SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ 169 ॥ ॐ ही अहँ नमः॥ ऐं नमः महामहोपाध्याय श्रीमद् विनयविजयगणिवरविरचितः श्री लोकप्रकाशः क्षेत्रलोकः अथ द्वादशः सर्गः जयत्यभिनवः कोऽपि, शर्लेश्वरजिनेश्वरः । त्रिविष्टपोद्योतहेतुर्नरक्षेत्रस्थितोऽपि यः ॥ १॥ स्वरूपं क्षेत्रलोकस्य, यथाश्रुतमथोच्यते । गुरुश्रीकीर्तिविजयप्रसादाप्तधिया मया ॥२॥ नरं वैशाखसंस्थानस्थितपादं कटीतटे । न्यस्तहस्तद्वयं सर्वदिक्षु लोकोऽनुगच्छति ॥ ३॥ चिरमूर्ध्वंदमतया, चिरन्तनतयापि च । असौ लोकनरः श्रान्त, इव कट्यां न्यधात् करौ ॥ ४ ॥ अथवाधोमुखस्थायिमहाशरावपृष्टगम् । एष लोकोऽनुकुरुते, शरावसंपुटं लघु ॥५॥ धृतः कृतो न केनापि, स्वयंसिद्धो निराश्रयः । निरालम्बः शाश्वतश्च, विहायसि परं स्थितः ॥ ६॥ उत्पत्तिविलयध्रौव्यगुणषड्द्रव्यपूरितः । मौलिस्थसिद्धमुदितो, नृत्यायेवाततक्रमः ॥७॥ अस्य सर्वस्य लोकस्य, कल्प्या भागाश्चतुर्दश । एकैकश्च विभागोऽयमेकैकरज्जुसम्मितः ॥८॥ सर्वाधस्तनलोकान्तादारभ्योपरिगं तलम् । यावत् सप्तममेदिन्या, एका रज्जुरियं भवेत् ॥९॥ प्रत्येकमेवं सप्तानां, भुवामुपरिवर्तिषु । तलेषु रज्जुरेकैका, स्युरेवं सप्त रज्जवः ॥ १०॥ रत्नप्रभोपरितलादारभ्यादिमताविषे । पर्याप्तेषु विमानेषु, स्यादेषा रज्जुरष्टमी ॥ ११ ॥ तत आरभ्य नवमी, महेन्द्रान्ते प्रकीर्त्तिता । अतः परं तु दशमी, लान्तकान्ते समाप्यते ॥ १२ ॥ भवेदेकादशी पूर्णा, सहस्रारान्तसीमनि । स्यात् द्वादश्यच्युतस्यान्ते, क्रमादेवं त्रयोदशी ॥ १३ ॥ भवेत् ग्रैवेयकस्यान्ते, लोकान्ते च चतुर्दशी । धर्मोद्धभागादूर्वाधः, सप्त सप्तेति रज्जव: ॥ १४ ॥ ___ अयं चावश्यकनियुक्तिचूर्णिसंग्रहण्याद्यभिप्राय: ॥ भगवत्यादौ च धर्माया अधोऽसंख्ययोजनैलॊकमध्यमुक्तम् । तदनुसारेण तत्र सप्त रज्जव: समाप्यन्ते । परं तदिह स्वल्पत्वान्न विवक्षितमिति संभाव्यते ॥ योगशास्त्रवृतौ तु तत्र धरणीतलात् समभागात् सौधर्मशानौ यावत् सार्द्धरज्जुः सनत्कुमारमाहेन्द्रौ यावत् सार्धरज्जुद्धयं ब्रह्मलोकेऽर्द्धचतुर्था रज्जवेऽच्युतं यावत्
SR No.022273
Book TitleLokprakash
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2006
Total Pages738
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy