SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ 128 इति योनिसंवृतत्वादि ॥ ६ ॥ पूर्वकोटिमितोत्कृष्टा, स्थिति: स्याज्जलचारिणाम् । चतुष्पदानां चतुरशीतिवर्षसहस्रकाः ॥ १२० ॥ वत्सराणां त्रिपञ्चाशत्, सहस्राण्युरगाङ्गिनाम् । भुजगानां द्विचत्वारिंशत्सहस्रा: स्थितिर्मता ॥ १२१ ॥ खचराणां सहस्राणि, दासप्ततिः स्थितिर्गुरुः । संमूछिमानां सर्वेषामित्युत्कुष्टा स्थितिर्भवेत् ॥ १२२ ॥ गर्भजानां पूर्वकोटिरुत्कृष्टा जलचारिणाम् । चतुष्पदानामुत्कृष्टा, स्थिति: पल्योपमत्रयम् ॥ १२३ ॥ भुजोर:परिसणां, पूर्वकोटिः स्थितिर्गुरुः । खचराणां च पल्यस्यासंख्येयांशो गुरुः स्थितिः ॥ १२४ ॥ गर्भजानां तिरश्चां स्यादोघेनोत्कर्षत: स्थितिः । पल्यत्रयं समेषामप्यवशंतर्मुहूर्त्तकम् ॥ १२५ ॥ इति भवस्थितिः ॥ ७ ॥ संमूछिमानां पञ्चाक्षतिरश्चां कायसंस्थितिः । सप्तकं पूर्वकोटीनां, तदेवं परिभाव्यते ॥ १२६ ॥ मृत्वा मृत्वाऽसकृत्संमूछिमस्तिर्यग् भवेद्यदि । तदा सप्तभवान् यावत्, पूर्वकोटीमितस्थितीन् ।। १२७ ॥ यद्यष्टमे भवेऽप्येष, तिर्यग्भवमवाप्नुयात् । तदाऽसंख्यायुष्कतिर्यग्गर्भज: स्यात्ततः सुरः ॥ १२८ ।। कोटयः सप्त पूर्वाणां, पल्योपमत्रयान्विताः । कायस्थितिर्गर्भजानां, तिरश्चां तत्र भावना ॥ १२९ ॥ संख्येयायुर्गर्भजेषु, तिर्यसूत्पद्यतेऽसुमान् । उत्कर्षण सप्तवारान्, पूर्वैककोटिजीविषु ॥ १३० ॥ अष्टम्यां यदि वेलायां, तिर्यग्भवमवाप्नुयात् । असंख्यायुस्तदा स्यात्तत्स्थिति: पल्यत्रयं गुरुः ॥ १३१ ॥ अत एव श्रुतेऽप्युक्तम्- [उत्तराध्ययनसूत्रे, दशमं अध्ययनम् गाथा १३.] “पंचिंदियकायमइगओ, उक्कोसं जीवो उ संवसे । सत्तट्ठभवग्गहणे समयं गोयम ! मा पमायए” ॥ अत्र संख्यातायुभवापेक्षया सप्त, उभयापेक्षया तु अष्टौ इति ॥ पूर्वकोट्यधिकायुस्तु, तिर्यक् सोऽसंख्यजीवितः । तस्य देवगतित्वेन, मृत्वा तिर्यक्षु नोद्भवः ॥ १३२ ॥ अष्टसंवत्सरोत्कृष्टा, जघन्याऽन्तर्मुहूर्तिकी । गर्भस्थितिस्तिरश्चां स्यात्, प्रसवो वा ततो मृतिः ॥ १३३ ।। संख्याताब्दाधिकं वार्धिसहस्रमोघतो भवेत् । पञ्चेन्द्रियतया कायस्थितिरुत्कर्षतः किल ॥ १३४ ॥ पर्याप्तपञ्चाक्षतया, कायस्थितिगरीयसी । शतपृथक्त्वमब्धीनां, जघन्याऽन्तर्मुहूर्त्तकम् ॥ १३५ ॥ इति कायस्थितिः ॥ ८ ॥ देहास्त्रयस्तैजसश्च, कार्मणौदारिकाविति । सांमूर्छानां युग्मिनां च, तेऽन्येषां वैक्रियाञ्चिताः ॥ १३६ ॥ इति देहाः ॥ ९ ॥ संमूछिमानां संस्थानं, हुंडमेकं प्रकीर्तितम् । गर्भजानां यथायोगं, भवन्ति निखिलान्यपि ॥ १३७ ॥ इति संस्थानम् ॥ १० ॥ संमूछिमानामुत्कृष्टं, शरीरं जलचारिणाम् । सहस्रं योजनान्येतन्मत्स्यादीनामपेक्षया ॥ १३८ ॥
SR No.022273
Book TitleLokprakash
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2006
Total Pages738
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy