________________
164
ओजःप्रदेशं प्रतरवृत्तं पञ्चाणुसम्भवम् । पञ्चाकाशप्रदेशावगाढं च परिकीर्तितम् ॥ ५० ॥ यत्र प्रदेशाश्चत्वारश्चतुर्दिशं प्रतिष्ठिताः । एकप्रदेशोऽन्तर्वृत्तप्रतरं तद्यथोदितम् ॥ ५१ ॥ युग्मप्रदेशं प्रतरवृत्तं च द्वादशाणुकम् । तावदभ्रांशावगाढं, तच्चैवमिह जायते ॥ ५२ ॥ चतुर्भुभ्रप्रदेशेषु, चत्वारोऽशा निरन्तरम् । स्थाप्यन्ते रुचकाकारास्तत्परिक्षेपतस्ततः ॥ ५३॥ दौ द्रौ चतुर्दिशं स्थाप्यौ, प्रदेशौ जायते ततः । युग्मप्रदेशं प्रतरवृत्तमुक्तं पुरातनैः ॥ ५४ ॥ सप्ताणुकं सप्तखांशावगाढं च भवेदिह । ओज:प्रदेशनिष्पन्नं, घनवृत्तं हि तद्यथा ॥ ५५ ॥ पञ्चप्रदेशे प्रतरवृत्ते किल पुरोदिते । अध ऊर्ध्वं च मध्याणोरेकैकोऽणुर्निवेश्यते ॥५६॥ द्वात्रिंशदणुसंपन्न, तावत्खांशावगाढकम् । युग्मप्रदेशं हि घनवृत्तं भवति तद्यथा ॥ ५७ ॥ उक्तप्रतरवृत्तस्य, द्वादशांशात्मकस्य वै । उपरिष्टात् द्वादशान्ये, स्थाप्यन्ते परमाणवः ॥ ५८ ॥ ततः पुनर्मध्यमाणुचतुष्कस्याप्युपर्यधः । स्थाप्यन्ते किल चत्वारश्चत्वारः परमाणवः ॥ ५९॥
ओज प्रदेशं प्रतरत्र्यनं तु त्रिप्रदेशकम् । त्रिप्रदेशावगाढं च, तदेवं जायते यथा ॥६० ॥ स्थाप्येते द्रावणू पक्त्या , ह्येकस्याधस्तत: परम् । एकोऽणुः स्थाप्यत इति, निर्दिष्टं शिष्टदृष्टिभिः ॥ ६१ ॥ युग्मप्रदेशं प्रतरत्र्यनं तु षट्प्रदेशकम् । षट्प्रदेशावगाढं च, तदेवं किल जायते ॥ ६२ ॥ त्रयः प्रदेशा: स्थाप्यन्ते, पङ्क्त्याऽणुद्रितयं ततः । आद्यस्याधो द्वितीयस्य, त्वध एको निवेश्यते ॥ ६३ ॥
ओजाणुकं घनत्र्यसं, पञ्चत्रिंशत्प्रदेशकम् । पञ्चत्रिंशत्नप्रदेशावगाढं च भवेद्यथा ॥६४ ॥ तिर्यक् निरन्तरा: पञ्च, स्थाप्यन्ते परमाणवः । तानधोऽधः क्रमेणैवं, स्थाप्यन्ते परमाणवः ॥६५॥ तिर्यगेव हि चत्वारस्त्रयो द्वावेक एव च । जातोऽयं प्रतर: पञ्चदशांश: पञ्चपतिंकः ॥६६॥ ततश्चास्योपरि सर्वपङ्क्तिष्वन्त्यान्त्यमंशकम् । विमुच्यांश दश स्थाप्यास्तस्याप्युपरि षट् तथा ॥ ६७ ॥ इत्थमेव तदुपरि, त्रय एकस्ततः पुनः । उपर्यस्यापीति पंचत्रिंशत्स्युः परमाणवः ॥ ६८ ॥ युग्मप्रदेशं तु घनत्र्यस्त्रं चतुःप्रदेशकम् । चतुर्पोमांशावगाढं, तदप्येवं भवेदिह ॥ ६९ ॥ पूर्वोक्ते प्रतरत्र्यस्ने, त्रिप्रदेशात्मके किल । अणोरेकस्योर्ध्वमेकः, स्थाप्यते परमाणुकः ॥ ७० ॥
ओजःप्रदेशं प्रतरचतुरनं नवांशकम् । नवाकाशांशावगाढमित्थं तदपि जायते ॥१॥ तिर्यग् निरन्तरं तिस्रः, पङ्क्तयस्त्रिप्रदेशिका: । स्थाप्यन्ते तर्हि जायेत, चतुरस्रमयुग्मजम् ॥ ७२ ॥ युग्मप्रदेशं प्रतरचतुरस्रं तु तद् भवेत् । चतुरभ्रांशावगाढं, चतुःप्रदेशसम्भवम् ॥७३॥ द्विद्धिप्रदेशे द्वे पङ्क्ती, स्थाप्येते तत्र जायते । युग्मप्रदेशं प्रतरचतुरस्रं यथोदितम् ॥७४ ॥ सप्तविंशत्यणुजातं, तावदभ्रांशसंस्थितम् । ओजःप्रदेशं हि घनचतुरस्रं भवेदिह ॥७५ ॥ नवप्रदेशप्रतरचतुरस्रस्य तस्य वै । उपर्यधो नव नव, स्थाप्यन्ते परमाणवः ॥७६ ॥