________________
131
इति दर्शनम् ॥ २७ ॥ संमूछिमानां चत्वार, उपयोगा: प्रकीर्तिताः । गर्भजानां तु चत्वारः, षट् पञ्चौघान्नवापिते ॥ १७७ ॥ यदेषां केवलज्ञानं, मुक्त्वा केवलदर्शनम् । ज्ञानं मन:पर्यवं च, सर्वेऽन्ये सम्भवन्ति ते ॥ १७८ ॥ इत्युपयोगा: ॥ २८ ॥ स्यादनाहारिता त्वेषामेकद्धिसमयावधि । ओजआदिस्त्रिधाऽऽहारः, सचित्तादिरपि त्रिधा ॥ १७९ ॥ प्रथमं त्वोजआहारो, लोमकावलिको ततः । अन्तरं द्वौ दिनौ ज्येष्ठं, लघु चान्तर्मुहूर्त्तकम् ॥ १८० ॥ ज्येष्ठं चैतत्कावलिकाहारस्य स्मृतमन्तरम् । स्वाभाविकं त्रिपल्यायुर्युक्ततिर्यगपेक्षया ॥ १८१ ॥ इत्याहारः ॥ २९ ॥ गुणस्थानद्वयं संमूछिमानां विकलाक्षवत् । गर्भजानां पञ्च तानि, प्रथमानि भवन्ति 'हि ॥ १८२ ॥ इति गुणा: ॥ ३० ॥ संमूछिमानां चत्वारो, योगा: स्युर्विकलाक्षवत् । आहारकद्वयं मुक्त्वा, गर्भजानां त्रयोदश ॥ १८३ ॥ इति योगाः ॥ ३१ ॥ प्रतरासंख्यभागस्थाऽसंख्येयश्रेणिवर्तिभिः । नभ:प्रदेशैःप्रमितास्तिर्यञ्चः खचरा:स्मृता ॥ १८४ ॥ एवमेव स्थलचरास्तथा जलचरा अपि । भवन्ति किन्तु संख्येयगुणाधिकाः क्रमादिमे ॥ १८५ ॥ यदसौ प्रतरासंख्यभाग: प्रागुदितः खलु । यथाक्रमं श्रुते प्रोक्तो, बृहत्तरोबृहत्तमः ॥ १८६ ॥ षट्पञ्चाशाङ्गलशतदयमानानि निश्चितम् । यावन्ति सूचीखण्डानि, स्युरेकप्रतरे स्फुटम् ॥ १८ ॥ तावज्ज्योतिष्कदेवेभ्यः, स्युः संख्येयगुणा: क्रमात् । तिर्यक्पञ्चेन्द्रियाः षण्ढा, नभःस्थलाम्बुचारिणः ॥ १८८ ॥ एतत्संमूछिमग त्थानां समुदितं खलु । क्लीबानां मानमाभाव्यं, श्रुते पृथगनुक्तितः ॥ १८९ ॥ इति मानम् ॥ ३२ ॥ एष्वल्पा: खचरास्तेभ्यः, संख्यनाः खचरस्त्रियः । ताभ्यः स्थलचरास्तेभ्यः, संख्यनाः स्युस्तदङ्गना: ॥ १९० ॥ ताभ्यो जलचरास्तेभ्यो, जलचर्यस्ततः क्रमात् । नपुंसका: संख्यगुणाः, नभःस्थलाम्बुचारिणः ॥ १९१ ॥ एते च संमूछिमयुक्ता इति ज्ञेयम् ॥ इति लघ्यल्पबहुता ॥ ३३ ॥ स्तोका: पञ्चाक्षतिर्यञ्च:, प्रतीच्यां स्युस्तत: क्रमात् । प्राच्यां याम्यामुदीच्यां च, विशेषतोऽधिकाधिकाः ॥ १९२ ॥ इति दिगपेक्षयाल्पबहुता ॥ ३४ ॥ तिर्यक्पञ्चेन्द्रियाणां स्यादन्तर्मुहूर्त्तसंमितम् । जघन्यमन्तरं ज्येष्ठं, त्वनन्तकालसम्मितम् ॥ १९३ ॥ १. च इति पाठः ।