________________
165
अष्टव्योमांशावगाढं, स्पष्टमष्टप्रदेशकम् । युग्मप्रदेशं तु घनचतुरस्रं भवेद्यथा ॥ ७७ ॥ चतुःप्रदेशप्रतरचतुरस्रस्य चोपरि । चतुःप्रादेशिकोऽन्योऽपि प्रतरः स्थाप्यते किल ।। ७८ ।। ओजः प्रदेशजं श्रेण्यायतं स्यात्त्रिप्रदेशजम् । त्र्यंशावगाढमणुषु त्रिषु न्यस्तेषु संततम् ॥ ७९ ।। निरन्तरं स्थापिताभ्यामणुभ्यां द्विप्रदेशजम् । युग्मप्रदेशजं श्रेण्यायतं द्व्यभ्रांशसंस्थितम् ।। ८० । ओजः प्रदेशं प्रतरायतं पञ्चदशांशकम् । तावद्व्योमांशावगाढमित्थं तदपि जायते ॥ ८१ ॥ पङ्क्तित्रयेऽपि स्थापयन्ते, पञ्चपञ्चाणवस्तदा । ओजः प्रदेशजनितं भवति प्रतरायतम् ॥ ८२ ॥ षट्खांशस्थं षट्प्रदेशं, स्याद्युग्मप्रतरायतम् । त्रिषु त्रिषु द्वयोः पङ्क्त्योर्न्यस्तेषु परमाणुषु ॥ ८३ ॥ पञ्चचत्वारिंशदंशमोजाणुकं घनायतम् । पञ्चचत्वारिंशदभ्रप्रदेशेषु प्रतिष्ठितम् ॥ ८४ ॥ तत्र च - पूर्वमुक्ते पञ्चदशप्रदेशप्रतरायते । पञ्चदश पञ्चदशाणवः स्थाप्या उपर्यधः ।। ८५ ।। द्वादशांशं द्वादशाभ्रांशावगाढं घनायतम् । युग्मप्रदेशजं ज्ञेयमित्थं तदपि जायते ॥ ८६ ॥ षडंशकस्य प्रतरायतस्योपरि विन्यसेत् । षट्प्रदेशांस्ततो युग्मप्रदेशं स्यात् घनायतम् ॥ ८७ ॥ विंशत्यभ्रांशावगाढं, विंशत्यंशात्मकं भवेत् । युग्मप्रदेशं प्रतरपरिमण्डलनामकम् ॥ ८८ ॥ चतुर्दिशं तु चत्वारश्चत्वारः परमाणवः । विदिक्षु स्थाप्य एकैको, भवेदेवं कृते सति ।। ८९ ।। अणूनां विंशतेरेषामुपर्यणुषु विंशतौ । स्थापितेषु युग्मजातं, स्यात् घनं परिमण्डलम् ॥ ९० ॥ एतच्चत्वारिंशदंशं, तावत्खांशप्रतिष्ठितम् । ओजः प्रदेशजनितौ, त्वत्र भेदौ न संमतौ ॥ ९१ ।। उक्तप्रदेशन्यूनत्वे, सम्भवन्ति न निश्चितम् । संस्थानानि यथोक्तानि तत इत्थं प्ररूपणा ।। ९२ ।। यथा पूर्वोक्ततः पञ्चाणुकप्रतरवृत्ततः । एकत्रांशे कर्षिते स्यात्, समांशं चतुरस्रकम् ॥ ९३ ॥ एतान्यतीन्द्रियत्वेन, नैवातिशयवर्जितैः । ज्ञेयान्यत: स्थापनाभिः, प्रदर्श्यन्ते इमास्तु ताः ॥ ९४ ॥ जघन्यानि किलैतानि, सर्वाण्युत्कर्षतः पुनः । अनन्ताणुस्वरूपाणि, मध्यमान्यपराणि तु ।। ९५ ।। तथोक्तमुत्तराध्ययननिर्युक्तौ । “परिमंडले य वट्ट, तंसे चउरंस आयए चेव । घणपयरपढमवज्जं, ओजपएसे य जुम्मे य ॥ पंचगबारसगं खलु सत्तगबत्तीसगं च वट्टमि । ति छक्कापणीसा चतारि य होति तंसंमि ॥ नव चेव तहा चउरो सत्तावीसा य अट्ठ चउरंसे । तिगदुगपन्नरसेव य छच्चेव य आयए होति ॥ पणयालाबारसगं तह चेव य आययंमि संठाणे । वीसा चत्तालीसा परिमंडलए य संठाणे” ॥
पञ्चमाङ्गे त्वनित्थंस्थं, षष्ठं संस्थानमीरितम् ॥ पञ्चभ्योऽपि व्यतिरिक्तं, द्व्यादिसंयोगसंभवम् ।। ९६ ।। संस्थानयोर्द्वयोर्यद्यप्येकद्रव्ये न संभवः । तथापि भिन्नभिन्नांशे, ते स्यातां दर्विकादिवत् ॥ ९७ ॥ एषु चाल्पाल्पप्रदेशावगाहीनि स्वभावतः । भूयांस्यल्पानि भूयिष्ठखांशस्थायीनि तानि च ।। ९८ ।।