SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ 139 छप्पन्ना तिन्नि सया, पुव्वाणं पुव्ववणिआ अण्णे । एत्तो पुबंगाइं, इमाई अहियाई अण्णाइं ॥ लख्खाइं एगवीसं, पुवंगाण सयरीसहस्साइं । छच्चे वे गूणठ्ठा, पुवंगाणं सया हो ति ॥ तेसीइ सयसहस्सा, पण्णासं खलु भवे सहस्सा य । तिन्निसया छत्तीसा, एवइया अविगला मणुआ” ॥ उत्कर्षेण समुदिता, गर्भसंमूर्छ जा नराः । असंख्ये यकालचक्र समयैः प्रमिता मताः ॥ मनुष्या हि उत्कृष्टपदेऽपि श्रेण्यसंख्येयभागगतप्रदेशराशिप्रमाणा लभ्यन्ते इति तु प्रज्ञापनावृत्तौ ॥ इति मानम् ॥ ३२ ॥ . गर्भजा: पुरुषाः स्तोकास्तत: संख्यगुणा: स्त्रियः । ततोऽसंख्यगुणाः षण्ढनरा: संमूछिमैर्युताः ॥ ११४ ॥ इति लघ्यल्पबहुता ॥ ३३ ॥ दक्षिणोत्तरयोः स्तोकाः, स्युर्मनुष्या मिथ: समा: । प्राच्यां तत: संख्यगुणाः, प्रतीच्यां च ततोऽधिका: ॥ ११५ ॥ भरतैवरतादीनि, क्षेत्राण्यल्पान्यपागुदम् । तत: संख्यगुणानि स्युः, पूर्वपश्चिमयोर्दिशोः ॥ ११६ ॥ किन्त्वधोलौकिकग्रामेष्वनल्पा:स्युनरा यतः । ततः प्रतीच्यामधिका, मनुष्याः प्राच्यपेक्षया ॥ ११७ ॥ इति दिगपेक्षयाऽल्पबहुता ॥ ३४ ॥ अन्र्मुहूर्तमल्पिष्टं, मनुष्याणां महान्तरम् । कालोऽनन्तः स चोत्कृष्टा, कायस्थितिर्वनस्पतेः ॥ ११८ ॥ चक्रित्वे चान्तरं प्रोक्तं, साधिकाब्धिमितं लघु । ज्येष्ठं च पुद्गलपरावर्धिं पञ्चमाङ्गके ॥ ११९ ॥ इत्यन्तरम् ॥ ३५ ॥ नृणामिति व्यतिकरा विवृता मयैवम् । सम्यग् विविच्य समयात् स्वगुरुप्रसत्या । पूर्णापणादिव कणा: कलमौक्तिकानाम् । दीपत्विषाऽऽप्तवणिजा मणिजातिवेत्रा ॥ १२० ॥ विश्वाश्चर्यदकीर्तिकीर्तिविजयश्रीवाचकेन्द्रांतिषद्राजश्रीतनयोऽतनिष्ट विनय: श्री तेजपालात्मजः । काव्यं यत्किल तत्र निश्चितजगत्तत्वप्रदीपोपमे । सो निर्गलितार्थसार्थसुभग: पूर्णः सुखं सप्तमः ॥ १२१ ॥ ॥ इति श्रीलोकप्रकाशे मनुष्याधिकाररुप: सप्तमः सर्गः समाप्त: ॥ अथाष्टमः सर्गः । सुराश्चतुर्धा भवनव्यन्तरज्योतिषा अपि । वैमानिका इति प्रोक्तास्तान्प्रभेदैरथ ब्रूवे ॥१॥ दशधा भवनेशाचासुरनागसुपर्णकाः । विद्युदग्निदीपवाधिदिग्वायुस्तनिता इति ॥२॥ एते च सर्वे कुमारोपपदा इति ज्ञेयम् ॥ परमाधार्मिकाः पञ्चदशधाः परिकीर्तिताः । यथार्थैर्नामभिः ख्याता, अम्बप्रभृतयश्च ते ॥३॥
SR No.022273
Book TitleLokprakash
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2006
Total Pages738
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy