SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ 170 पञ्च रज्जव ग्रैवेयकं यावत् षट् रज्जव लोकान्तं यावत् सप्त रज्जव इत्युक्तम् ज्ञेयं ॥ जीवाभिगमवृत्तावपि बहुसमरमणिज्जाओ भूमिभागाओ उ चंदिमसूरियगहगणणक्खत्ततारारूवाणं बहुइओ जोयणकोडिओ यावत् दूरं उर्ल्ड उप्पइत्ता एत्थणं सोहम्मीसाणेत्यादिसूत्रव्याख्याने । “अत्र बहीोजनकोटीरूज़ दूरमुत्प्लुत्य गत्वा । एतच्च सार्धरज्जूपलक्षणम् इत्युक्तमिति ॥ लोकनालिस्तवेऽपि सोहम्ममि दिवढा अड्डाइज्झा य रज्जु माहिंदे । चत्तारि सहस्सारे पणऽच्चुए सत्त लोगन्ते ॥ इत्युक्तमिति रज्ज्वाश्चतुर्थो भागो यस्तत्खण्डुकमिति स्मृतम् । विष्कम्भायामपिण्डस्तत्समानं घनहस्तवत् ॥ १५ ॥ षट्पञ्चाशत्खण्डुकोच्चा, सच्चतुःखण्डुकायता । त्रसनाडी भवेदत्र, त्रसजीवाश्रयावधिः ॥ १६ ॥ रेखा: पञ्चोर्ध्वगा: सप्तपञ्चाशत्तिर्यगायताः । आलिख्य क्वापि पट्टादौ, भावनीया तदाकृतिः ॥ १७ ॥ सा चतुर्दशरज्जूच्चा, तथैकरज्जुविस्तृता । सर्वलोकस्याथ मानं, वक्ष्ये खण्डुकसंख्यया ॥ १८ ॥ रज्ज्वाः सर्वाधः स्थितायाः, खण्डुकेषु चतुर्खपि । स्युरष्टाविंशतिस्तिर्यक्खण्डुकानीति तद्धिदः ॥ १९ ॥ तत्रोह्यं त्रसनाडीस्थं, खडुकानां चतुष्टयम् । द्वादश द्वादश ततः, परित: पार्श्वयोर्द्धयोः ॥ २० ॥ एवं सर्वत्रापि ॥ षड्विंशतिर्द्धितीयस्या, रज्ज्वाः खण्डचतुष्टये । तृतीयस्याः खण्डुकेषु, चतुर्षु जिनसंख्यया ॥ २१ ॥ ननसंख्यानि तुर्याया, रज्ज्वा तेषु चतुर्धपि । पञ्चम्या: षोडश दश, षष्ठ्याः खण्डचतुष्ट्ये ॥ २२ ॥ सप्तम्या अपि खण्डेषु, चतुर्पु तच्चतुष्टयम् । अष्टम्याः प्राक् खण्डुके ढे, चतुःखण्डुकविस्तृते ॥ २३ ॥ अपरे दे खण्डुके च, षट्खण्डुकसमातते । अष्टखण्डुकविस्तारं, नवम्या आद्यखण्डुकम् ॥ २४ ॥ दशखण्डुकविस्तारं, द्वितीयं दे॒ ततः परे । द्वादशखण्डुकव्यासे, स्युरित्थं नवरज्जवः ॥२५॥ दशम्या: प्राच्यमधू च, षोडशखण्डुकाततम् । परमर्धं तथैतस्या, नवखण्डुकविस्तृतम् ॥ २६ ॥ एकादश्याः पूर्वमर्धमपि तावत्समाततम् । द्वितीयमर्धमस्याश्च षोडशखण्डुकाततम् ॥ २७ ॥ द्वादश्या: प्राक्तनं त्व, प्रोक्तं द्वादशखण्डुकम् । दशखण्डुकविस्तारमन्त्यमर्धमुदीरितम् ॥ २८॥ आयं खण्डं त्रयोदश्या, निर्दिष्टं तावदाततम् । अष्टखण्डुकविस्तीर्णमग्रिमं खण्डुकत्रयम् ॥ २९ ॥ चतुर्दश्या: प्राक्तनेऽढे, खण्डुकानि षडायतिः । चत्वारि खण्डुकान्यस्या, विस्तृति: पश्चिमेऽर्द्धके ॥ ३० ॥ प्रत्येकमेषामङ्कानां, स्वस्ववर्गविधानतः । भवेगितलोकस्य, मितिः खण्डुकसंख्यया ॥ ३१ ॥ भवेत्स तद्गुणो वर्ग, इति वर्गस्य लक्षणम् । यथाष्टाविंशते: सप्तशती चतुरशीतियुक् ॥ ३२ ॥ एवं सर्वत्र स्थापना विलोक्या ॥ खण्डुकानां शतान्यष्टावधिकानि च षोडश । दृष्टलोके दृष्टलोकैरुक्तानि सर्वसंख्यया ॥ ३३ ॥
SR No.022273
Book TitleLokprakash
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2006
Total Pages738
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy