________________
171 प्रोक्तं वर्गितलोके च, सर्वाग्रं खण्डुकोद्भवम् । सहस्राणि पञ्चदश, द्वे शते नवतिश्च षट् ॥ ३४ ॥ लोकस्य वर्गकरणे, ज्ञेयमेतत् प्रयोजनम् । प्रमाणं सर्वतोऽनेन, लोकस्य भवति ध्रुवम् ॥ ३५ ॥ दशहस्तपृथोर्यदत्तावद्दीर्घस्य वेश्मनः । दशनां वर्गकरणे, सर्वं क्षेत्रफलं भवेत् ॥ ३६ ॥ षट्पञ्चाशत्खण्डुकोच्चयथोक्तपृथुलस्य च । लोकस्यास्य त्रयो भेदा, मध्याधऊर्ध्वभेदतः ॥ ३७ ॥ ऊर्ध्व मध्याधः स्थितत्वाद्व्यपदिश्यन्त इत्यमी । यद्धोत्कृष्टमध्यहीनपरिणामात्तथोदिताः ॥ ३८ ॥
यदुक्तं भगवतीवृत्तौ स्थानाङ्गवृत्तौ च । अहवा अहपरिणामो खेत्तणुभावेण जेण ओसन्नम् । असुहो अहोत्ति भणिओ दव्वाणं तेणहोलोगो ॥१॥ उर्ल्ड उवरिं जं ठिअं सुरनेत्तं खेत्तओ अ दब्बगुणा । उप्पज्जंति सुभावा जेण तओ उढलोगोत्ति ॥२॥ मज्झणुभावं खेत्तं जं तं तिरियं
ति वयणपज्जवओ । भणइ तिरिय विसालं अओ य तं तिरियलोगोत्ति ॥३॥ रत्नप्रभाया उपरि, क्षुल्लकप्रतरद्वये । मेर्वन्त:कन्दो भागे, रुचकोऽष्टप्रदेशकः ॥ ३९ ॥ तत्रोपरिस्थे प्रतरे, खप्रदेशचतुष्टयम् । विद्यते गोस्तनाकारं, तथैवाधस्तनेऽपि तत् ॥ ४० ॥ खप्रदेशाष्टकं तच्चोपर्यधो भावत: स्थितम् । चतुरैश्चतुरस्त्रात्म, प्रोच्यते रुचकाख्यया ॥४१॥ तस्मान्नवशतान्यू मधो नवशतानि च । एतावान् मध्यलोकः स्यादाकृत्या झल्लरीनिभः ॥ ४२ ॥ योजनानां नवशतान्यतीत्य रुचकादितः । आलोकांतमधोलोकस्तप्राकृतिरुदाहृतः ॥४३॥ गत्वा नवशतान्येव, रुचकाद्योजनान्यथ । ऊर्चीकृतमृदङ्गाभ, ऊर्ध्वलोकः प्रकीर्तितः ॥ ४४ ॥ सातिरेकसप्तरज्जुमानोऽधोलोक इष्यते । ऊर्ध्वलोकः किञ्चिदूनसप्तरज्जुमितः स्मृतः ॥ ४५ ॥ घर्माघनोदधिघनतनुवातान् विहायसः । असंख्यभागं चातीत्य, मध्यं लोकस्य कीर्तितम् ॥ ४६॥ अस्मादूर्ध्वमधश्चैव, संपूर्णा सप्तरज्जव: । अथ त्रयाणां लोकानां, प्रत्येकं मध्यमुच्यते ॥४७॥ घर्मायां सर्वतः क्षुल्लमत्रास्ति प्रतरद्वयम् । मण्डकाकारमेकैकं, खप्रदेशात्मकं च तत् ॥४८॥ रुचकेऽत्र प्रदेशानां, यच्चतुष्कद्वयं स्थितम् । तत्समश्रेणिकं तच्च, विज्ञेयं प्रतरद्वयम् ॥४९॥ लोकवृद्धिरूद्धमुखी, तयोरुपरि संस्थितात् । अधः स्थितात्पुनस्तमाल्लोकवृद्धिरधोमुखी ॥ ५० ॥ तस्मिंश्च लोकपुरूषकटीतटपटीयसि । मध्यभागे समभूमिज्ञापको रुचकोऽस्ति यः ॥ ५१ ॥ स एव मध्यलोकस्य, मध्यमुक्तं महात्मभिः । दिग्विदिग्निर्गमश्चास्मान्नाभेरिवशिरोद्गमः ॥ ५२ ॥ तथाहु : अट्ठपएसो रुअगो तिरिअलोगस्स मज्झयारंमि । एस पभावो दिसाणं एसेव भवे अणुदिसाणम् ॥
[आवश्यकनियुक्ति श्लो. ८०९ टीकान्तर्गत श्लो.] पूर्वा पूर्वदक्षिणा च, दक्षिणा दक्षिणापरा । पश्चिमा पश्चिमोदीची, चोत्तरोत्तरपूर्विका ॥ ५३॥ ऊर्ध्या तथाधस्तनी च, दशैवं गदिता दिश: । दिश:षट् तत्र शुद्धाख्या:, चतस्रो विदिशोऽपराः ॥ ५४ ॥ विजयद्धारदिक् प्राची, प्रादक्षिण्यात्ततः परा: । एतासां देवतायोगान्नामान्यूचुः पराण्यपि ॥५५॥