________________
151
आनतादिस्वश्चतुष्कसर्वगवेयकामराः । उत्पद्यमाना उत्कर्षान्नृषु षड्भवपूरकाः ॥ ३५ ॥ मनुष्येषूत्पद्यमाना, विजयादिविमानगाः । भवांश्चतुर उत्कर्षात्, पूरयन्ति निरन्तरम् ॥ ३६ ॥ जघन्यतस्त्वानतादिदेवा द्विभवपूरका: । यतश्च्युतानामेतेषां, नोत्पत्तिर्मनुजान्विना ॥ ३७ ॥ उत्कर्षतो जघन्याच्च, सुराः सर्वार्थसिद्धिजाः । मनुष्येषु समुत्पद्य, पूरयन्ति भवद्धयम् ॥ ३८ ॥ भवनव्यन्तरज्योतिःसौधर्मेशाननाकिनः । पृथिव्यप्तरुषुत्पद्यमाना द्विभवपूरकाः ॥ ३९ ॥ जघन्यादुत्कर्षतोऽपि, भूयोऽप्युत्पत्त्यसम्भवात् । तेषां निर्गत्य पृथ्यादेर्भवनेशादिनाकिषु ॥ ४०॥ वायुतेजःकाययोस्तु, देवानां गत्यसम्भवात् । तदीयो भवसंवेधो, नात्र प्रोक्तो जिनेश्वरैः ॥ ४१ ॥ असंज़िसंजितिर्यञ्चो, नराः संज्ञिन एव च । असंख्यायुतिर्यक्षु, पूरयन्ति भवद्भयम् ॥ ४२ ॥ युग्मिनां नृतिरश्वां यद्धिपद्यानन्तरे भवे । गतिर्देवगतावेव, भगवद्भिर्निरूपिता ॥४३॥ भूकायिकोऽम्भोऽग्निवायुष्येकान्तरे परिभ्रमन् । भवानसंख्यान प्रत्येकमनुत्कृष्टस्थितिः सृजेत् ॥ ४४ ॥ एवमम्बुकायिकोऽपि, प्रत्येकं क्ष्माग्निवायुषु । उत्पद्यमानोऽसंख्येयान्, भवानुत्कर्षत: सृजेत् ॥ ४५ ॥ वहिकायोऽपि पृथ्थ्यम्बुकायिष्वेकान्तरं भवान् । कुर्यादसंख्याननिलोऽप्येवं पृथ्यम्बुवहिषु ॥ ४६॥ तथा क्ष्माम्भोऽग्निमरुतः, प्रत्येकं च वनस्पतौ भवानसंख्यान् कुर्वन्ति, जायमाना निरन्तरम् ॥ ४७ ।। एवं वनस्पतिरपि, पृथिव्यादिचतुष्टये । प्रत्येकमुत्पद्यमानः, कुर्यादसंख्यकान् भवान् ॥ ४८ ॥ वनस्पतिकायिकेषूत्पद्यमानो वनस्पतिः । भवानन्तान् कुर्वीत, निरन्तरं परिभ्रमन् ॥ ४९ ॥ प्रत्येकमुत्पद्यमानाः, पृथिव्यादिषु पञ्चसु । भवान् संख्यान् विदधति, प्रत्येकं विकलेन्द्रियाः ॥ ५० ॥ प्रत्येकं विकलेष्वेवं, पञ्चभूकायिकादयः । प्रत्येकमुत्पद्यमानाः, संख्येयभवपूरकाः ॥ ५१ ॥ विकलाक्षेषु संख्येयान्, सर्वेऽपि विकलेन्द्रियाः । भवान् विदध्युः प्रत्येकं, जायमानाः परस्परम् ॥ ५२ ॥ पूर्वोक्तायुश्चतुर्भङ्ग्यां, ज्येष्ठायुरुपलक्षिते । भङ्गनये भवानष्टौ, कुर्युः सर्वे क्षमादयः ॥ ५३॥ तथाहि - पृथ्वीकायिक उत्कृष्टायुष्क उत्कृष्टजीविषु । अप्कायिकेषत्कर्षणोद्भवेद्वारचतुष्टयम् ॥ ५४ ॥ एवमेकान्तरं वारानुत्पद्य चतुरस्ततः । अवश्यमन्यपर्यायं, लभते नवमे भवे ॥ ५५ ॥ उत्कृष्टायुर्भूमिकायोऽनुत्कृष्टायुष्कवारिषु । उत्पद्यमानोऽप्युत्कर्षाद्भवानष्टैव पूरयेत् ॥ ५६ ॥ एवं भूकायिकोऽनुत्कृष्टायुरुत्कृष्टजीविषु । उद्भवन्नम्बुषूत्कर्षात्, स्यादष्टभवपूरकः ॥ ५७ ॥ अप्कायादिनामपीत्थं, विकलानां च भाव्यताम् । भवाष्टकात्मा संवेधो, ज्येष्ठायुर्भङ्गकत्रये ॥ ५८ ॥ अनुत्कृष्टायुषां त्वेषां, स्यादनुत्कृष्टजीविषु । संवेधः प्रागुक्त एवासंख्यसंख्यभवात्मकः ॥ ५९॥ पृथ्व्यादीनाम् असंख्यभवात्मकः विकलानाम् संख्यभवात्मकः इति ॥ क्ष्मादयो विकलाक्षाश्च, जघन्यतो भवद्धयम् । कुर्युः ज्येष्ठकनिष्टायुरूपे भङ्गचतुष्टये ॥ १० ॥