________________
137
अर्हन्तो वासुदेवाश्च, बलदेवाश्च चक्रिणः । सुरनैरयिकेभ्यः स्युर्नुतिर्यग्भ्यो न कर्हिचित् ॥ ८३ ॥ तत्रापि - प्रथमादेव नरकात्, जायन्ते चक्रवर्तिनः । द्वाभ्यामेव हरिबलास्त्रिभ्यः एव च तीर्थपाः ॥ ८४ ॥ चतुर्विधाः सुराश्च्युत्वा भवन्ति बलचक्रिणः । जिना वैमानिका एव, हरयोऽप्यननुत्तराः ॥ ८५ ॥ एवं मनुष्यरत्नानि यानि स्युः पञ्च चक्रिणाम् । तान्यागत्या विभाव्यानि, सामान्येन मनुष्यवत् ॥ ८६ ॥ वैमानिकेभ्यश्च यदि, भवन्ति तानि तर्हि च । अनुत्तरसुरान् मुक्त्वाऽन्येभ्यः स्युर्वासुदेववत् ॥ ८७ ॥ मुहूर्त्ता द्वादशोत्कृष्टं, समयो लघु चान्तरम् । तिर्यग्वदेकसमयसंख्या संमूच्छिमैः सह ॥ ८८ ॥ उक्तं च-नानाङ्गिनामपर्याप्तनृत्वेनोत्पत्तिरीरिता । उत्कर्षतोऽविच्छेदेन, पल्यासंख्यलवावधि ।। ८९ ।। अपर्याप्तनरत्वेनोत्पत्तिरेकस्य चाङ्गिनः । उत्कर्षतो जघन्याच्चान्तर्मुहूर्त्तं निरन्तरम् ॥ ९० ॥ इत्यर्थतः पञ्चसंग्रहे ॥ इत्यागतिः ॥ १४ ॥
सम्यक्त्वं देशविरतिं, चारित्रं मुक्तिमप्यमी । लभन्तेऽनन्तरभवे, लब्ध्वा नरभवादिकम् ।। ९१ ।। अनन्तरभवे चैते, न लभन्ते कदाचन । अर्हत्त्वं चक्रवर्तित्वं, बलत्वं वासुदेवताम् ॥ ९२ ॥ लब्धिष्वष्टाविंशतौ या, येषामिह नृजन्मनि । संभवन्ति प्रसङ्गेन, दर्श्यन्ते ता यथागमम् ।। ९३ ।। कफविप्रुण्मलामर्श सर्वोषधिमहर्द्धयः । संभिन्न श्रोतोलब्धिश्च विपुलर्जुधियावपि ॥ ९४ ॥ चारणाशीविषावधिसार्वज्ञ्यगणधारिताः । चक्रितार्हत्त्वबलताविष्णुत्वं पूर्वधारिता ।। ९५ ।। क्षीरमध्वाज्याश्रवाश्च, बीजकोष्ठधियौ तथा । पदानुसारिता तेजोलेश्याऽऽहारकवैक्रिये ।। ९६ ।। शीतलेश्याऽक्षीणमहानसी पुलाकसंज्ञिता । इत्यष्टाविंशतिर्भव्यपुंसां सल्लब्धयो मताः ।। ९७ ।। चक्रयर्हद्विष्णुबलसंभिन्नश्रोतस्त्वपूर्विताः । गणभृत्वं चारणत्वं, पुलाकाहार अपि ॥ ९८ ॥ विना दशामूः स्त्रीष्वन्याः, स्युरष्टादशलब्धयः । आस्वार्हन्त्यं कदाचिद्यत्तत्वाश्चर्यतयोदितम् ।। ९९ ।। दशैताः केवलित्वं च विपुलर्जुधियावपि । अभव्यपुंसां नैवैताः संभवन्ति त्रयोदश ॥ १०० ॥ अभव्ययोषितामेताः, क्षीराद्याश्रवसंयुताः । न स्युश्चर्तुदशैतासां ततो ज्ञेयाश्चर्तुदश ।। १०१ ।। इत्यनन्तराप्तिः ॥ १५ ॥
१०२ ॥
१०३ ॥
अनन्तरभवे चैते, प्राप्य मानुष्यकादिकम् । सिद्ध्यन्त्येकत्रसमये, विंशतिर्नाधिकाः पुनः ॥ तत्रापि पुंमनुष्येभ्यो, जाताः सिद्ध्यन्ति ते दश । नारीभ्योऽनन्तरं जाताः, क्षणे ह्येकत्र विंशतिः ॥ इति समयसिद्धिः ॥ १६ ॥ लेश्याहारदिशः सर्वा, एषां संहननान्यपि । सर्वे कषायाः स्युः संज्ञाश्चेन्द्रियाण्यखिलान्यपि ॥ १०४ ॥ लेश्याश्चतस्रः कृष्णाद्या, भवन्त्यसंख्यजीविनाम् । एषामाद्यं संहननमेकमेव प्रकीर्त्तितम् ।। १०५ ।।