________________
लोकप्रकाशनामानं, ग्रन्थमेनं विचक्षणाः । आद्रियध्वं जिनप्रोक्तविश्वरूपनिरूपकम् ॥१६॥
__ प्राप्यानुशासनमिदं समुप्रक्रमेऽहमैदंयुगीनविहरदगुरुगौतमस्य ।।
श्रीमत्तपागणपतेर्विजयादिदेवसूरीशितुर्विजयसिंहमुनीशितुश्च ॥ १७ ॥ मानैरङ्गलयोजनरज्जूनां सागरस्य पल्यस्य । संख्याऽसंख्यानन्तैरुपयोगोऽस्तीह यद् भूयान् ॥ १८ ॥ ततः प्रथमतस्तेषां, स्वरूपं किञ्चिदुच्यते । तत्राप्यादावङ्गलानां, मानं वक्ष्ये त्रिधा च तत् ॥ १९ ॥ उत्सेधाख्यं प्रमाणाख्यमात्माख्यं चेति तत्र च । उत्सेधात्क्रमतो वृद्धेर्जातमौत्सेधमङ्गलम् ॥ २० ॥ तथाहि-द्विविध: परमाणुः स्यात्सूक्ष्मश्च व्यावहारिकः । अनन्तैरणुभिः सूक्ष्मैरेकोऽणुर्व्यावहारिकः ॥ २१ ॥ सोऽपि तीव्रण शस्त्रेण, द्विधाकर्तुं न शक्यते । एनं सर्वप्रमाणानामादिमाहुर्मुनीश्वराः ॥ २२ ॥ व्यवहारनयेनैव, परमाणुरयं भवेत् । स्कन्धोऽनन्ताणुको जातसूक्ष्मत्वो निश्चयात्पुनः ॥ २३ ॥ अनन्तव्यवहाराणुनिष्पन्नोत्ल्लक्ष्णश्लक्ष्णिका । निष्पद्यते पुनः श्लक्ष्णश्लक्ष्णिका ताभिरष्टभिः ॥ २४ ॥ अयं भगवत्यायभिप्रायो, जीवसमास सूत्रे च-परमाणू य अणंता सहिया ओसणसहिणया एक्का । साऽणंतगुणा संती ससहिणया सोऽणु, ववहारी ॥१॥ आगमे चेयं पूर्वस्याः सकाशादनेकस्थानेष्वष्टगुणैव निर्णीता, अनेन त्वनन्तगुणा कुतोऽपि लिखितेति केवलिन एव वेत्तार इति तद्वृत्तौ ॥ जीवसमासवृत्तौ ।। ताभिरष्टाभिरेकः स्यादूर्ध्वरेणुर्जिनोदितः । अष्टोवरेणुनिष्पन्नस्त्रसरेणुरुदीरितः ॥२५॥ त्रसरेणुभिरष्टाभिरेकः स्याद्रथरेणुकः । अष्टभिस्तैर्भवेदेकं, केशाग्रं कुरुयुग्मिनाम् ॥२६॥ ततोऽष्टनं हरिवर्षरम्यकक्षेत्रभूस्पृशाम् । ततोऽष्टघ्नं हैमवतहैरण्यवतयुग्मिनाम् ॥ २७ ॥ तस्मादष्टगुणस्थूलं, वालस्याग्रमुदीरितम् । पूर्वापरविदेहेषु, नृणां क्षेत्रानुभावतः ॥ २८ ॥ स्थूलमष्टगुणं चास्माद्भरतैरवताङ्गिनाम् । अष्टभिस्तैश्च वालाग्रैर्लिक्षामानं भवेदिह ॥ २९ ॥
अयं तावत्संग्रहणीबृहद्वृत्ति, प्रवचनसारोद्धारवृत्त्याद्यभिप्राय:, जम्बूदीपप्रज्ञप्तिसूत्रवृत्त्यादिषु
त्वष्टभिः पूर्वापरविदेहनरकेशाग्रैरेव लिक्षामानमुक्तमिति ज्ञेयं । लिक्षाष्टकमिता यूका, भवेयूकाभिरष्टभिः । यवमध्यं ततोऽष्टाभिस्तैः स्यादौत्सेधमङ्गुलम् ॥ ३० ॥ चत्वार्युत्सेधाङ्गुलानां, शतान्यायामतो मतम् । तत्सार्द्धद्ध्यङ्गुलव्यासं, प्रमाणाङ्गुलमिष्यते ॥ ३१ ॥ प्रमाणं भरतश्चक्री, युगादौ वाऽऽदिमो जिन: । तदङ्गलमिदं यत्तत्, प्रमाणाङ्गलमुच्यते ॥ ३२ ॥ यदुत्सेधाङ्गलैः पञ्चधनुःशतसमुच्छ्रितः । आत्माङ्गलेन चाद्योऽर्हन्, विंशाङ्गलशतोन्मितः ॥ ३३ ॥ ततः षण्णवतिजेषु, धनुःशतेषु पञ्चसु । शतेन विंशत्याढयेन, भक्तेष्वाप्ता चतुःशती ॥ ३४ ॥ यच्च क्वाप्युक्तमौत्सेधात्सहस्रगुणमेव तत् । तदेकाङ्गलविष्कम्भदीर्घश्रेणिविवक्षया ॥ ३५ ॥