SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ 129 चतुष्पदानां गव्यूतपृथक्त्वं परिकीर्तितम् । भुजगानां खगानां च, कोदण्डानां पृथक्त्वकम् ॥ १३९ ॥ योजनानां पृथक्त्वं चोरगाणां स्यादपुर्गुरु । गर्भजानां वाश्चराणां, संमूर्च्छिमाम्बुचारिवत् ॥ १४० ॥ चतुष्पदानां गव्यूतषट्कं भुजगदेहिनाम् । गव्यूतानां पृथक्त्वं स्यादुत्कृष्टं खलु भूघनम् ॥ १४१ ॥ तथोर:परिसर्पाणां, सहस्रयोजनं वपुः । यतोऽनेकविधा उक्ता, एतज्जातौ महोरगाः ॥ १४२ ॥ अङ्गलेन मिता: केचित्तत्पृथक्त्वाङ्गकाः परे । केचित्क्रमाद्र्धमानाः, सहस्रयोजनोन्मिताः ॥ १४३ ॥ गर्भजानां खचराणां धनुःपृथक्त्वमेव तत् । अङ्गलासंख्यांशमानं, सर्वेषां तज्जघन्यतः ॥ १४४ ॥ वैक्रियं योजनशतपृथक्त्वप्रमितं गुरू । आरम्भेऽङ्गुलसंख्यांशमानं तत्स्याज्जघन्यतः ॥ १४५ ॥ इति देहमानम् ॥ ११ ॥ आद्यस्त्रयः समुद्घाता:, संमूछिमशरीरिणाम् । गर्भजानां तु पञ्चैते, कैवल्याहारको विना ॥ १४६ ॥ इति समुद्घाताः ॥ १२ ॥ यान्ति संमूछिमा नूनं, सर्वास्वपि गतिष्वमी । तत्रापि नरके यान्तो, यान्त्यायनरकावधि ॥ १४७ ॥ एकेन्द्रियेषु सर्वेषु, तथैव विकलेष्वपि । संख्यासंख्यायुर्युतेषु, तिर्यक्षु मनुजेषु च ॥ १४८ ॥ असंख्यायुतिर्यसूत्पद्यमानास्त्वसंज्ञिनः । उत्कर्षाद्यान्ति तिर्यञ्चः, पल्यासंख्यांशजीविषु ॥ १४९ ॥ असंजिनो हि तिर्यंञ्चः, पल्यासंख्यांशलक्षणम् । आयुश्चतुर्विधमपि, बजन्त्युत्कर्षतः खलु ॥ १५० ।। अन्तर्मुहूर्त्तमानं च, नृतिरश्चोर्जघन्यतः । देवनारकयोर्वर्षसहस्रदशकोन्मितम् ॥ १५१ ।। तत्रापि देवायुईस्वपल्यासंख्यांशसंमितम् । नृतिर्यग्नारकायूंष्यसंख्यनानि यथाक्रमम् ॥ १५२ ॥ [इदमर्थतो भगवतीशतक १ द्वितीयोद्देशके ॥] देवेषूत्पद्यमानाः स्युर्भवनव्यन्तरावधि । एतद्योग्यायुषोऽभावान्न ज्योतिष्कादिनाकिषु ॥ १५३ ॥ यान्ति गर्भजतिर्यंञ्चोऽप्येवं गतिचतुष्टये । विशेषस्तत्र नरकगतावेष निरुपितः ॥ १५४ ॥ सप्तस्वपि मासु यान्ति, मत्स्याद्या जलचारिणः । रौद्रध्यानार्जितमहापाप्मानो हिंसका मिथः ॥ १५५ ॥ चतुष्पदाश्च सिंहाद्याश्चतसृष्वाद्यभूमिषु । पञ्चसूरःपरिसस्तिसृष्वाद्यासु पक्षिणः ॥ १५६ ॥ भुजप्रसर्पा गच्छन्ति, प्रथमद्विक्षमावधि । देवेषु गच्छतामेषां, सर्वेषां समता गतौ ॥ १५७ ॥ भवनेशव्यन्तरेषु, ज्योतिष्केषु च यान्त्यमी । वैमानिकेषु चोत्कर्षादष्टमत्रिदिवावधि ॥ १५८ ॥ सुरेषु यान्ति सर्वेऽपि, तिर्यञ्चोऽसंख्यजीविनः । निजायुःसमहीनेषु, नाधिकस्थितिषु क्वचित् ॥ १५९ ॥ असंख्यजीविखचरा, अन्तरदीपजा अपि । तिर्यक्पञ्चेन्द्रिया यान्ति भवनव्यन्तरावधि ॥ १६० ॥ ततः परं यतो नास्ति, पल्यासंख्यांशिका स्थितिः । न चैवमीशानादग्रे, यान्ति केऽप्यमितायुषः ॥ १६१ ॥
SR No.022273
Book TitleLokprakash
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2006
Total Pages738
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy