SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ 135 स्थित्वा द्वादशवर्षाणि, गर्भे कश्चिन्महाऽघवान् । विपद्योत्पद्य तत्रैव तावत्तिष्ठत्यसौ यतः ॥ ४८ ॥ इति भवस्थितिः ॥ ७ ॥ इत्यर्थतो भगवतीशतक २ पञ्चमोद्देशके ॥ पूर्वाणां कोटयः सप्त, तथा पल्योपमत्रयम् । भाव्या गर्भजर्तियग्वदेषां कायस्थितिर्गुरुः ॥ ४९ ॥ इति कायस्थितिः ॥ ८ ॥ संख्येयजीविनां देहाः, पञ्चासंख्येयजीविनाम् । भवेत् देहत्रयमेव, विनाऽऽहारकवैक्रिये ॥ ५० ॥ इति देहाः ॥ ९ ॥ संख्येयजीविनां नृणां, संस्थानान्यखिलान्यपि । चतुरसं भवेदेतदसंख्येयायुषां पुनः ।। ५१ ।। इति संस्थानम् ॥ १० ॥ शतानि पञ्च धनुषां, वपुः संख्येयजीविनाम् । गव्यूतत्रयमन्येषामुत्कर्षेण प्रकीर्त्तितम् ॥ ५२ ॥ जघन्यतोऽङ्गुलासंख्यभागमानमिदं भवेत् । उभयेषां तदारम्भकाल एवास्य सम्भवः ॥ ५३ ॥ संख्यायुषां वैक्रियं साधिकैकलक्षयोजनम् । उत्कर्षेण जघन्याच्चाङ्गुलसंख्यांशसंमितम् ॥ ५४ ॥ आहारकशरीरं यत्, स्यादेषां लब्धिशालिनाम् । श्रुतकेवलिनां तत्तु, मानतो हस्तसंमितम् ॥ ५५ ॥ इत्यङ्गगमानम् ॥। ११ ॥ स्युः सप्तापि समुद्घाता, नृणां संख्येयजीविनाम् । अंसख्येयायुषामाद्यास्त्रय एव भवन्ति ते ।। ५६ । इति समुद्घाताः ॥ १२ ॥ यान्ति सर्वे सुरेष्वेव, नरा असंख्यजीविनः । निजायुः समहीनेषु, नाधिकस्थितिषु क्वचित् ॥ ५७ ॥ ततोऽन्तर्दीपजातास्ते, भवनव्यन्तरावधि । यान्तीशानदिवं यावत्, हरिवर्षादिजास्तु ते ॥ ५८ ॥ सौधर्मान्तं हैमवतहैरण्यवतजा इमे । जघन्यापि यदीशानेऽधिकपल्योपमा स्थितिः ।। ५९ ।। सर्वसंसारिगतिषु, नराः संख्येयजीविनः । गच्छन्ति कर्मविगमादेति मुक्तिगावपि ॥ ६० ॥ तत्र च— तीव्र रोषास्तपोमत्तास्तथा बालतपस्विनः । द्वैपायनादिवद्वैरपरा यान्त्यसुरेष्वमी ॥ ६१ ॥ जलाग्निझंपासंपातगलपाशविषाशनैः । तृक्षुदाद्यैर्मृतास्ते स्युर्व्यन्तराः शुभभावतः ॥ ६२ ॥ अविराद्धचारित्राणां, जघन्यादाद्यताविषः । उत्कर्षेण च सर्वार्थसिद्धः स्याद्विषयो गतेः ॥ ६३ ॥ विराद्धसंयमानां तु, भवनेशाद्यताविषौ । क्रमाज्जघन्योत्कर्षाभ्यामेवमग्रेऽपि भाव्यताम् ॥ ६४ ॥ आराद्धदेशविरते:, सौधर्माच्युतताविषौ । विराद्धदेशविरते: भवनज्योतिरालयौ ।। ६५ । तापसानामपि तथा, तावेव गतिगोचरौ । कांदर्पिकाणां भवनाधिपसौधर्मताविषौ ॥ ६६ ॥ चरकाणां परिव्राजां, भवनब्रह्मताविषौ । सौधर्मलान्तकौ कल्पौ ख्यातौ किल्बिषिकाङ्गिनाम् ॥ ६७ ॥ विमानेषूत्यपद्यमानापेक्षयेदं यतोऽन्यथा । सन्ति किल्बिषिका देवा, भवनाधिपतिष्वपि ॥ ६८ ॥
SR No.022273
Book TitleLokprakash
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2006
Total Pages738
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy