________________
168
दृश्यते ह्यातपज्योत्स्नादीपालोकादियोगतः । स्थूलद्रव्याकृतिश्छाया, भूम्यादौ श्यामरूपिका ।। १४० ।। यदा तु खड्गादर्शादिभास्वरद्रव्यसङ्गताः । तदा स्युस्ते स्वसंबंधिद्रव्यवर्णाकृतिस्पृशः ॥ १४१ ॥ आदर्शादौ प्रतिच्छाया, यत्प्रत्यक्षेण दृश्यते । मूलवस्तुसदृग्वर्णाकारादिभिः समन्विता ॥ १४२ ॥ एषां स्वरूपवैचित्र्यं, न चैतन्नोपपद्यते । सामग्रीसहकारेण, नानावस्था हि पुद्गलाः ॥ १४३ ॥ यथा दीपादिसामग्र्ग्रा, तामसा अपि पुद्गलाः । प्रकाशरूपाः स्युर्दीपापगमे तादृशाः पुनः ॥ आतपोद्योतयोः पौद्गलिकत्वं तु निर्विवादम् ॥
१४४ ॥
पुद्गलत्वं तु तमसां, शीतस्पर्शतया स्फुटम् । नीलं चलत्यन्धकारमित्यादिप्रत्ययादपि ।। १४५ ॥ याश्चाप्रतीघातिताद्याः, परोक्ताः प्रतियुक्तयः । तास्तु दीपप्रकाशादिप्रतिबन्धिपराहताः ॥ १४६ ॥ इति उपरम्यते विस्तरात्तदर्थिना रत्नाकरावतारिकादयो विलोक्या: ॥
इति पुद्गलतत्त्वमागमे, गदितं यत्किल तत्वदर्शिभिः ।
तदनूदितमत्र मद्गिरा, गुहयेव प्रतिशब्दितस्पृशा ॥ १४७ ॥
विश्वाश्चर्यदकीर्त्तिकीर्त्तिविजय श्रीवाचकेन्द्रान्तिषद्राजश्रीतनयोऽतनिष्ट विनयः श्रीतेजपालात्मजः । काव्यं यत्किल तत्र निश्चितजगत्तत्वप्रदीपोपमे, सर्गो निर्गलितार्थसार्थसुभगः पूर्णोऽयमेकादश: ॥ १४८ ॥
॥ इति श्रीलोकप्रकाशे एकादशः सर्गः संपूर्णः ॥
इति महोपाध्याय श्रीविनयविजयगणिविरचिते लोकप्रकाशे समाप्तो द्रव्यलोकः ॥