SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ 160 गोत्रनाम्नो: साऽम्बुधीनां, विंशतिः कोटिकोटय: । स्थितिज्येष्ठान्तरायस्य, स्यात् ज्ञानावरणीयवत् ॥ २६६ ॥ स्थितिर्जघन्यतो ज्ञानदर्शनावरणीययोः । अन्तर्मुहूर्त्तप्रमिता, तत्वविद्भिर्निरुपिता ॥ २६७ ॥ कषायप्रत्ययबन्धमाश्रित्याल्पीयसी स्थितिः। स्यात् द्धादशमुहूर्तात्मा, वेदनीयस्य कर्मणः ॥ २६८ ॥ उपशान्तक्षीणमोहादिकानां त्वकषायिणाम् । योगैकहेतुबद्धस्य, वेद्यस्य द्वौ क्षणौ स्थितिः ॥ २६९ ॥ स्थितिर्लघ्यन्र्मुहूर्त, मोहनीयस्य कर्मणः । आयुषः क्षुल्लकभवप्रमिता सा प्रकीर्त्तिता ॥ २७० ॥ अष्टाष्टौ च मुहूर्तानि, गोत्रनाम्नोर्लघुः स्थिति: । अन्तर्मुहूर्त्तप्रमिता, साऽन्तरायस्य कर्मणः ॥ २७१ ॥ यावत्कालमनुदयो, बद्धस्य यस्य कर्मणः । तावानबाधाकालोऽस्य, स जघन्येतरो द्विधा ॥ २७२ ।। अबाधाकाल उत्कृष्टस्त्रयोऽब्दानां सहस्रका: । आद्यकर्मत्रये सुष्टु, निर्दिष्टो दृष्टविष्टपैः ॥ २७३ ॥ सप्तवर्षसहस्राणि, मोहनीयस्य कर्मणः । पूर्वकोट्यास्तृतीयोऽशः, स भवत्यायुषो गुरुः ॥ २७४ ॥ गोत्रनाम्नोः कर्मणोस्तु, दे दे सोऽब्दसहस्रके । त्रीण्येवाब्दसहस्राणि, सोऽन्तरायस्य कर्मणः ॥ २७५ ॥ जघन्यतस्त्वबाधाद्धा, सर्वेषामपि कर्मणाम् । अन्तर्मुहूर्तप्रमिता, कथिता तत्त्ववेदिभिः ॥ २७६ ॥ अबाधाकालहीनायां, यथास्वकर्मणां स्थितौ । भवेत्कर्मनिषेकस्तत्, परिभोगाय देहिनाम् ॥ २७७ ॥ कर्मणां दलिकं यत्र, प्रथमे समये बहु । द्वितीयसमये हीनं, ततो हीनतरं क्रमात् ॥ २७८ ॥ एवं या कर्मदलिकरचना क्रियतेऽङ्गिभिः । वेदनार्थमसौ कर्मनिषेक इति कीर्त्यते ॥ २७९ ॥ कर्माण्यमूनि प्रत्येकं, प्राणिनामखिलान्यपि । भवेऽनादौ तिष्ठतां स्युरनादीनि प्रवाहत: ॥ २८० ॥ स्वभावतोऽकर्मकाणां, जीवानां प्रथमं यदि । संयोगः कर्मणामङ्गीक्रियते समये क्वचित् ॥ २८१ ॥ तदा कर्मक्षयं कृत्वा, सिद्धानामपि देहिनाम् । पुनः कदाचित्समये, कर्मयोगः प्रसज्यते ॥ २८२ ॥ विश्लेषस्तु भवेज्जीवादनादित्वेऽपि कर्मणाम् । ज्ञानादिभिः पावकाद्यैरुपलस्येव काञ्चनात् ॥ २८३ ॥ नन्वेवमन्तरायाणां, पञ्चानां मूलतः क्षये । संजाते किं ददात्यर्हन्, सततं लभते च किम् ॥ २८४ ॥ भुङ्क्ते किमुपभुक्ते वा, वीर्यं किं वा प्रवर्तयेत् । न चेत्किञ्चित्तदा तेषां, विजानां किं क्षये फलम् ॥ २८५ ॥ अत्रोच्यतेऽर्हतः क्षीणनिःशेषघातिकर्मणः । गुणः प्रादुर्भवत्येषोऽन्तरायाणां क्षये यतः ॥ २८६ ॥ ददतो लभमानस्य, भुञ्जतो वोपभुञ्जतः । वीर्यं प्रयुञ्जतो वाऽस्य, नान्तरायो भवेत्क्वचित् ॥ २८७ ॥ दानलाभादिकं त्वस्य, न सम्भवति सर्वदा । तत्तत्कारणसामग्र्यां, सत्यां भवति नान्यथा ॥ २८८ ॥ नृदेवगत्यानुपूव्यौं, जाति: पञ्चेन्द्रियस्य च । उच्चैर्गोत्रं सातवेद्यं, देहाः पञ्च पुरोदिताः ॥ २८९ ॥ अङ्गोपाङ्गत्रयं संहननं संस्थानमादिमम् । वर्णगन्धरसस्पर्शाः, श्रेष्ठा अगुरुलध्वपि ॥ २९० ॥ पराघातमथोच्छ्वासमातपोद्योतनामनी । नृदेवतिर्यगायूंषि, निर्माणं सन्नभोगतिः ॥ २९१ ॥ तथैव त्रसदशकं, तीर्थकृन्नामकर्म च । द्विचत्वारिंशदित्येवं, पुण्यप्रकृतयो मता: ॥ २९२ ॥
SR No.022273
Book TitleLokprakash
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2006
Total Pages738
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy