________________
विश्वाश्चर्यदकीर्त्तिकीर्त्तिविजयश्रीवाचकेन्द्रान्तिषद्राजश्रीतनयोऽतनिष्ट विनयः श्रीतेजपालात्मजः । काव्यं यत्किल तत्र निश्चितजगत्तत्वप्रदीपोपमे, सर्गे निर्गलितार्थसार्थसुभगः सौख्येन पूर्णोऽष्टमः ॥ १५२ ॥
॥ इति श्रीलोकप्रकाशे देवाधिकाररूपोऽष्टमः सर्गः समाप्तः ॥
अथ नारकाः
147
-
अथ नवमः सर्ग : ।
रत्नशर्करावालुकापङ्कधूमतमः प्रभाः । महातमः प्रभैतज्जा:, सप्तधा नारका मताः ॥ १ ॥ पर्याप्तापरभेदेन, चतुर्दश भवन्ति ते । स्थानोत्पातसमुद्घातैर्लोकासंख्यांशवर्तिनः ॥ २ ॥ स्वस्थानतस्त्वधोलोकस्यैकदेशे भवन्त्यमी । विशेषस्थानयोगस्तु, क्षेत्रलोके प्रवक्ष्यते ॥ ३ ॥ इति भेदा: स्थानानि च ।। १ । । २ ।
पर्याप्तयः षडप्येषां, चतस्रो योनिलक्षकाः । लक्षाणि कुलकोटीनामुक्तानि पञ्चविंशतिः ॥ ४॥ इति द्वारम् ॥ ३ । ४ । ५ ॥
स्युः शीतयोनयः केचित् केचित्तथोष्णयोनयः । जिनैरुक्ता नैरयिकाः, संवृताचित्तयोनयः ॥ ५ ॥ इति योनिसंवृतत्वादि ॥ ६ ॥
दशवर्षसहस्राणि, जघन्यैषां भवस्थितिः । उत्कृष्टा तु त्रयस्त्रिंशत्सागरोपमसंमिता ॥ ६ ॥ इति भवस्थितिः ॥ ७ ॥ कायस्थितिस्तेषां भवस्थितिरेव ॥ ८ ॥
कायस्थितिस्त्रसत्वे स्याज्जघन्याऽन्तर्मुहूर्त्तिकी । द्वौ सागरसहस्रौ च कियद्धर्षाधिकौ गुरुः ।। ७ ।। देहास्त्रयस्तैजसं च, कार्मणं वैक्रियं तथा । स्वाभाविककृत्रिमयोर्हुण्डं संस्थानमङ्गयोः ॥ ८ ॥ इति देहाः संस्थानं च ।। ९ । १० ।।
1
शतानि पञ्च धनुषां, ज्येष्ठा स्वाभाविकी तनुः । लघ्व्यङ्गुलासंख्यभागमानाऽऽरम्भक्षणे मता ॥। ९ ॥ स्वस्वस्वाभाविकतनोर्द्विगुणोत्तरवैक्रिया । गुर्वी लघ्व्यङ्गुलसंख्यभागमाना भवेदसौ ॥ १० ॥
इत्यंगमानम् ॥ ११ ॥
स्युश्चत्वारः समुद्घाता, आद्या एषां गतिः पुनः । पर्याप्तगर्भजनरतिरश्चोः संख्यजीविनोः ॥ ११ ॥ इति द्वाद्वयम् ।। १२ । ।। १३ ।। ( इति गति : )
नरपञ्चाक्षतिर्यञ्चः, पर्याप्ताः संख्यजीविनः । नारकेषु यान्ति संख्या, सामयिक्येषु देववत् ।। १२ ।। इषूत्पत्तिच्यवनमयोर्मुहूर्त्ता द्वादशान्तरम् । उत्कर्षतो जघन्याच्च, प्रज्ञप्तं समयात्मकम् ॥१३॥