________________
157
कार्मणकार्मणं चेति, स्युः पञ्चदश तानि हि । तत्र पूर्वसंगृहीतैर्यदौदारिकपुद्गलैः ॥ १८९ ॥ गृह्यमाणौदारिकाङ्गपुद्गलानां परस्परम् । सम्बन्धकृत्तदौदारिकौदारिकाख्यबन्धनम् ॥ १९० ॥ एवं च-औदारिकपुद्गलानां, सह तैजसपुद्गलैः । सम्बन्धघटकं त्वौदारिकतैजसबन्धनम् ॥ १९१ ॥
औदारिकपुद्गलानां, सह कार्मणपुद्गलैः । सम्बन्धकृत्भवत्यौदारिक कार्मणबन्धनम् ॥ १९२ ॥ भावनैवं वैक्रियवैक्रियादिबन्धनेष्वपि । स्वयं विचक्षणैः कार्या, दिङ्मात्रं तु प्रदर्शितम् ॥ १९३ ॥ षट्कं संहननानां संस्थानानां षट्कमेव च । वर्णाः पञ्च रसा: पञ्चाष्टौ स्पर्शा गन्धयोट्टयम् ॥ १९४ ॥ तत्र वर्णी नीलकृष्णौ, कटुतिक्तभिधौ रसौ । गुरुः खरो रुक्षशीताविति स्पर्शचतुष्टयम् ॥ १९५ ॥ दुर्गन्धश्चेति नवकमशुभं परिकीर्तितम् । वर्णगन्धरसस्पर्शाः, शेषास्त्वेकादशोत्तमाः ॥ १९६ ॥ आनुपूर्वश्चतस्रः स्युश्चतुर्गतिसमाभिधाः । द्विधा विहायोगतिः स्यात्, प्रशस्तेतरभेदतः ॥ १९७ ॥ एवं भेदाः पञ्चषष्टिः, पिण्डप्रकृतिजाः स्मृताः । पञ्चानामौदारिकादिबन्धनानां विवक्षया ॥ १९८ ॥ सा पञ्चषष्टिरष्टाविंशत्या प्रकृतिभिः पुरोक्ताभिः । प्रत्येकाभिर्युक्ताः स्युर्नाम्नस्त्रिनवतिर्भेदाः ॥ १९९ ॥ बन्धनानां पञ्चदशभेदत्वे च विवक्षिते । स्युर्नामकर्मणो भेदास्त्रिभिः समधिकं शतम् ॥ २०० ॥ बन्धनसंघातननाम्नामिह पञ्चदशपञ्चसंख्यानाम् । सह बन्धसजातीयत्वाभ्यां, न स्वाइतः पृथग्गणनम् ॥ २०१॥ कृष्णादिभेदभिन्नाया, वर्णादिविंशतेः पदे । सामान्येनैव वर्णादिचतुष्कमिह गृह्यते ॥ २०२ ॥ पूर्वोक्तव्युत्तरशतादेषां षट्त्रिंशतस्ततः । कृतेऽपसारणे सप्तषष्टिर्भेदा भवन्ति ते ॥२०३ ॥ बन्धे तथोदये नाम्नः, सप्तषष्ठिरियं मता । षड्विंशतिश्च मोहस्य, बन्धे प्रकृतयः स्मृताः ॥ २०४ ॥ सम्यक्त्वमिश्रमोहौ यज्जातु नो बन्धमर्हतः । एतौ हि शुद्धार्धशुद्धमिथ्यात्वपुद्गलात्मकौ ॥ २०५ ॥ त्रिपञ्चाशत् प्रकृतयस्तेदेवं शेषकर्मणाम् । नाम्नश्च सप्तषष्टिः स्युः, शतं विंशं च मीलिताः ॥ २०६॥ अधिक्रियन्ते बन्धे ता, उदयोदीरणे पुनः । सम्यक्त्वमिश्रसहितास्ता द्वाविंशं शतं खलु ॥ २०७ ॥ नाम्नस्त्र्याढयं शतं पञ्चपञ्चाशत् शेषकर्मणाम् । सत्तायामष्टपञ्चाढ्यमेवं प्रकृतयः शतम् ॥ २०८ ॥ चेत् बन्धनानि पञ्चैव, विवक्ष्यन्ते तदा पुनः । अष्टचत्वारिंशशतं, सत्तायां कर्मणां भिदः ॥ २०९ ॥ नामकर्मप्रकृतीनामथैतासां निरूप्यते । प्रयोजनं गुरुपान्ते, समीक्ष्य समयोदधिम् ॥ २१० ॥ चतुो गतिनामभ्य:, प्राप्तिः स्वस्वगतेर्भवेत् । पञ्चभ्यो जातिनामभ्योऽप्येकदयाद्यक्षता भवेत् ॥ २११ ॥ पञ्चानां वपुषां हेतुः, स्यादपुर्नाम पञ्चधा । औदारिकवैक्रियाहारकाङ्गोपाङ्गसाधनम् ॥ २१२ ॥ त्रिधाऽङ्गोपाङ्गनाम स्यात्, बन्धनानि च पञ्चधा । स्युः पञ्चदश वाङ्गानां, मिथ: सम्बन्धहेतवः ॥ ११३ ॥ असत्सु बन्धनेष्वेषु, संघातनामकर्मणा । संहृतानां पुद्गलानां, बन्धो न घटते मिथः ॥ २१४ ॥ सक्तूनां संगृहीतानां, यथा पत्रकरादिना । घृतादिश्लेषणद्रव्यं, विना बन्धो मिथो न हि ॥ २१५ ॥