SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ 153 जघन्यायुनरोत्कृष्टजीविनारकयोलघुः । एकमासपृथक्त्वाढ्यवाद्धिमानो भवत्यसौ ॥८७ ।। उत्कृष्टो भवसंवेधो, जघन्यजीविनोईयोः । चतुर्मासपृथक्त्वाढ्यं, वर्षायुतचतुष्टयम् ॥ ८८ ।। जघन्यो भवसंवेधो, जघन्यजीविनोयोः । एकमासपृथक्त्वाढ्या, दशवर्षसहस्रकाः ॥ ८९ ॥ यथा वा-ज्येष्ठायुषस्तिरश्च: प्रोद्भवतः सप्तमक्षितौ । जघन्यायुष्टयोत्कृष्टा, भवसंवेधसंस्थितिः ॥ ९० ॥ चतुपूर्वकोटियुक्ताः, स्युः षट्षष्टिः पयोधयः । अल्पायुषोऽन्तर्मुहूर्तचतुष्टययुजोऽथ ते ॥ ९१ ॥ यथा वाज्येष्ठायुषां नृणां ज्येष्ठायुष्टया सप्तमक्षितौ । ज्येष्ठः काल: पूर्वकोट्याढ्यास्त्रयस्त्रिंशदब्धयः ॥ ९२ ॥ जघन्यायुर्नृणामल्पायुष्टया सप्तमक्षितौ । जघन्योऽब्दपृथक्त्वाढ्या, द्वाविंशति:पयोधयः ॥ ९३ ॥ एवं सर्वेषु भङ्गेषु, सर्वेषामपि देहिनाम् । विभाव्यो भवसंवेधकालो गुरुर्लघुः स्वयम् ॥ ९४ ॥ स्याद् भूयान् विस्तर इति, नेह व्यक्त्या विविच्यते । पञ्चमाङ्गे चतुर्विंशशतं भाव्यं तदर्थिभिः ॥ ९५ ॥ अथाष्टनवतेर्जीवभेदानामुच्यते क्रमात् । क्रमप्राप्ताऽल्पबहुता, महाल्पबहुताभिधा ॥ ९६ ॥ गर्भजा मनुजा: स्तोका, नार्यः संख्यगुणास्ततः । ताभ्यश्च स्थूलपर्याप्ताग्नयोऽनुत्तरनाकिनः ॥ ९७ ॥ क्रमाद्संख्यम्नास्तेभ्यश्चोर्ध्वग्रैवेयकत्रये । मध्यत्रयेऽधस्त्रये चाच्युते चैवारणेऽपि च ॥ ९८ ॥ प्राणतेऽथानते स्वर्ग, समुत्पन्ना: सुधाशिनः । क्रमेण संख्येयगुणाः, सप्ताप्येते निरूपिताः ॥ ९९ ॥ ततो माघवतीजाता, मघाजाताश्च नारकाः । सहस्रारसुरास्तेभ्यो, महाशुक्रसुरास्ततः ॥ १०० ॥ तेभ्योऽरिष्ठा नैरयिकास्तेभ्यो लांतकनाकिनः । तेभ्योंजनानारकाच, ब्रह्मलोकसुरास्ततः ॥ १०१ ॥ तेभ्यः शैलानैरयिका, माहेन्द्रत्रिदशास्ततः । तेभ्यः सनत्कुमारस्था, वंशानैरयिकास्ततः ॥ १०२ ॥ तेभ्यः संमुछिमनरास्तेभ्यश्चेशाननाकिन: । क्रमादसंख्येयगुणाश्चतुर्दशाप्यमी स्मृताः ॥ १०३ ॥ ईशानस्थसुरेभ्यस्तद्देव्यः संख्यगुणास्तत: । सौधर्मदेवास्तद्देव्यस्तेभ्य: संख्यगुणाः स्मृताः ॥ १०४ ॥ असंख्येयगुणास्तेभ्यो, भवनाधिपनाकिनः । भवनाधिपदेव्यश्च, तेभ्यः संख्यगुणाधिकाः ॥ १०५॥ ताभ्योऽसंख्यगुणा: प्रोक्ताः, प्रथमक्षितिनारकाः । तेभ्योऽप्यसंख्येयगुणाः, पुमांस: पक्षिणः स्मृताः ॥ १०६ ॥ पक्षिण्योऽथ स्थलचरास्तत्स्त्रियोऽम्बुचरा अपि । अम्बुचो व्यन्तराश्च, व्यन्तर्यो ज्योतिषामराः ॥ १०७ ॥ ज्योतिष्कदेव्यः खचरक्लीबा: स्थलपयश्चराः । नपुंसका एव ततः, पर्याप्ताश्चतुरिन्द्रियाः ॥ १०८ ॥ क्रमेण संख्येयगुणा पक्षिण्याद्यास्त्रयोदश । तत: पर्याप्तपञ्चाक्षा, अधिका: संज्यसंज्ञिनः ॥ १०९ ॥ तेभ्य: पर्याप्तका ढ्यक्षाः, पर्याप्तस्त्रीन्द्रियास्ततः । क्रमाद्विशेषाभ्यधिकाः, प्रज्ञप्ता: परमेश्वरैः ॥ ११० ॥ तेभ्योऽपर्याप्तपञ्चाक्षा, असंख्येयगुणास्ततः । अपर्याप्ताश्चतुस्त्रिद्धीन्द्रियाः स्युरधिकाधिकाः ॥ १११ ॥ तेभ्यः प्रत्येकपर्याप्ता, द्रुमाः पर्याप्तकास्ततः । निगोदा बादराः स्थूलपृथ्यम्बुमरुतोऽपि च ॥ ११२ ॥
SR No.022273
Book TitleLokprakash
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2006
Total Pages738
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy