________________
133
इति द्वारचतुष्टयम् ॥ ९-१२ ॥ एषां गतिर्विकलवत्तथैवागतिरप्यहो । किन्त्वमी वहिवायुभ्यां, नागच्छन्ति नरत्वतः ॥ ११ ॥ अष्टचत्वारिंशदेषां, नाड्यो जन्मात्ययान्तरम् । एकसामयिकी संख्या, विज्ञेया विकलाक्षवत् ॥ १२ ॥ इति गत्यागती ॥ १३-१४ ॥ अनन्तराप्तिः समये, सिद्धयतां गणनाऽपि च । पृथग् न लक्ष्यते ह्येषां, सा विज्ञेया बहुश्रुतात् ॥ १३ ॥ इति द्वारद्वयम् ॥ १५-१६ ॥ द्वाराणि लेश्यादीन्यष्टावेतेषां विकलाक्षवत् । उक्तानि किन्त्विन्द्रियाणि, पञ्चैतेषां श्रुतानुगैः ॥ १४ ॥ इति द्वाराष्टकम् ॥ १७-२४ ॥ मिथ्यादृशोऽमी एतेषामाद्याज्ञानद्वयं तथा । आये ढे दर्शने तस्मादुपयोगचतुष्टयम् ॥ १५ ॥ इति द्वारचतुष्टयम् ॥ २५-२८ ॥ साकारान्योपयोगाश्चाज्ञानदर्शनवत्तया । विकलाक्षवदाहारकृतः कावलिकं विना ॥१६॥ इत्याहारः ॥ २९ ॥ आद्यं गुणस्थानमेषामिदं योगत्रयं पुन: । औदारिकस्तन्मिश्रश्च कार्मणश्चेति कीर्तितम् ॥ १७ ॥ इति द्वारद्वयम् ॥ ३०-३१ ॥ अङ्गलप्रमितक्षेत्रप्रदेशराशिवर्तिनि । तृतीयवर्गमूलने, वर्गमूले किलादिमे ॥१८॥ यावान् प्रदेशराशि: स्यात्, खण्डास्तावत्प्रदेशकाः । यावन्त एकस्यामेकप्रादेशिक्यां स्युरावलौ ॥ १९ ॥ तावन्तः संमूछिमा हि, मनुजा मनुजोत्तमैः । निर्दिष्टा दृष्टविस्पष्टसचराचरविष्टपैः ॥ २० ॥ इति मानम् ॥ ३२ ॥ द्वाराण्यथोक्तशेषाणि, पञ्चैतेषां मनीषिभिः । भाव्यानीह वक्ष्यमाणगर्भोद्भवमनुष्यवत् ॥ २१ ॥ इति द्वारपञ्चकम् ॥ ३३-३७ ॥ कर्माकर्मधरान्तीपभवा गर्भजा नरास्त्रिविधाः । स्युः पञ्चदशत्रिंशत्षट्पञ्चाशद्विधाः क्रमतः ॥ २२ ॥ म्लेच्छा आर्या इति द्वेधा, मनुजाः कर्मभूमिजाः । म्लेच्छाः स्युः शकयवनमुरुंडशबरादयः ॥ २३ ॥ आर्याः पुनर्दिधाः प्रोक्ता, ऋद्धिप्राप्तास्तथापरे । ऋद्धिप्राप्तास्तत्र षोढा, प्रज्ञप्ताः परमेश्वरैः ॥ २४ ॥ अर्हन्तः सार्वभौमाश्च, महैश्वर्यमनोहराः । बलदेवा वासुदेवाः, स्युर्विद्याधरचारणाः ॥ २५ ॥ अनृद्धयो नवविधाः, क्षेत्रजातिकुलार्यकाः । कर्मशिल्पज्ञानभाषाचारित्रदर्शनार्यकाः ॥ २६ ॥
१. गर्भजनराणां सदा सत्वेऽपि तदुत्पादकारणानामुच्चारादीनां च सद्भावेऽपि तथाविधतीव्रतापशैत्यादिना नैतदुत्पत्तिः कालमियन्तमिति ।