________________
155
रसो मधुरकट्वादिः, सदसत्कर्मणां मतः । भवेत् प्रदेशबन्धस्तु, दलिकोपचयात्मकः ॥ १४० ॥ यथा हि मोदकः कश्चित्, प्रकृत्या वातहत् भवेत् । शुंठ्यादिजन्मा कश्चित्तु, पित्तमुज्जीरकादिजः ॥ १४१ ॥ कश्चित्पक्षस्थितिः कश्चिन्मासप्रभृतिकस्थितिः । स्यात्कश्चिन्मधुरः कश्चित्तिक्तः कश्चित्कटुस्तथा ॥ १४२ ॥ कश्चित्सेरदलः कश्चित् ब्यादिसेरदलात्मकः । कार्यैवं भावना विज्ञैः, प्रकृत्यादिषु कर्मणाम् ॥ १४३॥ मूलप्रकृतिभेदेन, तच्च कर्माष्टधा मतम् । स्यात् ज्ञानावरणीयाख्यं, दर्शनावरणीयकम् ॥ १४४ ॥ वेदनीयं मोहनीयमायुर्गोत्रं च नाम च । अन्तरायं चेत्यथैषामुत्तरप्रकृतीर्बुवे ॥ १४५ ॥ ज्ञानानि पञ्चोक्तानि प्राक्, यच्च तेषां स्वभावतः । आच्छादकं पट इव, दृशां तत् पञ्चधा मतम् ॥ १४६ ॥ मतिश्रुतावधिज्ञानावरणानि पृथक् पृथक् । मन:पर्यायावरणं, केवलावरणं तथा ॥ १४७ ॥ आवृतिश्चक्षुरादीनां, दर्शनानां चतुर्विधा । निद्राः पञ्चेति नवधा, दर्शनावरणं मतम् ॥ १४८ ॥ सुखप्रबोधा निद्रा स्यात्, सा च दुःखप्रबोधका । निद्रानिद्रा प्रचला च, स्थितिस्योर्ध्वस्थितस्य वा ॥ १४९ ॥ गच्छतोऽपि जनस्य स्यात्प्रचलाप्रचलाभिधा ॥ स्त्यानद्धिर्वासुदेवार्धबलाऽहश्चिन्तितार्थकृत् ॥ १५० ॥
"स्त्याना संघातीभूता गृद्धिः, दिनचिन्तितार्थविषयाभिकांक्षा यस्यां सा स्त्यानगृद्धिः” इति
तु कर्मग्रन्थावचूर्णौ ॥ आद्यसंहननापेक्षमिदमस्या बलं मतम् । अन्यथा तु वर्तमानयुवभ्योऽष्टगुणं भवेत् ॥ १५१ ॥
___ अयं कर्मग्रंथवृत्ताद्यभिप्रायः ॥ जीतकल्पवृत्तौ तु “यदुदयेऽतिसंक्लिष्टपरिणामात् दिनदृष्टमर्थमुत्थाय प्रसाधयति केशवार्धबलश्च जायते, तदनुदयेऽपि च स शेषपुरुषेभ्य
स्त्रिचतुर्गुणबलो भवति । इयं च प्रथमसंहनिन एव भवतीति ज्ञेयम् ॥ दर्शनानां हन्ति लब्धि, मूलादाद्यं चतुष्टयम् । लब्धां दर्शनलब्धि द्राक्, निद्रा निजन्ति पञ्च च ॥ १५२ ॥ वेदनीयं द्विधा साताऽसातरूपं प्रकीर्तितम् । स्यादिदं मधुदिग्धासिधारालेहनसन्निभम् ॥ १५३ ॥ यद्वद्यते प्रियतया स्रगादियोगात् भवेत्तदिह सातम् । यत्कंटकादितोऽप्रियरूपतया वेद्यते त्वसातं तत् ॥ १५४ ॥ यन्मद्यवन्मोहयति, जीवं तन्मोहनीयकम् । द्विधा दर्शनचारित्रमोहभेदात्तदीरितम् ॥ १५५ ॥ मिथ्यात्वमिश्रसम्यक्त्वभेदात्तत्रादिमं त्रिधा । चारित्रमोहनीयं तु, पञ्चविंशतिधा भवेत् ॥ १५६ ॥ कषायाः षोडश नव, नोकषायाः पुरोदिताः । इत्यष्टाविंशतिविधं, मोहनीयमुदीरितम् ॥ १५७ ॥ एति गत्यन्तरं जीवो, येनायुस्तच्चतुर्विधम् । देवायुश्च नरायुश्च, तिर्यड्नैरयिकायुषी ॥ १५८ ॥ इदं निगडतुल्यं स्यादसमाप्येदमङ्गभाक् । जीवः परभवं गन्तुं, न शक्नोति कदापि यत् ॥ १५९ ॥ गूयते शब्यते शब्दैर्यस्मादुच्चावचैर्जनः । तत् गोत्रकर्म स्यादेतत्, द्विधोच्चनीचभेदतः ॥ १६० ॥ इदं कुलालतुल्यं स्यात्, कुलालो हि यथा सृजेत् । किंचित् कुम्भादिभाण्डं तत्, तथा लोकैः प्रशस्यते ॥ १६१ ॥