________________
144
क्षेत्रपल्योपमासंख्यभागस्थाभ्रांशसंमिताः । देवा अनुत्तरोत्पन्नाः, संख्येयास्तत्र पञ्चमे ॥ ९५ ॥ बृहत्तरक्षेत्रपल्यासंख्यांशाभ्रांशसंमिताः । भवन्त्यथोपरितनग्रैवेयकत्रिकामराः ॥९६ ॥ मध्यमेऽधस्तनेऽप्येवं, त्रिके कल्पेऽच्युतेऽपि च । आरणे प्राणते चैवानतेऽपीयन्त एव ते ॥ ९७ ॥ किन्तु पल्यासंख्यभागो, बृहत्तरो यथोत्तरम् । एकमानमितेष्वेवं, स्यात् परेष्वपि भावना ॥ ९८ ॥ सहस्रारमहाशुक्र लांतकब्रह्मवासिनः । माहेन्द्रसनत्कुमारदेवाः प्रत्ये कमीरिताः ॥ ९९ ॥ घनीकृतस्य लोकस्य, श्रेण्यसंख्यांशवर्तिभिः । नभ:प्रदेशैः प्रमिता, विशेषोऽत्रापि पूर्ववत् ॥ १०० ॥ अङ्गलप्रमितक्षेत्रप्रदेशराशिसंगते । तृतीयवर्गमूलने, . द्वितीयवर्गमूलके ॥१०१ ॥ यावान् प्रदेशराशि: स्यादेकप्रादेशिकीष्वथ । श्रेणीषु तावन्मानासु, लोकस्यास्य घनात्मकः ॥ १०२ ॥ नभःप्रदेशा यावन्तस्तावानीशाननाकगः । देवदेवीसमुदायो, निर्दिष्टः श्रुतपारगैः ॥ १०३ ॥ त्रयस्त्रिंशत्तमोऽशोऽस्य, किञ्चिदूनश्च यो भवेत् । ईशानदेवास्तावन्तः, केवला: कथिताः श्रुते ॥ १०४ ॥ एवं च-सौधर्मभवनाधीशव्यन्तरज्योतिषामपि । भाव्या स्वस्वसमुदायत्रयस्त्रिंशांशमानता ॥ १०५ ॥ केवलं देवदेवीसमुदाय एव वक्ष्यते - ईशानतश्च सौधर्मे, स्यात् संख्येयगुणाधिकः । देवदेवीसमुदायो, भवनेशानथ ब्रुवे ॥ १०६ ॥ अङ्गलप्रमितक्षेत्रप्रदेशराशिवर्तिनि । द्वितीयवर्गमूलने, वर्गमूले किलादिमे ॥ १०७ ॥ यावान् प्रदेशराशि: स्यात्तावन्मानासु पङ्क्तिषु । घनीकृतस्य लोकस्याथैकप्रादेशिकीषु वै ॥ १०८ ॥ नभ:प्रदेशा यावन्तस्तावान् पुरुषपुङवैः । देवदेवीसमुदायः, ख्यातो भवनवासिनाम् ॥ १०९ ॥ यावन्ति संख्ययोजनकोटीमानानि दैर्घ्यतः । सूचिरुपाणि खण्डानि, स्युरेकप्रतरे किल ॥ ११० ॥ व्यन्तराणां देवदेवीसमुदायो भवेदियान् । ज्योतिष्कदेवदेवीनां, प्रमाणमथ कीर्त्यते ॥ १११ ॥ षट्पञ्चाशांगुलशतद्यमानं हि दैर्घ्यतः । यावन्त एकप्रतरे, सूचिरूपा: स्युरंशकाः ॥ ११२ ॥ ज्योतिष्कदेवदेवीनां, तावान् समुदयो भवेत् । उक्त प्रमाणमित्येवमथाल्पबहुतां ब्रुवे ॥ ११३ ॥ इति मानम् ॥ ३२ ॥ स्तोकाः सर्वार्थसिद्धस्था, असंख्येयगुणास्ततः । शेषा अनुत्तरा देवास्तत: संख्यगुणा: क्रमात् ॥ ११४ ॥ ऊर्ध्वमध्याध:स्थिते स्युप्रैवेयकत्रिकत्रये । अच्युते चारणे चैव, प्राणते चानतेऽपि च ॥ ११५ ॥ अधोऽधोग्रैवेयकादावनुत्तराद्यपेक्षया । भाव्या विमानबाहुल्याद्देवा: संख्यगुणाः क्रमात् ॥ ११६ ॥ समश्रेणिस्थयोर्यद्यप्यारणाच्युतकल्पयोः । विमानसंख्या तुल्यैव, तथापि कृष्णपाक्षिकाः ॥ ११७ ॥ उत्पद्यन्ते स्वभावेन, दक्षिणस्यां हि भूरयः । शुक्लपाक्षिकजीवेभ्यो, बहवश्च भवन्ति ते ॥ ११८ ॥ ततोऽच्युतापेक्षया स्युनिर्जरा आरणेऽधिकाः । समश्रेणिस्थितितेष्वेवमन्येष्वपि विभाव्यताम् ॥ ११९ ॥