________________
161
भेदाः पञ्च नव ज्ञानदर्शनावरणीययोः । नीचैर्गोत्रं च मिथ्यात्वमसातवेदनीयकम् ॥ २९३ ॥ नरकस्यानुपूर्वी च, गतिरायुरिति त्रयम् । तिर्यग्गत्यानुपूर्व्यं च, कषायाः पञ्चविंशतिः ॥ २९४ ॥ एकद्वित्रिचतुरक्षजातयोऽसन्नभोगतिः । अप्रशस्ताश्च वर्णाद्यास्तथोपघातनाम च ।। २९५ ।। अनाद्यानि पञ्च संस्थानानि संहननानि च । तथा स्थावरदशकमन्तरायाणि पञ्च च ।। २९६ ।। उक्ता द्व्यशीतिरित्येता:, पापप्रकृतयो जिनैः । न भूयान् विस्तरश्चात्र, क्रियते विस्तृतेर्भिया ।। २९७ ।। एतेषु कर्मस्वष्टासु भवत्याद्यं चतुष्टयम् । घातिसंज्ञं जीवसत्कज्ञानादिगुणघातकृत् ।। २९८ ।। अन्यं चतुष्टयं च स्यात् भवोपग्राहिसंज्ञकम् । छद्मस्थानां तथा सर्वविदामप्येतदाभवम् ।। २९९ ।। पारावारानुकारादिति जिनसमयात् भूरिसारादपारात् उच्चित्योच्चित्य मुक्ता इव नवसुषमायुक्तिपङ्क्तीरनेकाः ॥
क्लृप्ता जीवस्वरूपप्रकरणरचना योरुमुक्तावलीव, सोत्कण्ठं कण्ठपीठे कुरुत कृतधियस्तां चिदुद्बोधसिद्ध्यै ॥ ३०० ॥
विश्वाश्चर्यदकीर्त्तिकीर्त्तिविजय श्रीवाचकेन्द्रान्तिषद्राजश्रीतनयोऽतनिष्ट विनयः श्रीतेजपालात्मजः । काव्यं यत्किल तत्र निश्चितजगत्तत्त्वप्रदीपोपमे, सर्गोऽयं दशमः सुधारससमः पूर्णः सुखेनासमः || ३०१ ॥ ॥ इति श्रीलोकप्रकाशे दशमः सर्गः संपूर्णः ॥
अथैकादशः सर्गः ।
पुद्गलानामस्तिकायमथ किञ्चित्तनोम्यहम् । गुरुश्रीकीर्त्तिविजयप्रसादप्राप्तधीधनः ॥ १ ॥ द्रव्यक्षेत्रकालभावगुणैरेषोऽपि पञ्चधा । अनन्तद्रव्यरूपोऽसौ द्रव्यतस्तत्र वर्णितः ॥ २॥ लोक एवास्य सद्भावात्, क्षेत्रतो लोकसंमितः । कालतः शाश्वतो वर्णादिभिर्युक्तश्च भावतः ॥ ३ ॥ गुणतो ग्रहणगुणो, यतो द्रव्येषु षट्स्वपि । भवेत् ग्रहणमस्यैव, न परेषां कदाचन ॥ ४ ॥ भेदाश्चत्वार एतेषां प्रज्ञप्ताः परमेश्वरैः । स्कन्धा देशाः प्रदेशाश्च परमाणव एव च ॥ ५ ॥ अनन्तभेदाः स्कन्धाः स्युः केचन द्विप्रदेशकाः । त्रिप्रदेशादयः संख्यासंख्यानन्तप्रदेशकाः ॥ ६ ॥ सूक्ष्मस्थूलपरिणामाः, स्युः प्रत्येकमनन्तकाः । एकक्षणाद्यसंख्येयकालान्तस्थितिशालिनः ॥ ७ ॥ द्विप्रदेशादिकोऽनन्तप्रदेशान्तो विवक्षितः । स्कन्धसम्बद्धो विभागः, स भवेत् देशसंज्ञकः ॥ ८ ॥ निर्विभाज्यो विभागो यः, स्कन्धसंबद्ध एव हि । परमाणुप्रमाणोऽसौ प्रदेश इति कीर्त्तितः ॥ ९ ॥ कार्यकारणरूपाः स्युर्द्धिप्रदेशादयो यथा । द्विप्रदेशो द्वयोरण्वोः कार्यं त्र्यणुककारणम् ॥ १० ॥ परमाणुस्त्वप्रदेश:, प्रत्यक्षो ज्ञानचक्षुषाम् । कार्यानुमेयोऽकार्यश्च भवेत्कारणमेव सः ।। ११ ।।
"