SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ 136 आजीविकाभियोगानां, भवनाच्युतताविषौ । निहवानां च भवनेशान्त्यग्रैवेयकौ किल ॥ ६९ ॥ भव्यानामप्यभव्यानां, साधुवेषगुणस्पृशाम् । अपि मिथ्यादृशामेष, विषयस्सत्क्रियाबलात् ॥ ७० ॥ निग्रंथगुणवत्त्वेऽपि, ते स्युः मिथ्यादृशो यतः । अश्रद्दधन् पदमपि, मिथ्यात्वी सूत्रभाषितम् ॥ ७१ ॥ सूत्रलक्षणं चैवमाहुः“सुत्तं गणहररइयं तहेव पत्तेअबुद्धरइयं च । सुअकेवलिणा रइयं अभिन्नदसपुग्विणा रइयं” । [बृहत्संग्रहणी गा. १५६] देवेषु गच्छतामेषां, स्यादुक्तो गतिगोचरः । न त्वेषां गतिरेषैवेत्याशंक्यं मतिशालिभिः ॥ ७२ ॥ कान्दर्पिकादिलक्षणं चैवम्:कन्दर्पः परिहासोऽस्ति, यस्य कान्दर्पिकश्च सः । कन्दर्पविकथाशंसी, तत्प्रशंसोपदेशकृत् ॥७३॥ नानाहासकला: कुर्वन्, मुखतुर्याङ्गचेष्टितैः । अहसन् हासयंश्चान्यान् नानाजीवरुतादिभिः ॥ ७४ ॥ किल्बिषं पापमस्यास्ति, स किल्बिषिक उच्यते । मायावी ज्ञानसद्धर्माचार्यसाध्वादिनिन्दकः ॥ ७५ ॥ वर्तयेद्यस्तु नटवत्, वेषमाजीविकाकृते । बाह्योपचारचतुरः, स आजीविक उच्यते ॥७६ ॥ अभियोग: कार्मणादिस्तत्प्रयोक्ताऽऽभियोगिकः । द्रव्याभियोगमन्त्रादिः, स द्विधा द्रव्यभावतः ॥७७॥ तथोक्तम्-“दुविहो खलु अभियोगो दव्वे भावे य होइ नायब्बो । दब्बंमि होन्ति जोगा, विज्जामंता य भावंमि” ॥ इति भगवतीवृत्तिप्रथमशतकद्धितीयोद्देशके ॥ व्यवहारेण चारित्रवन्तोऽप्येतेऽचरित्रिणः । लभन्त इदृशी: संज्ञा, दोषैरेतैर्यथोदितैः ॥ ७८ ॥ प्रयान्ति नरकेष्वेव, नियमादर्धचक्रिणः । तथैव च गतिज्ञैया, प्रत्यर्धचक्रिणामपि ॥ ७९ ॥ चक्रिणो येऽत्यक्तराज्याः, प्रयान्ति नरकेषु ते । सप्तस्वपि यथाकर्मोत्कृष्टायुष्कतया परम् ।। ८०॥ तथोक्तं भगवतीशतक १२ नवमोद्देशकवृत्तौ चक्रवर्तित्वान्तरनिरुपणाधिकारे “जहण्णेणं सातिरेगं सागरोवमंति कथम् । अपरित्यक्तसङ्गाः चक्रवर्तिनो नरकपृथिवीषूत्पद्यन्ते, तासु च यथास्वमुत्कृष्टस्थितयो भवन्ति । ततश्च नरदेवो मृतः प्रथमपृथिव्यामुत्पन्नस्तत्र चोत्कृष्टां स्थितिं सागरोपमप्रमाणमनुभूय नरदेवो जायत इत्येवं सागरोपमम् ॥ सातिरेकत्वं च नरदेवभवे चक्ररत्नोत्पत्तेरर्वाचीनकालेन दृष्टव्यमिति ॥ श्रीहरिभद्रसूरिकृतदशवैकालिकवृत्तौ हैमवीरचरित्रे नवपदप्रकरणवृत्तौ च चक्रिणः सप्तम्यां नरकपृथिव्यामेवात्यक्तराज्या यान्ति इत्युक्तम् ॥ त्यक्तराज्यास्तु ये सार्वभौमास्ते यान्ति ताविषम् । मुक्तिं वाऽथ सीरिणोऽपि, ध्रुवं स्वर्मुक्तिगामिनः ॥ ८१ ॥ इति गतिः ॥ १३ ॥ असंख्यायुनृतिरश्चः, सप्तमक्षितिनारकान् । वाय्वग्नी च विना सर्वेऽप्युत्पद्यन्ते नृजन्मसु ॥ ८२ ॥ १. कोणिकाख्यानकापेक्षं हि तत्, तथा तस्य तथाविधामवस्थामवलोक्य जिनेनोक्तं, ततो न नियामकं वच एतत् ।
SR No.022273
Book TitleLokprakash
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2006
Total Pages738
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy