SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ 156 किञ्चिच्च कुत्सिताकारं, तथा कुर्यादसौ यथा । अक्षिप्तमद्याद्यपि तत्, भाण्डं लोकेन निन्द्यते ॥ १६२ ॥ कर्मणाऽपि तथाऽनेन, धनरूपोज्झितोऽपि हि । उच्चैर्गोत्रतया कश्चित्, प्रशस्यः क्रियतेऽसुमान् ॥ १६३ ॥ कश्चिच्च नीचैर्गोत्रत्वात्, धनरूपादिमानपि । क्रियते कर्मणाऽनेन, निन्द्यो नन्दनृपादिवत् ॥ १६४ ॥ गतिजात्यादिपर्यायानुभवं प्रतिदेहिनः । नामयति प्रह्वयति, यत्तन्नामेति कीर्तितम् ॥ १६५ ॥ चित्रकृत्सशं चैतत्, विचित्राणि सृजेद्यथा । चित्राण्येष मिथोऽतुल्यान्येवं नामापि देहिनः ॥ १६६ ॥ द्विचत्वारिंशद्धिधं तत्, स्थूलभेदविवक्षया । स्यादा त्रिनवतिविधं, त्रियुक्शतविधं तु वा ॥ १६७ ॥ सप्तषष्टिविधं वा स्याद्यथाक्रममथोच्यते । विकल्पानां चतुर्णामप्येषां विस्तृतिरागमात् ॥ १६८ ॥ गतिर्जातिर्वपुश्चैवोपाङ्गं बन्धनमेव च । संघातनं संहननं, संस्थानं वर्ण एव च ॥ १६९ ॥ गन्धो रसश्च स्पर्शश्चानुपूर्वी च नभोगतिः । चतुर्दशैता निर्दिष्टाः, पिण्डप्रकृतयो जिनैः ॥ १७० ॥ स्युः प्रत्येकप्रकृतयोऽष्टाविंशतिरिमाः पुनः । त्रसस्थावरदशके, पराघातादि चाष्टकम् ॥ १७१ ॥ त्रसबादरपर्याप्तप्रत्येकस्थिरशुभानि सुभगं च । सुस्वरमादेययशोनाम्नी चेत्याद्यदशकं स्यात् ॥ १७२ ॥ स्थावरसूक्ष्मापर्याप्तकानि साधारणास्थिरे अशुभम् । दुःस्वरदुर्भगनाम्नी भवत्यनादेयमयशश्च ॥ १७३ ॥ द्वितीयं दशकं चैतत्, पराघाताष्टकं त्विदम् । पराघातं तथोच्छ्वासातपोद्योताभिधानि च ॥ १७४॥ भवत्यगुरुलघ्वाख्यं, तीर्थकृन्नामकर्म च । निर्माणमुपघातं च, द्विचत्वारिंशदित्यमी ॥ १७५ ॥ चतुर्दशोक्ता गत्याद्याः, पिण्डप्रकृतयोऽत्र याः । पञ्चषष्टिः स्युरेवं ताः, प्रतिभेदविवक्षया ॥ १७६ ॥ गतिश्चतुर्धा नरकतिर्यड्नरसुरा इति ॥ एकद्धित्रिचतुःपञ्चेन्द्रियाः पञ्चेति जातयः ॥ १७७ ॥ देहान्यौदारिकादीनि, पञ्च प्रागुदितानि वै । त्रिधाऽङ्गोपाङ्गनि तेषां, विना तैजसकार्मणे ॥ १७८ ॥ तत्राङ्गानि बाहुपृष्ठोरुरोमूर्धादिकानि वै । अङ्गल्यादीन्युपाङ्गानि, भेदोऽङ्गोपाङ्गयोरयम् ॥ १७९ ॥ नखाङ्गलीपर्वरेनाप्रमुखाण्यपराणि च । अङ्गोपाङ्गानि निर्दिष्टान्युत्कृष्टज्ञानशालिभिः ॥ १८० ॥ औदारिकाद्यङ्गसक्तपुद्गलानां परस्परम् । निबद्धबध्यमानानां, सम्बन्धघटकं हि यत् ॥ १८१ ॥ तद् बन्धनं स्वस्वदेहतुल्याख्यं पञ्चधोदितम् । दार्वादिसन्धिघटकजत्वादिसदृशं ह्यदः ॥ १८२ ॥ औदारिकाद्यङ्गयोग्यान्, संघातयति पुद्गलान् । यत्तत् संघातनं पञ्चविधं बन्धमवत् भवेत् ॥ १८३ ॥ यद्धा पञ्चदशविधमेवं भवति बन्धनम् । औदारिकौदारिकाख्यं, बन्धनं प्रथमं भवेत् ॥ १८४ ॥ औदारिकतैजसाख्यं, तथौदारिककार्मणम् । स्याद्वैक्रियवैक्रियाख्यं, तथा वैक्रियतैजसम् ॥ १८५ ॥ वैक्रियकार्मणाख्यं चाहारकाहारकं तथा । आहारकतैजसं च, तथाऽऽहारककार्मणम् ॥ १८६ ॥ औदारिकतैजसकार्मणं बन्धनमीरितम् । वैक्रियतैजसकार्मणबन्धनमथावरम् ॥ १८७ ।। आहारकतैजसकार्मणबन्धनमेव च । तैजसतैजसबन्धनं च तैजसकार्मणम् ॥ १८८ ।।
SR No.022273
Book TitleLokprakash
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2006
Total Pages738
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy