SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ 146 उदीच्यां मानससरस्येते क्रीडापरायणाः । आसते नित्यमेवं स्युर्दक्षिणापेक्षयाधिकाः ॥ १३७ ॥ किं चमानसाख्ये सरस्यस्मिन्, मत्स्याद्या येऽम्बुचारिणः । ते समीपस्थितज्योतिर्विमानादिनिरीक्षणात् ॥ १३८ ॥ उत्पन्नजातिस्मरणा:, किञ्चिदाचर्य च व्रतम् । विहितानशनाः कृत्वा, निदानं सुखलिप्सया ॥ १३९ ॥ मृत्वा ज्योतिर्विमानेषूत्पद्यन्तेऽन्तिकवर्तिषु । तत: स्युर्दाक्षिणात्येभ्य, औत्तराहा इमेऽधिकाः ॥ १४० ॥ स्युः सौधर्मप्रभृतिषु, ताविषेषु चतुर्ध्वपि । पूर्वस्यां पश्चिमायां च, स्तोका एव सुधाभुजः ॥ १४१ ॥ ततश्चासंख्येयगुणा, उतरस्यां ततोऽधिकाः । दक्षिणस्याममी प्रोक्ताः, श्रूयतां तत्र भावना ॥ १४२ ॥ तुल्या दिक्षु चतुसृषु, विमाना: पङ्क्तिवर्तिनः । असंख्ययोजनतताः, पुष्पावकीर्णकाः पुनः ॥ १४३ ॥ याम्योदीच्योरेव भूम्ना, स्युः पूर्वापरयोस्तु न । उदक् ततोऽसंख्यगुणाः, प्राचीप्रतीच्यपेक्षया ॥ १४४ ॥ भूम्ना कृष्णपाक्षिकाणां, दक्षिणस्यां समुद्भवात् । दक्षिणस्यां समधिका, उत्तरापेक्षया ततः ॥ १४५ ॥ तथाहुः प्रज्ञापनायाम् –“दिसाणुवाएणं सव्वत्थोवा देवा सोहम्मे कप्पे पुरच्छिमपच्चच्छिमेणं, उत्तरेणं असंख्नेज्जगुणा, दाहिणेणं विसेसहिया ॥ अत्र यद्यपि 'विविहा पुष्फकिन्ना तयन्तरे मुत्तु पुवदिसिं' इति वचनात् प्राच्यां पुष्पावकीर्णकाभावात् प्रतीच्यां च तन्निषेधाभावात् प्राच्यपेक्षया प्रतीच्या देवा अधिका वक्तव्याः स्युस्तथाप्यत्र सूत्रे पूर्वपश्चिमावल्योरुभयतः सर्वापि दक्षिणोत्तरतयैव दिग्विवक्षितेति संभाव्यते इति वृद्धाः । यथा दक्षिणोत्तरार्धलोकाधिपती सौधर्मशानेन्द्रौ इत्यत्र पूर्वपश्चिमे अपि दक्षिणोत्तरतयैव विवक्षिते । इति ॥ पूर्वोत्तरपश्चिमासु, ब्रह्मलोकेऽल्पकाः सुराः । ततश्चासंख्येयगुणा, दक्षिणस्यां दिशि स्मृताः ॥ १४६ ॥ याम्यां हि बहवः प्रायस्तिर्यञ्चः कृष्णपाक्षिकाः । उत्पद्यन्तेऽन्यासु शुक्लपाक्षिकास्ते किलाल्पकाः ॥ १४७ ॥ एवं च लांतके शुक्रे, सहस्रारेऽपि नाकिनः । भूयांसो दक्षिणस्यां स्युस्तिसृष्वन्यासु चाल्पकाः ॥ १४८ ॥ आनतादिषु कल्पेषु, ततश्चानुत्तरावधि । प्रायश्चतुर्दिशमपि, समाना एव नाकिनः ॥ १४९ ॥ तथाहुः प्रज्ञापनायाम् - “तेण परं बहुसमोववण्णगा समणाउसो” ! इति ॥ इति दिगपेक्षया अल्पबहुता ॥ ३४ ॥ जघन्यतोऽन्तर्मुहूर्त, कालोऽनन्तोऽन्तरं गुरु । ज्येष्ठकायस्थितिरूपः, स च कालो वनस्पतेः ॥ १५० ॥ इत्यन्तरम् ॥ ३५ ॥ इति यदिह मयोक्तं निर्जराणां स्वरूपम्, तदुरुसमयवाचां वर्णिकामात्रमेव । तदुपहित विशेषान् को ह्यशेषान् विवेक्तुम्, प्रभुरिव नृपकोष्टागारजाग्रत्कणौधान् ॥ १५१ ॥ १. प्रज्ञापनासूत्रादर्श असंख्छेज्जगुणा इति वृत्त्याद्दर्श तु संख्येयगुणा इति दृश्यते ।
SR No.022273
Book TitleLokprakash
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2006
Total Pages738
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy