________________
167
तथोक्तम्- “निच्छयओ सब्बगुरुं सबलहुं वा न विज्जए दब्बम् । ववहारओ उ जुज्जड़ बायरखंधेसु नऽण्णेसु” ॥ अगुरुलहू चउफासा अरुविदव्वा य होति नायव्वा । सेसा उ अट्ठफासा गुरुलहुआ निच्छयनयस्स ॥ ओरालिय वेउब्बिय आहारग तेय गुरुलहू दव्वा । कम्मगमणभासाई
एयाइं अगुरुलहुआई” ॥ इति भगवतीवृत्तौ ॥ इति अगुरुलघुपरीणामः ॥ ९ ॥ वर्णगन्धरसस्पर्शसंस्थानैर्मुख्यभावतः । प्रत्येकं चिन्तितैर्भेदाः, स्युर्भूयांसोऽत्र ते त्वमी ॥ ११९ ॥ एकस्योज्जवलवर्णस्य, द्वौ भेदौ गंधभेदतः । संस्थानैश्च रसैश्चापि, पञ्च पञ्च भिदो मताः ॥ १२० ॥ स्पर्शस्तथाष्ट भेदाः स्युरेवमेकस्य विंशतिः । इतीह पञ्चभिर्वणभेदानां शतमाप्यते ॥ १२१ ॥ संस्थानानां रसानां च, प्राधान्येनैवमिष्यते । शतं शतं विभेदानां, ततो जातं शतत्रयम् ॥ १२२ ॥ सुगन्धीनां पञ्च पञ्च, भेदा वणै रसैस्तथा । संस्थानैश्चाष्ट तु स्पशैः, स्युस्त्रयोविंशतिस्ततः ॥ १२३ ॥ दुर्गन्धानामपीत्थं स्युस्त्रयोविंशतिरेव हि । षट्चत्वारिंशदुभययोगे स्युर्गंधजा इति ॥ १२४ ॥ शीतस्पर्शस्यापि भेदौ, द्रौ मतो गन्धभेदतः । संस्थानरसवर्णैश्च, पञ्च पञ्च भिदस्तथा ॥ १२५ ॥ शीतस्याधिकृतत्वेन, तत्रोष्णस्य त्वसंभवात् । भिदोऽस्य शेषैः स्पशैः षट्, स्युस्त्रयोविंशतिस्ततः ॥ १२६ ॥ स्पर्शानामेवमष्टानां, प्रत्येकं गन्धयोरपि । त्रयोविंशतिभेदत्वात्, द्विशती त्रिंशदुत्तरा ॥ १२७ ॥ एवमेते पुद्गलानां, भेदाः सर्वे प्रकीर्तिताः । शतानि पञ्च सत्रिंशान्येवमजीवरूपिणाम् ॥ १२८ ॥ अथ दशमः शब्दपरीणामः । योऽसौ शब्दपरीणामो, द्विधा सोऽपि शुभोऽशुभः । पुद्गलानां परीणामा, दशाप्येवं निरुपिताः ॥ ११९ ॥ गन्धद्रव्यादिवद्धातानुकूल्येन प्रसर्पणात् । तादृशद्रव्यवच्छ्रोत्रोपघातकतयापि च ॥ १३० ॥ ध्वनेः पौद्गलिकत्वं स्याद्यौक्तिकं यत्तु केचन । मन्यन्ते व्योमगुणतां, तस्य तन्नोपयुज्यते ॥ १३१ ॥ अस्य व्योमगुणत्वे तु दूरासन्नस्थशब्दयोः । श्रवणे न विशेष: स्यात्, सर्वगं खलु यन्नभः ॥ १३२ ॥ यथा शब्दस्तथा छायातपोद्योततमांस्यपि । सन्ति पौद्गलिकान्येवेत्याहुः श्रीजगदीश्वराः ॥ १३३ ॥ यदादर्शादौ मुखादेः, प्रतिबिम्ब निरीक्ष्यते । सोऽपि छायापुद्गलानां, परिणामो न तु भ्रमः ॥ १३४ ॥ भ्रमो ज्ञानान्तरबाध्यः, स्यान्नैतत्तु तथेक्ष्यते । न च भ्रमः स्यात्सर्वेषां, युगपत्पटुचक्षुषाम् ॥ १३५ ॥ सर्वस्थूलपदार्थानां, ते छायापुद्गलाः पुनः । साक्षादेव प्रतीयन्ते, छायादर्शनतः स्फुटाः ॥ १३६ ॥ सर्वं बैन्द्रियकं वस्तु, चयापचयधर्मकम् । रश्मिवच्च रश्मयस्तु, छायापुद्गलसंहतिः ॥ १३७ ॥ तथोक्तं प्रज्ञापनावृत्तौ । “सर्वमैन्द्रियकं वस्तु स्थूलं चयापचयधर्मकं रश्मिवच्चेति” ॥ अवाप्य तादृक्सामग्री, ते छायापुद्गला: पुन: । विचित्रपरिणामाः स्युः, स्वभावेन तथोच्यते ॥ १३८ ॥ यदातपादियुक्ते ते, गता वस्तुन्यभास्वरे । तदा स्वसम्बन्धिवस्त्वाकाराः स्युः श्यामरुपकाः ॥ १३९ ॥