SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ 148 इत्यागतिः ॥ १४ ॥ सामान्यतो नैरयिका, लभन्तेऽनन्तरे भवे । सम्यक्त्वं देशविरतिं, चारित्रं मुक्तिमप्यमी ॥ १४ ॥ विशेषतस्तु क्षेत्रलोके वक्ष्यते ॥ इत्यनन्तराप्तिः ॥ १५ ॥ उद्वृत्यौघान्नारकेभ्यो, लब्ध्वा नरभवादिकम् । यद्येकसमये यान्ति, शिवं तर्हि दश ध्रुवम् ॥ १५ ॥ प्रत्येकमाद्यनरकत्रयोद्वृत्ता अमी पुन: । सिद्धिं यान्ति दश दश, तुर्योद्वृत्तास्तु पञ्च ते ।। १६ ।। इति समयसिद्धिः ॥ १६ ॥ लेश्यास्तिस्रो भवन्त्याद्या, षडाहारदिशोऽपि च । न संहननसद्भाव:, कषाया निखिला अपि ॥ १७ ॥ इति द्वारचतुष्टम् ॥ १७–२० ॥ संज्ञाः सर्वाश्चेन्द्रियाणि, सर्वाण्येषां च संज्ञिता । दीर्घकालिक्यादिमत्वाद्व्यक्तसंज्ञतयाऽपि च ।। १८ ।। इति द्वारत्रयम् ॥ २१-२३ ।। एषां वेद: क्लीब एव, दृष्टिर्ज्ञानं च दर्शनम् ॥ उपयोगा इति द्वारचतुष्कं सुखन्मतम् ।। १९ ।। इति द्वारपञ्चकम् ॥ २४-२८ ॥ ओजोलोमाभिधावेषामाहारावशुभौ भृशम् । गुणस्थानानि योगाश्च भवन्त्यमृतभोजिवत् ॥ २० ॥ लोमाहारोद्विधाऽऽभोगादनाभोगाच्च तत्र च । स्यादादिमोऽन्तुर्मुहूर्त्ताद्, द्वितीयश्च प्रतिक्षणम् ॥ २१ ॥ इतिद्वारत्रयम् ।। २९-३१ ॥ इति लेश्यादीनि योगान्तानि पञ्चदश द्वाराणि अङ्गुलप्रमितक्षेत्रप्रदेशराशिवर्तिनि । तृतीये वर्गमूलघ्ने, प्रथमे 'वर्गमूलके ।। २२ ।। यावान् प्रदेशराशिः स्यात्तावतीषु च पङ्क्तिषु । एकप्रादेशिकीषु स्युर्यावन्तः खप्रदेशकाः ॥ २३ ॥ तावन्तो नारकाः प्रोक्ताः, सामान्येन जिनेश्वरैः । विशेषतो मानमेषामथ किञ्चिद्धितन्यते ॥ २४ ॥ अङ्गुलप्रमितक्षेत्र प्रदेशराशिसङ्गते 1 तृतीयवर्गमूलघ्ने, प्रथमे वर्गमूल ।। २५ ।। यावान् प्रदेशनिकरस्तत्प्रमाणासु पङ्क्तिषु । एकप्रादेशिकीषु स्युर्यावन्तः खप्रदेशकाः ।। २६ ।। तावन्तो मानतः प्रोक्ता, नारकाः प्रथमक्षितौ । शेषासु षट्सु च क्ष्मासु, ख्याता नैरयिकाङ्गिनः ॥ २७ ॥ घनीकृतस्य लोकस्य, श्रेण्यसंख्यांशवर्तिभिः । नभः प्रदेशैः प्रमिता, विशेष एष तत्र च ॥ २८ ॥ आरभ्य सप्तमक्ष्माया, द्वितीयवसुधावधि । असंख्येयगुणत्वेन यथोत्तराधिकाधिकाः ॥ २९ ॥ इति मानम् ॥ ३२ ॥ सर्वाल्पाः सप्तमक्ष्मायामसंख्येयगुणास्ततः । भवन्ति नारकाः क्ष्मासु, षष्ट्यादिषु यथाक्रमम् ॥ ३० ॥ १. यथा असत्कल्पनया २५६ रुपराशौ प्रथमवर्गम् २, द्वितीयवर्गम् ४, तृतीयवर्गम् १६, तत्र प्रथमवर्गम् २, तृतीयवर्गम् १६, गुणिते ३२ । अत्र प्रज्ञापनाजीवाभिगमसूत्रवृत्ती विलोकनीयेः । वि. टि. ।।
SR No.022273
Book TitleLokprakash
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2006
Total Pages738
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy