SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ 162 यदाहुः “कारणमेव तदन्त्यं, सूक्ष्मो नित्यश्च भवति परमाणुः । एकरसवर्णगन्धो, द्विस्पर्शः कार्यलिङ्गश्च” ॥ तत्रापि-शीतोष्णस्निग्धरूक्षेषु, द्रौ चतुर्ध्वविरोधिनौ । स्पशौ स्यातां परमाणुष्वपरे न कथञ्चन ॥ १२ ॥ तथाहुः । “परमाण्वादीनामसंख्यातप्रदेशकस्कन्धपर्यन्तानां केषाञ्चिदनन्तप्रादेशिकानामपि स्कन्धानां, तथैकप्रदेशावगाढानां यावत्संख्यातप्रदेशावगाढानां शीतोष्णस्निग्धरूक्षरुपाश्चत्वार एव स्पर्शा" इति प्रज्ञापनावृत्तौ ॥ द्रव्यक्षेत्रकालभावैः, परमाणुश्चतुर्विधः । द्रव्यतोऽणुः पुद्गलाणुश्चतुर्लक्षण एव सः ॥ १३ ॥ अदाह्योऽग्राह्य एवासावभेद्योऽच्छेद्य एव च । क्षेत्राणुस्त्वभ्रप्रदेशश्चतुर्लक्षण एव सः ॥ १४ ॥ अप्रदेशोऽविभागश्चामध्योऽनर्ध इति स्मृतः । कालाणुः समयाख्यः स्याच्चतुर्लक्षण एव सः ॥ १५ ॥ वर्णगन्धरसस्पर्श, रहितश्चाथ भावतः । द्रव्याणुरेव वर्णादिभावप्राधान्यतो मतः ॥१६॥ भावाणुरथवा सर्वजघन्यश्यामतादिकम् । इह प्रयोजनं द्रव्यपरमाणुभिरेव हि ॥ १७ ॥ इति भगवतीशतक २० उद्देश ५ ॥ स नित्यानित्यरुप: स्यात्, द्रव्यपर्यायभेदतः । तत्र च द्रव्यतो नित्यः, परमाणोरनाशतः ॥ १८ ॥ पर्यायतस्त्वनित्योऽसौ, यतो वर्णादिपर्यवाः । नश्यन्त्येके भवन्त्यन्ये, विनसादिप्रभावतः ॥ १९ ॥ अस्य शाश्वतभावेन, केचित् पर्यवनित्यताम् । मन्यन्ते तदसद्यस्मात्, पञ्चमाङ्गे स्फुटं श्रुतम् ॥ २० ॥ ___ “परमाणुपुग्गलेणं भंते, सासए असासए । गोयम सिअ सासए, सिअ असासए ॥ से केणद्वेणं भंते, एवं वुच्चति ॥ गोअम, दवठ्ठयाए सासए, पज्जवट्ठयाए असासए” इति ॥ पुद्गलानां दशविधः, परिणामोऽथ कथ्यते । बन्धनाख्यो गतिनामा, संस्थानाख्यस्तथाऽपरः ॥ २१ ॥ भेदाख्यः परिणाम: स्यात्, वर्णगन्धरसाभिधाः । स्पर्शोऽगुरुलघुः शब्दः, परिणामा दशेत्यमी ॥ २२ ॥ स्यादिनसाप्रयोगाभ्यां, बन्ध: पौद्गलिको द्विधा । तत्र यो विस्रसाबन्धः, सोऽपि त्रिविध इष्यते ॥ २३ ॥ बन्धनप्रत्ययः पात्रप्रत्ययः परिणामजः । बन्धनप्रत्ययस्तत्र, स्कन्धेषु व्यणुकादिषु ॥ २४ ॥ भवेद्धि ब्यणुकादीनां विमात्रस्नग्ध्यरौक्ष्यतः । मिथो बन्धोऽसंख्यकालमुत्कर्षात्समयोऽन्यथा ॥२५॥ यदाहुः-“समनिद्धयाए बन्धो, न होइ समलुक्खयाएऽवि न होइ । वेमायनिद्धलुक्खत्तणेण बन्धोउ खंघाणं" ॥ विषममात्रानिरुपणार्थं चोच्यते । “निद्धस्स निद्रेण दुयाहिएण । लुक्खस्स लुक्नेण दुयाहिएण । निद्धस्स लुक्नेण उवेति बंधो । जहन्नवज्जो विसमो समो वा” ॥ जीर्णमद्यगुडादीनां, भाजने स्त्यानता तु या । स पात्रप्रत्ययः संख्यकालो वाऽऽन्तर्मुहूर्तिकः ॥ २६ ॥ परिणामप्रत्ययस्तु, सोऽभ्रादीनामनेकधा । जघन्यश्चैकसमयं, षण्मासान् परमः पुनः ॥ २७ ॥ इति विस्रसाबन्धः ॥ अथ प्रयोगबन्धो यः, स चैषां स्याच्चतुर्विधः । आलापनश्चालीनश्च, शारीरतत्प्रयोगकौ ॥ २८ ॥
SR No.022273
Book TitleLokprakash
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2006
Total Pages738
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy