SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ 166 संस्थानमायतं षोढा, द्विविधं परिमण्डलम् । चतुर्विधानि शेषाणि, संस्थानानीति विंशतिः ।। ९९ ।। इति संस्थानपरीणामः ॥ ३ ॥ भेदाख्यः पुद्गलपरीणामो भवति पञ्चधा । खण्डप्रतरभेदौ द्वौ चूर्णिकाभेद इत्यपि ॥ १०० ॥ भेदोऽनुतटिकाभिख्यो, भेद उत्करिकाभिघः । स्वरूपमप्यथैतेषां यथाश्रुतमथोच्यते ॥ १०१ ॥ लोहखण्डादिवत्खण्डभेदो भवति निश्चितम् । भूर्जपत्राभ्रपटलादिवत् प्रतरसंज्ञितः ॥ १०२ ॥ स भवेच्चूर्णिकाभेद:, क्षिप्तमृत्पिण्डवत्किल । इक्षुत्वगादिवदनुतटिकाभेद इष्यते ॥ उत्कीर्यमाणे प्रस्थादौ, स स्यादुत्करिकाभिधः । तटाकावटवाप्यादिष्वप्येवं भाव्यतामयम् ॥ १०४ ॥ द्रव्याणि भिद्यमानानि स्तोकान्युत्करिकाभिदा । पश्चानुपूर्व्या शेषाणि, स्युरनन्तगुणानि च ।। १०५ ।। इति भेदपरीणामः ॥ ४ ॥ १०३ ॥ वर्णैः परिणतानां तु, भेदाः पञ्च प्ररुपिताः । कृष्णनीलारुणपीतशुक्ला इति विभेदतः ।। १०६ ।। कज्जलादिवत्कृष्णा, नीला नील्यादिवन्मताः । स्युर्हिड्गुलादिवद्रक्ताः, पीताश्च काञ्चनादिवत् ॥ १०७ ॥ इति वर्णपरीणामः ॥ 11 शुक्लाः शङ्खादिवत् गन्धपरिणत्या तु ते द्विधा । पुष्पादिवत्सुरभयो, दुर्गन्धा लशुनादिवत् ॥ १०८ ॥ इति गन्धपरीणामः ॥ ६ ॥ ११० ॥ रसैः परिणतास्ते तु, प्रकारैः पञ्चभिर्मताः । तिक्तकटुकषायाम्लमधुरा इति भेदतः ॥ १०९ ॥ कोशातक्यादिवत्तिकाः, कटवो नागरादिवत् । प्रोक्ता आमकपित्थादिवत् कषायरसाञ्चिताः ॥ अम्लिकादिवदम्लाः स्युर्मधुराः शर्करादिवत् । स्पर्शैः परिणता येऽपि तेषामष्टौ विधाः पुनः ॥ इति रसपरीणामः ॥ ७ ॥ १११ ॥ उष्णशीतौ मृदुखरौ, स्निग्धरुक्षौ गुरुर्लघुः । उष्णस्पर्शास्तत्र वह्ययादिवत् शीता हिमादिवत् ॥ ११२ ॥ बर्हादिवच्च मृदव:, खराश्च प्रस्तरादिवत् । स्निग्धा घृतादिवत् ज्ञेया, रुक्षा भस्मादिवन्मताः ॥ ११३ ॥ गुरुस्पर्शपरिणता, वज्रादिवत्प्रकीर्त्तिताः । लघुस्पर्शपरिणता, अर्कतूलादिवन्मताः ॥ ११४ ॥ इति स्पर्शपरीणामः ॥ ८ ॥ अगुरुलघुपरीणामव्यवस्था चैवम् । धूमो लघुरुपलो गुरुः ऊर्ध्वाधोगमनशीलतो ज्ञेयौ । गुरुलघुरनिलस्तिर्यग्गमनादाकाशमगुरुलघु ॥। ११५ ।। व्यवहारतश्चतुर्धा भवन्ति वस्तूनि बादराण्येव । निश्चयतश्चागुरुलघु गुरुलघु चेति द्विभेद्येव ।। ११६ ।। तत्रापि - बादरमष्टस्पर्शं द्रव्यं रुप्येव भवति गुरुलघुकम् । अगुरुलघु चतुःस्पर्शं सूक्ष्मं वियदाद्यमूर्त्तमपि ॥ ११७ ॥ वैक्रियमौदारिकमपि तैजसमाहारकं च गुरुलघुकम् । कार्मणमनोवचांसि च सोच्छ्रासान्यगुरुलघुकानि ॥ ११८ ॥
SR No.022273
Book TitleLokprakash
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2006
Total Pages738
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy