________________
150
१२ ॥
१३ ॥
१४ ॥
१५ ॥
भवानष्टो पूरयतो भवौ द्वौ च जघन्यत: । इमौ पूरयतः प्रोक्तनारकेषु सुरेषु च ॥ ९ ॥ जघन्यायुष्टया माघवत्यामुत्पाद्यमानकः । तिर्यङ् ज्येष्ठायुरन्यो वा भवान्सप्तैव पूरयेत् ॥ १० ॥ तथाहि -संज्ञी पञ्चेन्द्रियस्तिर्यक्, पूर्वकोट्यायुरन्वितः । जघन्यायुष्टयोत्पन्नः, सप्तम्यां नरकावनौ ॥ ११ ॥ ततश्चोद्वृत्त्य तिर्यक्षु, सप्तम्यां च ततः पुनः । तिर्यक्षु च ततः क्ष्मायां, सप्तम्यां च ततः पुनः ॥ तिर्यक्ष्वेव ततश्चासौ, नोद्भवेत्सप्तमक्षितौ । एवं सप्तभवान् कृत्वाऽष्टमेऽन्यं भवमाप्नुयात् ॥ तिर्यग् ज्येष्ठायुर्जघन्यायुष्कोऽथोत्कृष्टजीविताम् । अवाप्नुवन्माघवत्यां भवान् पञ्चैव पूरयेत् ॥ उत्पद्यते द्विर्नरके, तत्र तिर्यक्षु च त्रिशः । ततश्चासौ षष्टभवे, नोद्भवेत्सप्तमक्षितौ ॥ उत्कृष्टायुष्टयाऽल्पायुष्टया वा सप्तमक्षितौ । तिर्यग् ज्येष्ठायुरन्यो वा, त्रिभवः स्याज्जघन्यतः ।। १६ ।। तत्र तिर्यग्भवौ तु द्वावेकः स्यात्सप्तमक्षितौ । माघवत्या नारकाणां तिर्यक्ष्वेव गतिर्यतः ॥ १७ ॥ चतुर्भङ्ग्याः नरः संज्ञी, सप्तमं नरकं व्रजन् । जघन्यादुत्कर्षतोऽपि, संपूरयेद्भवद्धयम् ॥ १८ ॥ आनतादिचतुःकल्प्यां, सर्वग्रैवेयकेषु च । चतुर्भग्योद्भवन् मर्त्यः, सप्तोत्कर्षात् भवान् सृजेत् ।। १९ ।। त्रिर्देवेषु चतुस्तत्र, समुत्पद्य नरेष्वसौ । अवश्यमन्यपर्यायमवाप्नोत्यष्टमे भवे ॥ २० ॥ विजयादिचतुष्के च, भवान् पञ्चैव पूरयेत् । त्रीन् भवान् नृषु मध्यौ च, द्वौ भवौ विजयादिषु ॥ २१ ॥ जघन्यस्त्वानतादिष्वेतेषु निखिलेष्वपि । भवांस्त्रीन्मनुजः संज्ञी, समर्थयेत् समुद्भवन् ॥ २२ ॥ यदानतादिदेवानां नृभ्य एवाप्तजन्मनाम् । नरेष्वेवोत्पत्तिरिति, जघन्येन भवास्त्रयः ॥ २३ ॥ जघन्याच्चोत्कर्षतोऽपि, पञ्चमेऽनुत्तरे नरः । त्रीन्भवान् पूरयेत् मोक्षमवश्यं यात्यसौ ततः ॥ २४ ॥ भवनव्यन्तरज्योतिष्काद्यकल्पद्वयावधि । युग्मिनो नरतिर्यंच:, पूरयन्ति भवद्धयम् ।। २५ ।। जघन्यादुत्कर्षतोऽपि, युग्मिनां यत्सुधाशिषु । उत्पन्नानां पुनरपि स्यादुत्पत्तिर्न युग्मषु ॥ २६ ॥ रत्नप्रभायां भवनाधिपतिव्यन्तरेष्वपि । असंज्ञी पर्याप्ततिर्यग्भवयुग्मं समर्थयेत् ॥ २७ ॥ गदस्य नरके स्वर्गे, चोत्पन्नस्य ततः पुनः । असंज्ञितिर्यक्षूत्पत्तिर्भवे नानन्तरे भवेत् ॥ २८ ॥ भवनव्यन्तरज्योतिःसहस्रारान्तनाकिनः । आद्यषड्नरकोत्पन्नानारकाश्च समेऽप्यमी ॥ २९ ॥ उत्पद्यमानाः पर्याप्तसंज्ञितिर्यग्नरेषु वै । पूरयन्ति भवानष्ट, प्रत्येकं तत्र भावना ॥ ३० ॥ कश्चिद्भवनपत्यादिश्च्युत्वैकान्तरमुद्भवन् । चतुर्वारं हि पर्याप्तसंज्ञी तिर्यग्नरो भवेत् ॥ ३१ ॥ ततः स तिर्यग्मर्त्यो वा नाप्नुयान्नवमे भवे । पूर्वोक्तभवनेशादिभावं तादृक्स्वभावतः ॥ ३२ ॥ संज्ञिपर्याप्ततिर्यक्षु, सप्तमक्षितिनारकाः । पूरयन्ति भवान् षड् येऽनुत्कृष्टस्थितिशालिनः ॥ ३३ ॥ उत्कृष्टस्थितियुक्तास्तु, सप्तमक्षितिनारकाः । 'तेषूत्कर्षाज्जायमानाः, स्युश्चतुर्भवपूरकाः ॥ ३४॥ १. उत्पद्यमाना उत्कर्षात्, पूश्यन्ति चतुर्भवीम् वि