SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ 132 एतत् वनस्पतेः कायस्थितिं भुक्त्वा गरीयसीम् । पुनः पञ्चाक्षतिर्यक्त्वं, लभमानस्य सम्भवेत् ॥ १९४ ॥ इत्यन्तरम् ॥ ३५ ॥ यक्षादितिर्यक्तनुभृत्स्वरूपमेवं मयोक्तं किल लेशमात्रम् । विशेषविस्ताररसार्थिना तु, सिद्धान्तवारांनिधयोऽवगाह्याः ॥ १९५ ॥ विश्वाश्चर्यदकीर्तिकीर्तिविजयश्रीवाचकेन्द्रान्तिषद्राजश्रीतनयोऽतनिष्ट विनयः श्रीतेजपालात्मजः ॥ काव्यं यत्किल तत्र निश्चितजगत्तत्वप्रदीपोपमे, सो निर्गलितार्थसार्थसुभग: षष्ठः समाप्त: सुखम् ॥ १९६ ॥ । इति श्रीलोकप्रकाशे षष्ठः सर्गः समाप्तः । अथ सप्तमः सर्गः । संमूछिमा गर्भजाश्च, द्विविधा मनुजा अपि । वक्ष्ये संक्षेपतस्तत्र, प्रथमं प्रथमानिह ॥ १ ॥ अन्तीपेषु षट्पञ्चाशत्यथो कर्मभूमिषु । पञ्चाधिकासु दशसु, त्रिंशत्यकर्मभूमिषु ॥ २ ॥ पुरीषे च प्रश्रवणे, श्लेष्मसिंघाणयोरपि । वान्ते पित्ते शोणिते च, शुक्रे मृतकलेवरे ॥ ३ ॥ पूये स्त्रीपुंससंयोगे, शुक्रपुद्गलविच्युतौ । पुरनिर्द्धमने सर्वेष्वपवित्रस्थलेषु च ॥ ४ ॥ स्युर्गर्भजमनुष्याणां, सम्बन्धिष्वेषु वस्तुषु । समूछिमनरा: सैकं, शतं ते क्षेत्रभेदतः ॥ ५ ॥ इति भेदाः ॥ १॥ स्थानमेषां द्विपाथोधिसार्धद्रीपद्धयावधि । स्थानोत्पादसमुद्घातैः लोकासंख्यांशगा अमी ॥ ६ ॥ इति स्थानम् ॥ २ ॥ आरभ्य पञ्च पर्याप्तीस्ते म्रियन्तेऽसमाप्य ताः । संभवन्ति नव प्राणा, एषां चेतोबलं विना ॥ ७ ॥ नव प्राणा इति तु संग्रहण्यवचूर्णी । इति पर्याप्तिः ॥ ३ ॥ संख्या योनिकुलानां च, नैषां गर्भजत: पृथक् । योनिस्वरूपं त्वेतेषां, विज्ञेयं विकलाक्षवत् ॥ ८॥ इति द्धास्त्रयम् ॥ ४ । ५ । ६ ॥ जघन्योत्कर्षयोरन्तर्मुहूर्तं स्यात् भवस्थिति: । पृथक्त्वं च मुहूर्तानामेषां कायस्थितिर्मता ॥ ९ ॥ इति द्वारद्वयम् ॥ ७ ॥ ८ ॥ आद्या त्रिदेही संस्थानं, हुण्डं देहोङ्गुलस्य च । असंख्यांशमित: पूर्व, समुद्घातास्त्रयो मताः ॥ १० ॥ १. प्राणा भवन्ति सप्ताष्टावेषां वाङ्मनसी विना ॥ इति पाठः ।
SR No.022273
Book TitleLokprakash
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2006
Total Pages738
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy