्रमम् ॥ ८६ ॥ तत्र यत्रोदेति भानुः, सा पूर्वानुक्रमात् पराः । विसंवदन्त एताश्च, क्षेत्रदिग्भिर्यथायथम् ॥ ८७ ॥ तथाहि, रूचकापेक्षया या स्याइक्षिणा क्षेत्रलक्षणा । तापाशापेक्षया सा स्यादस्माकं ध्रुवमुत्तरा ॥ ८८ ॥ अष्टादशविधा भावदिशस्तु जगदीश्वरैः । प्रोक्ता मनुष्यादिभेदभिन्ना इत्थं भवन्ति ताः ॥ ८९ ॥ कर्माकर्मभूमिजान्तीपसंमूर्च्छजा नराः । तथा द्वित्रिचतुःपञ्चेन्द्रियास्तिर्यञ्च आहिताः ॥ ९० ॥ कायाश्चतुर्दा पृथिवीजलतेजोऽनिला इति । स्युर्वनस्पतयो मूलस्कन्धानपर्वसम्भवाः ॥ ९१ ॥ षोडशैता दिशो देवनारकाङ्गिसमन्विताः । भवन्त्यष्टादश भावदिशस्तीर्थकरोदिताः ॥ ९२ ॥ यत्र क्वचिदपि स्थित्वा, प्रज्ञापको दिशां बलात् । निमित्तं वक्ति धर्मं वा, गुरुः प्रज्ञापकाख्यदिक् ॥ ९३ ॥ यस्या दिश: संमुखस्थः, प्रज्ञापकः प्ररुपयेत् । धर्मं निमित्तादिकं वा, सा पूर्वानुक्रमात्पराः ॥ ९४ ॥ एताश्चाष्टादशविधाः, स्युस्तिर्यक् तत्र षोडश । तिस्रस्तिस्रः प्रतिविदिक् दिक्ष्वेकैकेति कल्पनात् ॥ ९५ ॥
SR No.022273
Book TitleLokprakash
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2006
Total Pages738
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy