________________
138
इति द्वारषट्कम् ॥ १७-२२ ॥ सद्भावाढ्यक्तसंज्ञानामेते संज्ञितया मता: । दीर्घकालिक्यादिकानामपि सत्वात्तथैव ते ॥ १०६ ॥ इति संज्ञिता ॥ २३ ॥ एतेषु भवतः पुंस्त्रीवेदावसंख्यजीविषु । पुंभिस्तुल्याः स्त्रियश्चैषु, स्युर्युग्मित्वेन सर्वदा ॥ १०७ ॥ पुंस्त्रीक्लीबास्त्रिधाऽन्ये स्युस्तत्र पुंभ्यः स्त्रियो मता: । सप्तविंशत्यतिरिक्ताः, सप्तविंशतिसंगुणाः ॥ १०८ ॥ गर्भजा: क्लीबास्तु पुमाकारभाजः पुंसु स्त्र्याकारभाजस्तु स्त्रीषु गण्यन्ते इति वृद्धवादः । इति वेदाः ॥ २४ ॥ तिम्रो दृशो ज्ञानाज्ञानदर्शनान्यखिलान्यपि । द्वादशेत्युपयोगा: स्युस्त्रिधौजः प्रमुखाहृतिः ॥ १०९ ॥ आहारस्य कावलिकस्यान्तरं स्यात्स्वभावजम् । ज्येष्ठं दिनत्रयं प्राग्वदनाहारकतापि च ॥ ११० ॥ द्विक्षणा विग्रहगतौ, समुद्घाते तु सप्तमे । भवत्यनाहारकता, तृतीयादिक्षणत्रये ॥ १११ ।। अयोगित्वे पुनः सा स्यादसंख्यसमयात्मिका । गुणस्थानानि निखिलान्येषु योगास्तथाखिलाः ॥ ११२ ॥ इति द्वारसप्तकम् ॥ २५-३१ ॥ गर्भजानां मनुष्याणामथ मानं निरूप्यते । एकोनत्रिंशताऽङ्गैस्ते, मिता जघन्यतोऽपि हि ॥ ११३ ॥
ते च अमी । छ ति ति ख पण नव तिग चउ पण तिग नव पंच सग ति तिग चउरो । छ दु चउ इग पण दु छ इग अड दु दु नव सग जहन्न नरा ॥ इति
पर्यन्तवर्तिनोऽङ्कस्थानादारभ्योऽङ्कस्थानसंग्रहः ॥ ॥ ७९२२८१६२५१४२६४३३७५९३५४३९५०३३६ ॥
एकं, दस, सयं, सहस्सं, दससहस्सं, लक्खं, दसलक्खं, कोडिं, दसकोडिं, कोडिसयं, कोडिसहस्सं, दसकोडिसहस्सं, कोडिलक्खं, दसकोडिलक्खं, कोडाकोडि, दसकोडाकोडि, कोडाकोडिसयं, कोडाकोडिसहस्सं, दसकोडाकोडिसहस्सं, कोडाकोडिलक्खं, दसकोडाकोडीलख्खं, कोडाकोडिकोडि, दसकोडाकोडिकोडी, कोडाकोडिकोडिसयं, कोडाकोडिकोडिसहस्सं, दसकोडाकोडिकोडिसहस्सं, कोडाकोडिकोडिलक्खं, दसकोडाकोडिकोडिलख्खं, कोडाकोडिकोडिकोडि इत्याद्यङ्कवाचनप्रकार: ॥ ___एतेषामेवैकोनत्रिंशतोऽङ्कस्थानानां पूर्वपुरुषैः पूर्वपूर्वाङ्ग परिसंख्यानं कृतम् । तदुपदर्श्यते । तत्र चतुरशीतिर्लक्षाणि पूर्वाङ्गम् । चतुरशीतिलक्षाः चतुरशीतिलक्षैः गुण्यन्ते ततः पूर्वं भवति ।
तस्य परिमाणं सप्ततिः कोटिलक्षाणि षट्पञ्चाशत् कोटिसहस्राणि (७०५६००००००००००) । एतेन पूर्वोक्ताङ्कराशेः भागो हियते तत इदमागतम्“मणुआणं जहन्नपदे, एगारस पूब्बकोडिकोडिओ । बावीसकोडिलक्खा, कोडिसहस्सा च चुलसीइ ॥ अटेव य कोडिसया, पुव्वाण दसुत्तरा तओ हुंति । एक्कासीई लक्खा, पंचाणउई सहस्सा य ॥