SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ 145 शुक्लपाक्षिककृष्णपाक्षिकलक्षणं च एवम् - बहुपापोदया: क्रूरकर्माणः कृष्णपाक्षिकाः । स्युर्दीर्घतरसंसारा, भूयांसोऽन्यव्यपेक्षया ॥ १२० ॥ तथास्वभावात्ते भव्या, अपि प्राय: सुरादिषु । उत्पद्यन्ते दक्षिणस्यां प्राचुर्येणान्यदिक्षु न ॥ १२१ ॥ तथाहुः-"पायमिह कूरकम्मा, भवसिद्धीयावि दाहिणिल्लेसु । नेरइयतिरियमणुआसुराइठाणेसु गच्छंति ॥ किञ्च-जेसिमवड्डो पुग्गलपरियट्टो सेसओ उ संसारो । ते सुक्कपक्खिया खलु, अहिए पुण कण्हपक्खीओ ॥ इति प्रज्ञापनावृत्तौ ॥ आनतेभ्योऽसंख्यगुणाः, सहस्रारसुराः स्मृताः । महाशुक्रे लान्तके च, ब्रह्ममाहेन्द्रयोरपि ॥ १२२ ॥ सनत्कुमार ईशानेऽप्यसंख्यजा यथोत्तरम् । ऐशानेभ्यश्च सौधर्मदेवाः संख्यगुणाधिकाः ॥ १२३ ॥ ननु-कृष्णपाक्षिकबाहुल्याद्यथा माहेन्द्रनाकिन: । असंख्येयगुणा: प्रोक्ताः, सनत्कुमारनाकिनः ॥ १२४ ॥ विमानानां कृष्णपाक्षिकाणां चाधिक्यतस्तथा । ते सौधर्मेऽप्यसंख्यजाः, कथं नेशाननाकिनः ॥ १२५ ॥ अत्रोच्यते हि वचनप्रामाण्यादुच्यते तथा । विचारगोचरो नास्मादृशामाप्तोदितं वचः ॥ १२६ ॥ तथोक्तं प्रज्ञापनावृत्तौ –“ननु इयं युक्तिर्माहेन्द्रसनत्कुमारयोऽप्युक्ता । परं तत्र माहेन्द्र कल्पापेक्षया सनत्कुमारकल्पे देवा असंख्येयगुणा उक्ताः । इह तु सौधर्मे कल्पे संख्येयगुणा उक्ताः । तदेतत् कथम् ? । उच्यते । वचनप्रामाण्यात् । न च अत्र पाठभ्रमः । यतोऽन्यत्राप्युक्तम् “इसाणे सव्वत्थवि, बत्तीसगुणाउ होन्ति देवीओ। संज्जा सोहम्मे, तओ असंखा भवणवासी" ॥ असंख्यनाश्च सौधर्मदेवेभ्यो भवनाधिपाः । भवन्ति भवनेशेभ्योऽसंख्यजा व्यन्तराः सुराः ॥ १२७ ॥ ज्योतिष्काणां देवदेवीवृन्द: संख्यगुणस्ततः । स्वस्वदेवेभ्यश्च देव्यः, सर्वाः संख्यगुणाः स्मृताः ॥ १२८ ॥ इति लघ्यल्पबहुता ॥ ३३ ॥ पूर्वस्यां च प्रतीच्यां च, स्तोका भवनवासिनः । उत्तरस्यां दक्षिणस्यामसंख्येयगुणा: क्रमात् ॥ १२९ ॥ प्राक्प्रतीच्योर्हि भवनाल्पत्वात्स्तोका अमी किल । दक्षिणोत्तरयोस्तेषां, क्रमाधिक्यादिमेऽधिकाः ॥ १३० ॥ पूर्वस्यां व्यन्तराः स्तोका, विशेषेणाधिकाधिका: । अपरस्यामुत्तरस्यां, दक्षिणस्यां यथाक्रमम् ॥ १३१ ॥ व्यन्तराः शुषिरे भूम्ना, प्रचरन्ति ततोऽधिकाः । साधोग्रामायां प्रतीच्याममी स्युः प्राच्यपेक्षया ॥ १३२ ॥ उदीच्या दक्षिणस्यां च, युक्तमेवाधिकाधिकाः । स्वस्थाननगरावासबाहुल्यतो यथाक्रमम् ॥ १३३ ॥ पूर्वस्यां पश्चिमायां च, स्तोका ज्योतिष्कनाकिन: । दक्षिणस्यामुदीच्यां च, स्युः क्रमेणाधिकाधिका: ॥ १३४ ॥ प्राक्प्रतीच्योश्चन्द्रसूर्यदीपेषूद्यानदेशवत् । क्रीडास्पदेषु ज्योतिष्काः, स्वल्पाः प्रायेण सत्तया ॥ १३५ ॥ तेभ्योऽधिका दक्षिणस्यां, विमानानां बहुत्वतः । तथा कृष्णपाक्षिकाणां, बाहुल्येनोपपाततः ॥ १३६ ॥
SR No.022273
Book TitleLokprakash
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2006
Total Pages738
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy