________________
163
तृणकाष्ठादिभाराणां, रज्जुवेत्रलतादिभिः । संख्यकालन्तर्मुहूत्तौ, बन्ध आलापनाभिधः ॥ २९ ॥ चतुर्धाऽऽलीनबन्धस्तु, प्रथमः श्लेषणाभिधः । समुच्चयोच्चयौ बन्धौ, तुर्यः संहननाभिधः ॥ ३० ॥ यः कुड्यकुट्टिमस्तम्भघटकाष्ठादिवस्तुषु । सुधामृत्पङलाक्षायैर्बन्धः स श्लेषणाभिधः ॥ ३१ ॥ तटाकदीर्घिकावप्रस्तूपदेवकुलादिषु । बन्धः सुधादिभिर्यः स्यात्, बहूनां स समुच्च्यः ॥ ३२ ॥ तृणावकरकाष्ठानां, तुषगोमयभस्मनाम् । उच्चत्वेन च यो बन्धः, स स्यादुच्चयसंज्ञकः ॥ ३३ ॥ द्विधा संहननाख्यस्तु, देशसर्वविभेदतः । तत्रायः शकटाङ्गादौ, परः क्षीरोदकादिषु ॥ ३४ ॥ आरभ्यालापनादेषां, जघन्योत्कर्षतः स्थिति: । अन्तर्मुहूर्त्तसंख्यातकालौ ज्ञेया विचक्षणैः ॥ ३५ ॥ द्विधा शरीरबन्धः स्यादेकः पूर्वप्रयोगजः । प्रत्युत्पन्नप्रयोगोत्थः, पर: सोऽभूतपूर्वकः ॥ ३६ ॥ तत्राद्योऽन्यसमुद्घाते, क्षिप्तानां देहतो बहिः । तैजसकार्मणाणूनां, पुनः संकोचने भवेत् ॥ ३७ ॥ समुद्घातान्निवृत्तस्य, पर: केवलिनोऽष्टसु । स्यात् पञ्चमे क्षणे तेज:कार्मणाणुसमाहूतौ ॥ ३८ ॥ आत्मप्रदेशविस्तारे, तेज:कार्मणयोरपि । विस्तार: संहृतौ तेषां, संघात: स्यात्तयोरपि ॥ ३९ ॥ देहप्रयोगबन्धस्तु, बहुधौदारिकादिकः । स पञ्चमाङ्गे शतकेऽष्टमे ज्ञेयः सविस्तरः ॥ ४० ॥ इति बन्धपरिणामः ॥ १ ॥ गतेः परिणतिर्दधा, संस्पृशन्त्यस्पृशन्त्यपि । द्वयोरयं विशेषस्तु, वर्णितस्तत्त्वपारगैः ॥४१॥ पुद्गलस्यान्तरा वस्त्वन्तरं संस्पृशतो गतिः । याऽसौ भवेत् संस्पृशन्ती, द्वितीया स्यात्ततोऽन्यथा ॥ ४२ ॥ अथवा-द्विधा गतिपरीणामो, दीर्घान्यगतिभेदतः । दीर्घदेशान्तरप्राप्तिहेतुराद्योऽन्यथापरः ॥ ४३॥ एकेन समयेनैव, पुद्गलः किल गच्छति । लोकान्तादन्यलोकान्तं, गतेः परिणतेर्बलात् ॥ ४४ ॥
तथाहुः । “परमाणुपुग्गलेणं भंते ! लोगस्स पुरथिमिल्लातो चरिमंताओ पच्चथिमिल्लं चरिमंतं एग समएणं गच्छति ? (पच्चत्थिमिल्लाओ चरिमंताओ पुरच्छिमिल्लं चरिमंतं एगसमएणं गच्छति ?) दाहिणिलाओ चरिमंताओ उत्तरिल्लं चरिमंतं, उत्तरिल्लाओ चरिमंताओ दाहिणिल्लं चरिमंतं, उवरिल्लाओ चरिमंताओ हेछिल्लं चरिमंतं, हेट्ठिल्लाओ चरिमंताओ उवरिल्लं चरिमंतं एगेणं समएणं गच्छति ? हंता गोयमा ! जाव गच्छति” ॥ इति भगवतीसूत्रे शतक १६
उद्देश ८॥ इति गतिपरीणामः ॥ २ ॥ परिमण्डलं च वृत्तं, त्र्यनं च चतुरस्रकम् । आयतं च रूप्यजीवसंस्थानं पञ्चधा मतम् ॥ ४५ ॥ मण्डलावस्थिताण्वोघं, बहिः शुषिरमन्तरे । वलयस्येव तद् ज्ञेयं, संस्थानं परिमण्डलम् ॥ ४६॥ अन्त:पूर्णं तदेव स्यात्, वृत्तं कुलालचक्रवत् । त्र्यनं शृंगाटवत् कुम्भिकादिवच्चतुरस्रकम् ॥ ४७ ॥ आयतं दण्डवत् दीर्घ, घनप्रतरभेदतः । चत्वारि स्युर्दिधा संस्थानानि प्रत्येकमादितः ॥४८॥ आयतं तु त्रिधा श्रेणिघनप्रतरभेदतः । ओजयुग्मप्रदेशानि, द्वेधाऽमूनि विनाऽऽदिमम् ॥ ४९ ॥