SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ 130 इति गतिः ॥ १३ ॥ एकाक्षा विकलाक्षाच, तिर्यञ्चः संज्यसंज्ञिनः । संमूछिमेषु तिर्यक्ष्वायान्ति नो देवनारकाः ॥ १६२ ॥ एकद्भित्रिचतुरक्षाः, पञ्चाक्षा: संज्यसंजिनः । भवनव्यन्तरज्योतिःसहस्रारान्तनिर्जराः ॥ १६३ ॥ संमूछिमा गर्भजाश्च, मनुष्याः सर्वनारकाः । गर्भोद्भवेषु तिर्यक्षु, जायन्ते कर्मयन्त्रिताः ॥ १६४ ॥ अन्तर्मुहूर्तमुत्कृष्टमुत्पत्तिमरणान्तरम् । समूच्र्छानां गर्भजानां, द्वादशान्तर्मुहूर्त्तकाः ॥ १६५ ॥ समयप्रमितं ज्ञेयं, जघन्यं तद् द्वयोरपि । एकसामयिकी संख्या, ज्ञेयैषां विकलाक्षवत् ॥ १६६ ॥ इत्यागतिः ॥ १४ ॥ लभन्तेऽनन्तरभवे, सम्यक्त्वादि शिवावधि । ते चैकस्मिन् क्षणे मुक्ति, यान्तो यान्ति दशैव हि ॥ १६७ ॥ इत्यनन्तराप्तिः समयेसिद्धिश्च ॥ १५ ॥ १६ ॥ लेश्यात्रितयमाद्यं स्यात्, संमूछिमशरीरिणाम् । गर्भजानां यथायोगं, लेश्याः षडपि कीर्तिताः ॥ १६८ ॥ इति लेश्याः ॥ १७ ॥ षडप्याहारककुभो, द्रयानामन्त्यमेव च । सांमूर्छानां संहननमन्येषामखिलान्यपि ॥ १६९ ॥ ____ अत्र च श्री जीवाभिगमाभिप्रायेण संमूछिमपञ्चाक्षतिरश्चामन्त्यमेवैकं संहननं संस्थानं च स्यात् । षष्ठकर्मग्रन्थाभिप्रायेण तु षडपि तानि स्युः । इत्यर्थत: संग्रहणीबृहद्वृत्तौ ॥ इत्याहारदिक् संहननं च ॥ १८ ॥ १९ ॥ सर्वे कषायाः संज्ञाश्च, निखिलानीन्द्रियाणि च । द्वयानां संमूछिमाः स्युरसंज़िन: परेऽन्यथा ॥ १७० ॥ इति कषायसंज्ञेन्द्रियसंज्ञिता: ॥ २०-२३ ॥ संमूछिमेषु तिर्यक्षु, स्त्री पुमांश्च न सम्भवेत् । केवलं क्लीबवेदास्ते, केवलज्ञानिभिर्मताः ॥ १७१ ॥ स्त्रियः पुमांस: क्लीबाश्च, तिर्यञ्चो गर्भजास्त्रिधा । पुंभ्यः स्त्रियस्त्रिभीरुपैरधिकास्त्रिगुणस्तथा ॥ १७२ ॥ इति वेदाः ॥ २४ ॥ विकलेन्द्रियवत् दृष्टिद्वयं संमूछिमाङ्गिनाम् । तिस्रोऽपि दृष्टयोऽन्येषां, तत्र सम्यग्दृशो द्विधा ॥ १७३ ॥ केचिद्देशेन विरताः, परे त्वविरताश्रयाः । अभावः सर्वविरतेस्तेषां भवस्वभावतः ॥ १७४ ॥ इति दृष्टिः ॥ २५ ॥ संमूछिमा: स्युर्व्यज्ञाना, द्विज्ञाना अपि केचन । द्वित्राज्ञाना गर्भजा द्वित्रज्ञाना अपि केचन ॥ १७५ ॥ इति ज्ञानम् ॥ २६ ॥ दर्शनद्वयमाद्यं स्यादुभयेषामपि स्फुटम् । अवधिज्ञानभाजां तु, गर्भजानां त्रिदर्शनी ॥ १७६ ॥
SR No.022273
Book TitleLokprakash
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2006
Total Pages738
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy