SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ 143 इत्यङ्गमानम् ॥ ११ ॥ आद्याः पञ्च समुद्घाताः, पञ्चस्त्वेतेषु यान्त्यमी ॥ पर्याप्तगर्भजनरतिर्यक्षु संख्यजीविषु ॥७७ ॥ पर्याप्तबादरक्ष्माम्बुप्रत्येकक्षितिजेषु च । गर्भजा मनुजाः पञ्चेन्द्रियास्तिर्यञ्च एव च ॥७८ ॥ संमूछिमा गर्भजाश्चागच्छन्त्यमृतभोजिषु । विशेषस्त्वत्रोदितः प्राक्, क्षेत्रलोकेऽपि वक्ष्यते ॥ ७९ ॥ मुहूर्तानि द्वादशैषामुत्पत्तिच्यवनान्तरम् । सामान्यतः स्यादुकृष्टं, जघन्यं समयावधि ॥ ८० ॥ उत्पद्यन्ते च्यवन्तेऽमी, एकस्मिन् समये पुनः । एको द्वित्राञ्च संख्येया, असंख्येयाश्च कर्हिचित् ॥ ८१ ॥ इति द्वारस्त्रयम् ॥ १२ ॥ ॥ १३ ॥ ॥ १४ ॥ सम्यक्त्वं देशविरतिं, चारित्रं मुक्तिमप्यमी । लभन्ते लघुकर्माणो, विपद्यानन्तरे भवे ॥ ८२ ॥ इत्यनन्तराप्तिः ॥ १५ ॥ सिद्ध्यन्त्यनन्तरभवे, एकस्मिन् समये त्वमी । उत्कर्षत: साष्टशतं, विशेषस्त्वेष तत्र च ॥ ८३ ॥ भवनेषा व्यन्तराश्च, सर्वे दशदशैव हि । तद्देव्यः पञ्चपञ्चैव, दश ज्योतिष्कनिर्जराः ॥ ८४ ॥ ज्योतिष्कदेव्यश्चैकस्मिन्, क्षणे सिद्ध्यन्ति विंशतिः । वैमानिका: साष्टशतं, तद्देव्यो विंशतिः पुनः ॥ ८५ ॥ इति समये सिद्धिः ॥ १६ ॥ लेश्याहारदिशां षट्कं, न संहननसम्भवः । कषायसंज्ञेन्द्रियाणि, सर्वाण्येषां भवन्ति च ॥८६॥ इति द्वारषट्कम् ॥ १७ – २२ ॥ सर्वेऽप्येते संज्ञिनः स्युः, पुंस्त्रीवेदयुजः परम् । देव्य: सुरेभ्यो द्वात्रिंशद्गुणा द्वात्रिंशताऽधिकाः ॥ ८७ ॥ इति द्वारद्धयम् ॥ २३-२४ ॥ एषां स्युर्दृष्टय: तिस्त्र, आद्यं ज्ञानत्रयं भवेत् । सम्यग्दृशां परेषां तु, स्यादज्ञानत्रयं ध्रुवम् ॥ ८८ ॥ इति द्वारद्वयम् ॥ २५-२६ ॥ दर्शनत्रयमाद्यं स्यादेषां सम्यक्त्वशालिनाम् । दर्शनद्रयमन्येषामुपयोगो द्विधा ततः ॥ ८९ ॥ उपयोग षडेतेषां, ज्ञानदर्शनयोस्त्रयम् । सम्यग्दृशां परेषां तु, त्र्यज्ञानी द्वे च दर्शने ॥ ९० ॥ इति द्वारद्वयम् ॥ २७-२८ ॥ एतेषामोजआहारो, लोमाहारोऽपि सम्भवेत् । न स्यात्कावलिकः स्यात्तु, मनोभक्षणलक्षणः ॥ ९१ ॥ अन्तरं पुनरेतस्य, चतुर्थभक्त्तसम्मितम् । जघन्यमन्यत्त्वब्दानां, त्रयस्त्रिंशत्सहस्रकाः ॥ ९२ ॥ इत्याहारः ॥ २९ ॥ गुणस्थानानि चत्वारि, योगाश्चैकादशोदिता: । औदारिकाहारकाख्यतन्मिश्रांश्च विनाऽखिलाः ॥ ९३ ॥ इति द्वारद्वयम् ॥ ३०-३१ ॥ प्रतरासंख्यभागस्थासंख्येयश्रेणिवर्तिभिः । नभ:प्रदेशैः प्रमि सामान्यतः सुराः ॥ ९४॥
SR No.022273
Book TitleLokprakash
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2006
Total Pages738
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy