________________
154
स्थूलापर्याप्तका अग्निप्रत्येकदुनिगोदकाः । पृथ्वीजलवायवश्व, सूक्ष्माऽपर्याप्तवहयः ॥ ११३ ॥ पर्याप्तप्रत्येकद्रुमादयो द्वादशाप्यसंख्यगुणा: । क्रमतस्ततश्च सूक्ष्मापर्याप्ता: क्ष्माम्बुवायवोऽभ्यधिकाः ॥ ११४ ॥ ततश्च संख्येयगुणाः, पर्याप्तसूक्ष्मवहयः । ततः पर्याप्तसूक्ष्मक्ष्माम्भोऽनिला अधिकाधिकाः ॥ ११५ ॥ असंख्यजास्ततोऽपर्याप्तकसूक्ष्मनिगोदकाः । तत: संख्यगुणा: पर्याप्तकाः सूक्ष्मनिगोदकाः ॥ ११६ ॥ क्रमात्ततोऽनन्तगुणाश्चत्वारोऽमी अभव्यकाः । भ्रष्टसम्यक्त्वाश्च सिद्धाः, स्थूलपर्याप्तभूरुहः ॥ ११७ ॥ तेभ्यश्च बादरा: पर्याप्तकाः स्युरोघतोऽधिकाः । स्थूलापर्याप्ततरवस्ततोऽसंख्यगुणाः स्मृताः ॥ ११८ ॥ अपर्याप्ता बादराः स्युस्तेभ्यो विशेषतोऽधिकाः । सामान्यतो बादराश्च, विशेषाभ्यधिकास्ततः ॥ ११९ ।। असंख्येयगुणास्तेभ्यो, सूक्ष्मापर्याप्तभूरुहः । ततः सामान्यतः सूक्ष्मापर्याप्तका: किलाधिकाः ॥ १२० ॥ स्युः संख्येयगुणास्तेभ्यः, सूक्ष्मपर्याप्तभूरुहः । इतोऽधिकाधिका ज्ञेया, वक्ष्यमाणाश्चतुर्दश ॥ १२१ ॥ सूक्ष्मा: पर्याप्तका ओघात्, सूक्ष्मा: सामान्यतोऽपि च । भव्या निगोदिनश्चौघादोघाच्च वनकायिकाः ॥ १२२ ॥
ओघादेकेन्द्रिया ओघात्तिर्यञ्चश्च ततः पुनः । मिथ्यादृशश्चाविरताः, सकषायास्ततोऽपि च ॥ १२३ ॥ छद्मस्थाश्च सयोगाश्च संसारिणस्तथौघतः । सर्वजीवाश्चेति सार्वैर्महाल्पबहुतोदिता ॥ १२४ ॥ एवं जीवास्तिकायो यो, दारैः प्रोक्तः पुरोदितैः । द्रव्यक्षेत्रकालभावगुणैः स पञ्चधा भवेत् ॥ १२५ ॥ अनन्तजीवद्रव्यात्मा, द्रव्यतोऽसावुदीरित: । क्षेत्रतो लोकमात्रोऽसौ, सत्त्वात्तेषां जगत्त्रये ॥ १२६ ॥ कालत: शाश्वतो वर्णादिभिः शून्यश्च भावतः । उपयोगगुणश्चासौ, गुणत: परिकीर्तितः ॥ १२७ ॥ निरन्तरं बध्यमानैः, स च कर्मकदम्बकैः । विसंस्थुलो भवाम्भोधौ, बहुधा चेष्टतेऽङ्गभाक् ॥ १२८ ॥ पुद्गलैर्निचिते लोकेऽअनपूर्णसमुद्गवत् । मिथ्यात्वप्रमुखै रिहेतुभिः कर्मपुद्गलान् ॥ १२९ ॥ करोति जीव: संबद्धान्, स्वेन क्षीरेण नीरवत् । लोहेन वहिवद्धा यत्, तत्कर्मेत्युच्यते जिनैः ॥ १३० ॥ तच्च कर्म पौद्गलिकं, शुभाशुभरसाञ्चितम् । नत्वन्यतीर्थिकाभीष्टादृष्टादिवदमूर्त्तकम् ॥ १३१ ॥ व्योमादिवदमूर्त्तत्वे त्वस्य विश्वाङ्गिसाक्षिकौ । नैतत्कृतानुग्रहोपघातौ संभवतः खलु ॥ १३२ ॥ हेतवः कर्मबन्धे च, चत्वारो मूलभेदतः । सप्तपञ्चाशदेते च, स्युस्तदुत्तरभेदतः ॥ १३३ ॥ मिथ्यात्वाविरतिकषाययोगसंज्ञाश्च मूलभेदाः स्युः । तत्र च पञ्चविधं स्यान्मिथ्यात्वं तच्च कथितं प्राक् ॥ १३४ ॥ असंयतात्मनां स्यात्, द्वादशधाऽविरतिः खलु । षट्कायारम्भपञ्चाक्षचित्तासंवरलक्षणा ॥ १३५ ॥ कषाया नोकषायाश्च, प्राक् षोडश नवोदिताः । योगास्तथा पञ्चदश, सप्तपञ्चाशदित्यमी ॥ १३६ ॥ कर्मबन्धः प्रकृत्यात्मा, स्थितिरूपो रसात्मकः । प्रदेशबन्ध इत्येवं, चतुर्भेदः प्रकीर्तितः ॥ १३७ ॥ प्रकृतिस्तु स्वभाव: स्यात्, ज्ञानावृत्यादिकर्मणाम् । यथाज्ञानाच्छादनादिः, स्थिति: कालविनिश्चयः ॥ १३८ ॥ बद्धं विवक्षितं कर्म, कर्मत्वेन हि तिष्ठति । यावत्कालं स्थितिः सा स्यात्, त्यजेत्तत्तां ततः परम् ॥ १३९ ॥